________________
४८०
प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३७
एवं बितियंसंवरदारंफासियंपालियंसोहियंतीरियं किट्टियं अणुपालियं आणाएआराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धंसिद्धवरसासणमिणं आघवितंसुदेसियं पसत्थं बितियं संवरदारं समत्तं तिबेमी।
वृ. 'इमंचे' त्यादि इमंच-प्रत्यक्षप्रवचनितियोगः अलीकं-असद्भूतार्थं पिशुनं-परोक्षस्य परस्य दूषणाविष्करणरूपंपरुषं-अश्राव्यभाषंकटुकं-अनिष्टारअतंचपलं-उत्सुकतयाऽसमीक्षितं यद्वचनं-वाक्यंतस्य परिरक्षणलक्षणो योऽर्थस्तस्य भावस्तत्ता तस्यैच अलीकपिशुनपरुषकटुकचपलवचनपरिरक्षणार्थतायै प्रावचनं-प्रवचनंशासनमित्यर्थः, भगवताश्रीमन्महावीरेण सुष्ठुकथितं सुकथितमित्यादि ‘पररक्खणट्ठायाए'त्ति यावत् पूर्ववत्,
नवरं द्वितीयस्य व्रतस्य-अलीकवचनस्येति विशेषः, ‘पढमति प्रथमं भावनावस्तु अनुविचिन्त्यसमितियोगलक्षणं, तचैवं श्रुत्वा-आकण्य सद्गुरुसमीपे 'संवरहूं'ति संवरस्यप्रस्तावेन मृषावादविरतिलक्षणस्य अर्थः-प्रयोजनं मोक्षलक्षणं प्रस्तुतसंवराध्ययनस्य वाऽर्थः-- अभिधेयस्संवरार्थस्तं, श्रवणाच्च ‘परमटुं सुटु जाणिऊणं ति परमार्थं हेयोपादेयवचनैदम्पर्य सुष्टु-सम्यक् ज्ञात्वा न-नैव वेगितं-वेगवत् विकल्पव्याकुलतयेत्यर्थः वक्तव्यामिति योगः, न त्वरितं-वचनचापल्यतः न कटुकमर्थतः न परुषं वर्णतः न साहसं-साहसप्रधानमतर्कितं वा न च परस्य-जन्तोः पीडाकरं सावधं-सपापं यत,
वचनविधिं निषेधतोऽभिधाय साम्प्रतं विधित आह-सत्यंच-सदभतार्थं हितंच-पथ्यं मितं-परिमिताक्षरं ग्राहकंच-प्रतिपाद्यस्य विवक्षितारअआथप्रतीतिजनकंशुद्धं-पूर्वोक्तवचनदोषरहितं सङ्गतं उपपत्तिभिरबाधितं अकाहलंच-अमन्मनाक्षरंसमीक्षितं-पूर्वबुद्धया पर्यालोचितं संयतेन-संयमवता काले च-अवसरे वक्तव्यं नान्यथा, एवमुक्तेन भाषणप्रकारेण 'अणुवीइसमितिजोगेणं'ति अनुविचिन्त्य-पर्यालोच्य भाषणरूपा या समितिः-सम्यक्प्रवृत्तिः साऽनुविचिन्त्यसमितिः तया योगः-सम्बन्धः तद्रूपो वा व्यापारोऽनुविचिन्त्यसमितियोगस्तेन भावितो भवन्त्यन्तरात्मा जीवः, किंविध इत्याह-संयतकरचरणनयनवदनः सूरः सत्यार्जवसंपन्न इति प्रतीतमिति १।
___ 'बिइयं ति द्वितीयं भावनावस्तु यत्क्रोधनिग्रहणं, एतदेवाह-क्रोधो न सेवितव्यः, कस्मात्कारणादित्याह-क्रुद्धः-कुपितः चाण्डिक्यं-रौद्ररुपत्वं सञ्जातमस्येति चाण्डिक्यितो मनुष्योऽलीकंभणेदित्यादि सुगम, नवरंवैरं-अनुशयानुबन्धविकथां-परिवादरूपांशीलं-समाधि 'वेसो त्ति द्वेष्यः-अप्रियो भवेत् एष वस्तु-दोषावासः गम्यः परिभवस्थानं, निगमनमाह-'एय'ति अलीकादिकंगृह्यते, तदन्यस्य भणनक्रियाया अविषयत्वात्, अन्यच्च-उक्तव्यतिरिक्तमेवमादिकंएवंजातीयं भणेत् क्रोधाग्निसंप्रदीप्तः सन् ‘तम्हे'त्यादि सम्पन्नो' इत्येतदन्तं व्यक्तं २ ।
_ 'ततियंतितृतीयंभावनावस्तु, किंतदित्याह-लोभो न सेवितव्यः, कस्मादित्यत आहलुब्धो-लोभवान् लोलो-व्रते चञ्चलो भणेदलीकं, एतदेव विषयभेदेनाह-क्षेत्रस्य वा-ग्रामादेः कृषिभूमेर्वा वास्तुनोगृहस्य 'कएण'त्ति कृते-हेतोः लुब्धो लोलो भणेदलीकं, एवमन्यान्यप्यष्टसूत्राणिनेतव्यानि, नवरं कीर्तिः-ख्यातिः लोभसा-औषधादिप्राप्तेःकृते तथा ऋद्धेः-परिवारादिकायाः सौख्यस्य-शीतलच्छायादिसुखहेतोः कृते तथा शय्याया-वसते; यत्र वा प्रसारितपादैः सुप्यतेसा शय्या तस्यै संस्तारकस्यवा-अर्द्धतृतीयहस्तस्य कम्बलखण्डादेः कृते पादप्रोञ्छनस्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org