Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४८४
प्रश्नव्याकरणदशाङ्गसूत्रम् २/३/३८
एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुपणिहियं एवं जाव आघवियं सुदेसितंपसत्थं
वृ. 'जंबू'इत्यादि जम्बूरित्यामन्त्रणं ‘दत्ताणुनायसंवरो नाम'त्ति दत्तं च-वितीर्णमन्नादिकमनुज्ञातं च-प्रतिहारिकपीठफलकादि ग्राह्यमिति गम्यतेइत्येवंरूपः संवरो दत्तानुज्ञातसंवर इत्येवंनामकं भवति तृतीयं संवरद्वारमिति गम्यते,
हे सुव्रत! जम्बूनामन् ! महाव्रतमिदं, तथा गुणानां-ऐहिकामुष्मिकोपकाराणांकारणभूतं व्रतं गुणवतं, किंस्वरूपमित्याह-परद्रव्यहरणप्रतिविरतिकरणयुक्तं तथा अपरिमिताअपरिमाणद्रव्यविषया अनन्ता वा-अक्षया या तृष्णा-विद्यमानद्रव्याव्ययेच्छा तया यदनुगतं महेच्छंच-अविद्यमानद्रव्यविषये महाभिलाषं यन्मनो-मानसं वचनंच-वाक् ताभ्यां यत्कलुषंपरघनविषयत्वेन पापरूपमादानं-ग्रहणं तत्सुष्टु निगृहीतं-नियमितं यत्र तत्तथा, सुसंयमितमनसा-संवृतेन चेतसा हेतुना हस्तौ च पादौ च निभृतौ परधनादानव्यापारादुपरतौ यत्र तत्सुसंयितमनोहस्तपादनिभृतं, अनेन च विशेषणद्वयेन मनोवाक्कायनिरोधः परघनं प्रति दर्शितः, तथा निर्ग्रन्थं-निर्गतबाह्याभ्यन्तरग्रन्थं नैष्ठिकं सर्वधर्मप्रकर्षपर्यन्तवर्तिं नितरामुक्तं सर्वज्ञैरुपादेयतयेति निरुक्तं अव्यभिचरितं वा निराश्रवं-कर्मादानरहितं निर्भयं-अविद्यमानराजदिभयं विमुक्तं-लोभदोषत्यक्तं उत्तमनरवृषभाणां 'पवरबलवग'त्ति प्रधानबलवतां च सुविहितजनस्य च-सुसाधुलोकस्य सम्मतं-अभिमतं यत्तत्तथा,
परसाधूनां धर्मचरणं-धर्मानुष्ठानं यत्तत्तथा, यत्र च तृतीये संवरे ग्रामाकरनगरनिगमखेटकर्बटमडम्बद्रोणमुखसंवाहपत्तनाश्रमगतंच ग्रामादिव्याख्यापूर्ववत् किञ्चिद्-अनिर्दिष्टस्वरूपं द्रव्यं, तदेवाहमणिमौक्तिकशिलाप्रवालकांस्यदूष्यरजतवरकनकरत्नादि, किमित्याह-पतितंभ्रष्टं पम्हुटुं'ति विस्मृतं वा-प्रतिपादयितुंअदत्तग्रहणप्रवर्तनं मा भूदितिकृत्वा ग्रहीतुंवा-आदातुं तन्निवृत्तत्वात्साधोः, यतः साधुनैवंभूतेन विहर्त्तव्यमित्यत आह-हिरण्यं-रजतं सुवर्णंच हेम ते विद्येते यस्य स हिरण्यसुवर्णिकस्तन्निषेधेनाहिरण्यसुवर्णिकस्तेन, समे-तुल्ये उपेक्षणयतया लेष्टुकाञ्चने यस्य स तथा तेन,
अपरिग्रहो-धनादिरहितः संवृतश्चेन्द्रियसंवरेणयःसोऽपरिग्रहसंवृतस्तेन, लोके-मर्त्यलोके विहर्त्तव्यं-आसितव्यं सञ्चरितव्यं वा साधुनेति गम्यते, यदपि च भवेद् द्रव्यजातं-द्रव्यप्रकारः खलगतं-धान्यमलनस्थानाश्रितं क्षेत्रगतं-कर्षणभूमिसंश्रितं ‘रन्नमन्तरगतंव'त्ति अरण्यमध्यगतं वा, वाचनान्तरे 'जलथलगयं खेत्तमंतरगयं वत्ति दृश्यते, किञ्चिद्-अनिर्दिष्टस्वरूपं पुष्पफलत्वक्प्रवालकन्दमूलतृणकाष्ठशर्करादीति प्रतीतं अल्पं वा मूल्यतो बहु वा तथैव अणु वा-स्तोकं प्रमाणतः स्थूलकं वा-तथैव न कल्पते-नयुज्यते अवग्रहे-गृहस्थण्डिलादिरूपे अदत्ते-स्वामिनाऽननुज्ञातेग्रहीतुं-आदातुंजे इति निपातः,ग्रहणे निषेध उक्तोऽधुना तद्विधिमाह
हणि हणि'त्ति अहन्यहनि प्रतिदिनमित्यर्थः अवग्रहमनुज्ञाप्य यथेह भवदीयेऽवग्रहे इदं इदं च साधुप्रायोग्यं द्रव्यं ग्रहीष्याम इति पृष्टेन तत्स्वामिना एवं कुरुतेत्यनुमते सतीत्यर्थो ग्रहीतव्यं-आदातव्यं वर्जयितव्यश्च सर्वकालं 'अचियत्त'त्ति साधून् प्रत्यप्रीतिमतो यद् गृहं तत्र यः प्रवेशः सतथा अचियत्त'त्तिअप्रीतिकारिणः सम्बन्धियद्भक्तपानंतत्तथा तद्वर्जयितव्यमिति प्रक्रमः, तथाअचियत्तपीठफलकशय्यासंस्तारकवस्त्रापात्रकम्बलदण्डकरजोहरणनिषद्याचोलप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548