Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 488
________________ द्वारं-२, अध्ययन-३, ४८५ ट्टकमुखपोतिकापादप्रोञ्छनादि प्रतीतमेव, किमेवंविधभेदमित्याह-भाजनं-पात्रंभाण्डं वा-तदेव मृन्मयं उपधिश्च-वस्त्रादिः एत एवोपकरणमिति समासस्तद्वर्जयितव्यमिति प्रक्रमः,अदत्तमेव स्वमिनाऽननुज्ञातमितिकृत्वा, तथापरपरिवादो-विकत्थनंवर्जयितव्यइति, तथापरस्य दोषो-दूषणं द्वेषोवावर्जयितव्यः, परिवदनीयेन दूषणीयेन च तीर्थकरगुरुभ्यां तयोरननुज्ञातत्वे नादत्तरूपत्वादिति, अदत्तलक्षणं हीदं-'सामीजीवादत्तं तित्थयरेणं तहेव य गुरूहिति तथा परस्य-आचार्यग्लानादेव्यपदेशेन-व्याजेन यच्च गृह्णाति-आदत्ते वैयावृत्त्यकरादिस्तत्तेनान्येन च वर्जयितव्यं, आचायदिरेवदायकेन दत्तत्वादिति, परस्य-परसम्बन्धिनाशयतिमत्सरादपहुते यच्च सुकृतं-सच्चरितमुपकारं वा तत्सुकृतनाशनं वर्जयितव्यं, तथा दानस्य चान्तरायिकं-विघ्नोदानविप्रणाशो दत्तापलापः, तथा पैशून्यं चैव-पिशुनकर्म मत्सरित्वं चपरगुणानामसहनं तीर्थङ्कपाद्यननु ज्ञातत्वाद्वर्जनीयमिति, तथा जेऽविए'त्यादियोऽपिचपीठफलकशय्यासंस्तारकवस्त्रापात्रकम्बलमुखपोतिकापादप्रोञ्छनादिभाजनभाण्डोपध्युपकरणंप्रतीत्येति गम्यतेअविसंविभागी-आचार्यग्लानादीनामेषणागुणविशुद्धिलब्धंसन विभजतेऽसौनाराधयतिव्रतमिदमितिसम्बन्धः, तथा 'असंगहरुइ'त्ति गच्छोपग्रहकरस्य–पीठादिकस्योपकरणस्यैषणादोषविमुक्तस्य लभ्यमानस्यात्मभरित्वेनन विद्यते सङ्ग्रहे रुचिर्यस्यासावसङ्ग्रहमरुचिः, 'तववइतेणे य'त्ति तपश्च वाक् तपोवाचौ तयोः स्तेनःचौरस्तपोवाक्स्तेनः, तत्र स्वभावतो दुर्बलाङ्गमनगारमवलोक्य कोऽपि कञ्चन व्याकरोति यथा भोः ! साधो स त्वं यःश्रूयते तत्र गच्छे मासक्षपकः ?, एवं पृष्टे यो विवक्षितक्षपकऽसन्नप्याहएवमेतत्, अथवाधूर्ततयाब्रूते-भोः श्रावक ! साधवः क्षपकाएव भवन्ति, श्रावकस्तुमन्यते-कथं स्वयमात्मानमर्यभट्टारकः क्षपकतया निःस्पृहत्वात्प्रकाशयतीतिकृत्वैवंविधमात्मोद्धत्यपरिहारपरं सकलसाधुसाधारणं वचनमाविःकरोतीत्यतः स एवायंयोमया विवक्षित इत्येवं पर सम्बन्धि तप आत्मनि परप्रतिपत्तितः सम्पादयंस्तपस्तेन उच्यते, एवं भगवन् ! स त्वं वाग्गमीत्यादिभावनया परसम्बन्धिनीं वाचमात्मनि तथैव सम्पादयन् वाक्स्तेन उच्यते, तथा 'रूवतेणेय'त्ति एवंरूपवन्तमुपलभ्यसत्वंरूपवानित्यादिभावनयारूपस्तेनो, रूपंच द्विधा-शारीरसुन्दरता सुविहितसाधुनेपत्यं च, तत्र साधुनेपथ्यं यथा॥१॥ “देहो रुगा उमन्ने जेसिं जल्लेण फासियं अंग। मलिणा य चोलपट्टा दोन्नि य पाया समक्खाया॥" तत्रसुविहिताकाररञ्जनीयजनमुपजीवितुकामोऽसुविहितःसुविहिताकारधारी रूपस्तेनः, 'आयारे चेव'त्ति आचारे-साधुसामाचार्यां विषये स्तेनो यथा स त्वं यस्तत्र क्रियारुचिः श्रूयते इत्यादिभावना तथैव, ‘भावतेणे यत्ति भावस्य-श्रुतज्ञानादिविशेषस्य स्तेनो भावस्तेनो यथा कमपि कस्यापि श्रुतविशेषस्य व्याख्यानविशेषमन्यतो बहुश्रुतादुपश्रुत्य प्रतिपादयति यथाऽयं मयाऽपूर्वंः श्रुतपर्यायोऽभ्यूहितो नान्य एवमभ्यूहितुं प्रभुरति, तथा शब्दकरो-रात्रौ महता शब्देगोल्लापस्वाध्यायादिकारको गृहस्थभाषाभाषको वा, तथा झञ्झाकरो येन येन गणस्य भेदो भवति तत्तत्कारी येन च गणस्य मनोदुःखमुत्पद्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org For Private

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548