Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 483
________________ ४८० प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३७ एवं बितियंसंवरदारंफासियंपालियंसोहियंतीरियं किट्टियं अणुपालियं आणाएआराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धंसिद्धवरसासणमिणं आघवितंसुदेसियं पसत्थं बितियं संवरदारं समत्तं तिबेमी। वृ. 'इमंचे' त्यादि इमंच-प्रत्यक्षप्रवचनितियोगः अलीकं-असद्भूतार्थं पिशुनं-परोक्षस्य परस्य दूषणाविष्करणरूपंपरुषं-अश्राव्यभाषंकटुकं-अनिष्टारअतंचपलं-उत्सुकतयाऽसमीक्षितं यद्वचनं-वाक्यंतस्य परिरक्षणलक्षणो योऽर्थस्तस्य भावस्तत्ता तस्यैच अलीकपिशुनपरुषकटुकचपलवचनपरिरक्षणार्थतायै प्रावचनं-प्रवचनंशासनमित्यर्थः, भगवताश्रीमन्महावीरेण सुष्ठुकथितं सुकथितमित्यादि ‘पररक्खणट्ठायाए'त्ति यावत् पूर्ववत्, नवरं द्वितीयस्य व्रतस्य-अलीकवचनस्येति विशेषः, ‘पढमति प्रथमं भावनावस्तु अनुविचिन्त्यसमितियोगलक्षणं, तचैवं श्रुत्वा-आकण्य सद्गुरुसमीपे 'संवरहूं'ति संवरस्यप्रस्तावेन मृषावादविरतिलक्षणस्य अर्थः-प्रयोजनं मोक्षलक्षणं प्रस्तुतसंवराध्ययनस्य वाऽर्थः-- अभिधेयस्संवरार्थस्तं, श्रवणाच्च ‘परमटुं सुटु जाणिऊणं ति परमार्थं हेयोपादेयवचनैदम्पर्य सुष्टु-सम्यक् ज्ञात्वा न-नैव वेगितं-वेगवत् विकल्पव्याकुलतयेत्यर्थः वक्तव्यामिति योगः, न त्वरितं-वचनचापल्यतः न कटुकमर्थतः न परुषं वर्णतः न साहसं-साहसप्रधानमतर्कितं वा न च परस्य-जन्तोः पीडाकरं सावधं-सपापं यत, वचनविधिं निषेधतोऽभिधाय साम्प्रतं विधित आह-सत्यंच-सदभतार्थं हितंच-पथ्यं मितं-परिमिताक्षरं ग्राहकंच-प्रतिपाद्यस्य विवक्षितारअआथप्रतीतिजनकंशुद्धं-पूर्वोक्तवचनदोषरहितं सङ्गतं उपपत्तिभिरबाधितं अकाहलंच-अमन्मनाक्षरंसमीक्षितं-पूर्वबुद्धया पर्यालोचितं संयतेन-संयमवता काले च-अवसरे वक्तव्यं नान्यथा, एवमुक्तेन भाषणप्रकारेण 'अणुवीइसमितिजोगेणं'ति अनुविचिन्त्य-पर्यालोच्य भाषणरूपा या समितिः-सम्यक्प्रवृत्तिः साऽनुविचिन्त्यसमितिः तया योगः-सम्बन्धः तद्रूपो वा व्यापारोऽनुविचिन्त्यसमितियोगस्तेन भावितो भवन्त्यन्तरात्मा जीवः, किंविध इत्याह-संयतकरचरणनयनवदनः सूरः सत्यार्जवसंपन्न इति प्रतीतमिति १। ___ 'बिइयं ति द्वितीयं भावनावस्तु यत्क्रोधनिग्रहणं, एतदेवाह-क्रोधो न सेवितव्यः, कस्मात्कारणादित्याह-क्रुद्धः-कुपितः चाण्डिक्यं-रौद्ररुपत्वं सञ्जातमस्येति चाण्डिक्यितो मनुष्योऽलीकंभणेदित्यादि सुगम, नवरंवैरं-अनुशयानुबन्धविकथां-परिवादरूपांशीलं-समाधि 'वेसो त्ति द्वेष्यः-अप्रियो भवेत् एष वस्तु-दोषावासः गम्यः परिभवस्थानं, निगमनमाह-'एय'ति अलीकादिकंगृह्यते, तदन्यस्य भणनक्रियाया अविषयत्वात्, अन्यच्च-उक्तव्यतिरिक्तमेवमादिकंएवंजातीयं भणेत् क्रोधाग्निसंप्रदीप्तः सन् ‘तम्हे'त्यादि सम्पन्नो' इत्येतदन्तं व्यक्तं २ । _ 'ततियंतितृतीयंभावनावस्तु, किंतदित्याह-लोभो न सेवितव्यः, कस्मादित्यत आहलुब्धो-लोभवान् लोलो-व्रते चञ्चलो भणेदलीकं, एतदेव विषयभेदेनाह-क्षेत्रस्य वा-ग्रामादेः कृषिभूमेर्वा वास्तुनोगृहस्य 'कएण'त्ति कृते-हेतोः लुब्धो लोलो भणेदलीकं, एवमन्यान्यप्यष्टसूत्राणिनेतव्यानि, नवरं कीर्तिः-ख्यातिः लोभसा-औषधादिप्राप्तेःकृते तथा ऋद्धेः-परिवारादिकायाः सौख्यस्य-शीतलच्छायादिसुखहेतोः कृते तथा शय्याया-वसते; यत्र वा प्रसारितपादैः सुप्यतेसा शय्या तस्यै संस्तारकस्यवा-अर्द्धतृतीयहस्तस्य कम्बलखण्डादेः कृते पादप्रोञ्छनस्य For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548