________________
४८६
प्रश्नव्याकरणदशाङ्गसूत्रम् २/३/३८ तद्भाषी, तथा कलहकरः कलहहेतुभूतकर्त्तव्यकारी, तथा वैरकरः प्रतीतः विकथाकारी - स्त्र्यादिकथाकारी असमाधिकारकः - चित्तास्वास्थ्यकर्त्ता स्वस्य परस्य वा, तथा सदा अप्रमाणभोजीद्वात्रिंशत्कवलाधिकाहारभोक्ता सततमनुबद्धवैरश्च- सन्ततमनुबद्धं प्राब्धमित्यर्थः वैरं वैरिकर्म येन स तथा, तथा नित्यरोषी - सदाकोपः, 'से तारिसे 'त्ति स तादृशः - पूर्वोक्तरूपः 'नाराहए वयमिणं'ति नाराघयति न निरतिचारं करोति व्रतं - महाव्रतमिदं - अदत्तादानविरतिरूपं, स्वाम्यादिभिरननुज्ञातकारित्वात्तस्येति ।
'अह केरिसए' त्ति अथ परिप्रश्नार्थः कीदृशः पुनः 'आई' ति अलङ्कारे आराधयति व्रत मिदं ?, इह प्रश्ने उत्तरमाह - 'जे से' इत्यादि योऽसावुपधिभक्तपानानां दानं च सङ्ग्रहणं च तयोः कुशलो - विधिज्ञो यः स तथा, बालश्च दुर्बलश्चेत्यादिसमाहारद्वन्द्वस्ततोऽत्यन्तं यद्वालदुर्बलग्लानवृद्धक्षपकं तत्तथा तत्र विषये वैयावृत्त्यं करोतीति योगः, तथा प्रवृत्त्याचार्योपाध्याये इह द्वन्द्वैकत्वात् प्रवृत्त्यादिषु तत्र प्रवृत्तिलक्षणमिदं
119 11
"तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ । असहुं च नियत्तेइ गणतत्तिल्लो पवित्ती उ ।”
ईतरौ प्रतीतौ, तथा 'सेहे' त्ति शैक्षे- अभिनवप्रव्रजिते साधर्मिके- समानधर्मके लिङ्गप्रवचनाभ्यां तपस्विनि-चतुर्थभक्तादिकारिणि तथा कुलं - गच्छसमुदायरूपं चन्द्रादिकं गणः - कुलसमुदायः कोटिकादिकः सङ्घः- तत्समुदायरूपः चैत्यानि - जिनप्रतिमा एतासां योऽर्थः - प्रयोजनं स तथा तत्र च निर्जरार्थी-कर्मक्षयकामः वैयावृत्त्यं-व्यावृत्तकर्मरूपमुपष्टम्भन मित्यर्थः अनिश्रितं - कीत्त्यादिनिरपेक्षं दशविधं - दशप्रकारं, आह च"वैयावच्चं वावडभावो इह धम्मसाहणनिमित्तं ।
-
119 11
अन्नाइयाण विहिणा संपायणमेस भावत्थो ।
॥ २ ॥ आयरिय १ उवज्झाए २ र ३ तवस्सी ४ गिलाण ५ सेहाणं ६ | साहम्मिय ७ कुल ८ गण ९ संघ १० संगयं तमिह कायव्वं ॥ " ति बहुविधं-भक्तपानादिदानभेदेनानेकप्रकारं करोतीति, तथा न च - नैवच 'अचियत्तस्स' त्ति अप्रीतिकारिणो गृहं प्रविशति, न च - नैव च 'अचियत्तस्स' त्ति अप्रीतिकारिणः सक्तं गृह्णाति भक्तपानं, नच ‘अचियत्तस्स' त्ति अप्रीतिकर्तुः सेवते - भजते पीठफलकशय्यासंस्तारकवस्त्रपात्रकम्बलदण्ड करजोहरणनिषद्याचोलपट्टकमुखपोतिकापादप्रोञ्छनादिभाजनभाण्डोपध्युपकरणं, तथा न च परिवादं परस्य जल्पति, न चापि दोषान् परस्य गृह्णाति, तथा परव्यपदेशेनापि - ग्लानादि - व्याजेनापि न किञ्चिदज् गृह्णाति, न च विपरिणमयति-दानादिधर्माद्विमुखीकरोति कञ्चिदपिजनं,
नं चापि नाशयति-अपह्नवद्वारेण दत्तसुकृतं-वितरणरूपं सुचरितं परसम्बन्धि, तथा दत्त्वा च देयं कृत्वा वैयावृत्त्यादिकार्यं न भवति पश्चात्तापिकः - पश्चात्तापवान्, तथा संविभागशीलः–लब्धभक्तादिसंविभागकारी तथा सङ्ग्रहे- शिष्यादिसङ्ग्रहणे उपग्रहेच-तेषामेव भक्त श्रुतादिदानेनोपष्टम्भने यः कुशलः स तथा 'से तारिसे' त्ति स तादृशः आराधयति व्रतमिदंअदत्तादानविरतिलक्षणं,
'इमं चे 'त्यादि इमं च - प्रत्यक्षं प्रवचनमितिसम्बन्धः परद्रव्यहरणविरमणस्य परिरक्षणं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International