SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ द्वार-२, अध्ययन-३, ४८७ पालनं स एवार्थस्तद्भावस्तत्ता तस्यैव प्रवचनं-शासनमित्यादि वक्तव्यं यावत् 'परिरक्षण ट्ठयाए'त्ति 'पढमंतिप्रथमं भावनावस्तु विविक्तवसतिवासो नाम, तत्राह-देवकुलं-प्रतीतं सभामहाजनस्थानंप्रपा-जलदानस्थानं आवसथः-परिव्राजकस्थानं वृक्षमूलं प्रतीतंआरामो-माधवील ताद्युपतो दम्पतिरमणाश्रयो वनविशेषः कन्दरा-दरी आकरो-लोहाद्युत्पत्तिस्थानं गिरिगुहा-प्रतीता कर्मअन्तर्यत्र सुधादि परिकर्म्यते उद्यानं-पुष्पादिमवृक्षसङ्कुलमुत्सवादौ बहुजनभोग्यं यानशाला-रथादिगृहं कुपितशाला-तूल्यादिगृहोपस्करशाला मण्डपो-यज्ञादिमण्डपः शून्यगृहं श्मशानं च प्रतीतं लयनं-शैलगृहं आपणः-पण्यस्थानं एतेषां समाहारद्वन्द्वस्ततस्तत्र अन्यस्मिंश्चैवमादिके-एवंप्रकारे उपाश्रये भवति विहर्त्तव्यमिति सम्बन्धः, किंभूते? -दकं-उदकं मृत्तिका-पृथिवीकायः बीजानि-शाल्यादीनि हरितं-दूर्वादिवनस्पतिस्त्रसप्राणा-द्वीन्द्रियादयः तैरसंसक्तः-असंयुक्तो यः स तथा तत्र, यथाकृते--गृहस्थेन स्वार्थं निर्वर्तिते ‘फासुए'त्ति पूर्वोक्तगुणयोगादेव पासुके-निर्जीवे विविक्ते-स्त्र्यादिदोषरहिते अत एव प्रशस्तेउपाश्रये वसतो भवति विहर्त्तव्यं-आसितव्यं,यादशेपुनर्नासितव्यंतथाऽसावुच्यते-'आहाकम्मबहुलेय'त्तिआधया साधूनां मनस्याधानेन साधूनाश्रित्येत्यर्थः यत्कर्म-पृथिव्याघारम्भक्रिया तदाधाकर्म, आह च॥१॥ “हिययंमि समाहेउं एगमणेगं च गाहगंजंतु। वहणं करेइ दाया कायाण तमाहकमंतु॥" तेन बहुलः-प्रचुरस्तद्वा बहुलं यत्रसतथा, 'जे से'त्तिय एवंविध; स वर्जयितव्य एवोपाश्रय इति सम्बन्धः, अनेन मूलगुणाशुद्धस्य परिहार उपदिष्टः, तथा आसिय'त्तिआसिक्तं-आसेचनमीषदुदकच्छट्टक इत्यर्थः ‘संमज्जिय'त्ति सम्मार्जनं-शलाकाहस्तेन कचवरशोधनं उत्सिक्तं-अत्यर्थं जलाभिषेचनं 'सोहिय'त्ति शोभनं चन्दनमालाचतुष्कपूरणादिना शोभाकरणं 'छायण'त्ति छादनं-दर्भादिपटलकरणं 'धूमण'त्ति सेटिकया धवलनं 'लिंपणं ति छगणादिना भूमेः प्रथमतो लेपनं 'अनुलिंपणं ति सकृल्लिप्ताया भूमेः पुनर्लेपनं ‘जलणं'तिशोत्यापनोदाय वैश्वानरस्य ज्वलनं शोधनार्थंवा प्रकाशकरणायवा दीपप्रबोधनं भंडचालण'त्तिभाण्डादीनां-पीठरकादीनांपण्यादीनां वातत्र गृहस्थस्थापितानांसाध्वर्थंचालनं-स्थानान्तरस्थापनमेतेषां समाहारद्वन्द्वः विभक्तिलोपश्च दृश्यः , तत आसिक्तादिरूपः अन्तर्बहिश्च-उपाश्रयस्य मध्ये अमध्येच असंयमो-जीवविराधना यत्र-यस्मिन्नुपाश्रये वर्तते-भवति संयतानां-साधूनामर्थाय-हेतवे ‘वजेयव्यो हुत्ति वर्जितव्य एव उपाश्रयो-वसतिः स तादृशः सूत्रप्रतिकुष्ट:-आगमनिषिद्धः, प्रथमभावनां निगमयन्नाहएवमुक्तेनानुष्ठानप्रकरेण विविक्तो-लोकद्वयाश्रितदोषवर्जितो विविक्तानां वा-निर्दोषाणां वासो-निवासो यस्यां सा विविक्तावासा सा चासौ वसतिश्च विविक्तवासवसतिस्तद्विषया या समितिः-सम्यक्प्रवृत्तिस्तया यो योगः-सम्बन्धस्तेन भावितो भवत्यन्तरात्मा, किंविध इत्याह-नित्यं सदाऽधिक्रियते-अधिकारीक्रियतेदुर्गतावात्मा येन तदधिकरणं-दुरनुष्ठानं तस्य यत्करणं कारापणं च तदेव पापकर्म-पापोपादनक्रिया तयोर्विरतो यःस तथा, दत्तोऽनुज्ञातश्च योऽवग्रहः-अवग्रहणीयं वस्तु तत्र रुचिर्यस्य स तथेति १ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy