________________
४८१
द्वारं-२,
अध्ययनं -२,
रजोहरणस्य कव-ते उपसंहरन्नाह - अन्येषु च एवमादिषु बहुषु कारणशतेष्वित्यादि व्यक्तमेव ३ 'चउत्थ'न्ति चतुर्थं भावनावस्तु यत् 'न भाइयव्वं' ति न भेत्तव्यं न भयं विधेयं इति, यतो भीतं भयार्त्त प्राणिनं खुरिति वाक्यालङ्कारे भयानि - विविधा भीतयः 'अतिंति' त्ति आगच्छंति, किंभूतं भीतं ? - 'लहुयं' ति लघुकं सत्त्वसारवर्जितत्वेन तुच्छं क्रियाविशेषणं वेदं तेन लघुकं शीघ्रं, तथा भीतः अद्वितीयः - सहायो न भवतीत्यर्थः मनुष्यो - नरः, तथा भीतो भूतैर्वा प्रेतैर्गृह्यतेअधिष्ठीयते, तथा भीतोऽन्यमपि भेषयेत्, तथा भीतः तपः प्रधानः संयमः तपः संयमस्तमपि हुरलङ्कारे मुञ्चेत्-त्यजेत् अलीकमपि ब्रूयादिति हृदयं, अहिंसादिरूपत्वात् संयमस्य तथा भीतश्च भरं न निस्तरेत्, तथा सत्पुरुषनिषेवितं च मार्गं-धर्मादिपुरुषार्थोपायं भीतो न समर्थोऽनुचरितुं आसेवितु, यत एवं तस्मात् ‘न भाइयव्वं’ति न भेत्तव्यं 'भयस्स व 'त्ति भयहेतोर्बाह्यात् दुष्टतिर्यङ्गमनुष्यदेवादेः, तथा आत्मोद्भवादपि नेत्याह- 'वाहिस्स व 'त्ति व्याघेः क्रमेण प्राणापहारिणः कुष्ठादेः रोगाद्वाशीघ्रतरप्राणापहारकाच्च ज्वरादे; जराया वा मृत्योर्वा अन्यस्माद्वा तादृशाद्भयोत्पादकत्वेन व्याध्यादिसध्शाद् इष्टवियोगादेकस्मादिति वाचनान्तरे इदमधीतं अन्यस्माद्वा एवमादीति, एतन्निगमयन्नाह - एवं धैर्येण - सत्त्वेन भावितो भवत्यन्तरात्मा - जीवः, किंविधः ? इत्याह'संजए' त्यादि पूर्ववत् ४ ।
'पंचमगं' ति पञ्चमकं भावना वस्त्विति गम्यते, यदुत हास्यं न सेवितव्यं-परिहासो न विधेयः, यतः अलीकानि - सद्भूतार्थनिरूवरूपाणि 'असंतगाई' ति असन्ति असद्भूतार्थानि वचनानीति गम्यते अशोभनानि वा अशान्तानि वा - अनुपशमप्रधानानि 'जल्पन्ति' ब्रुवते 'हासइत्त' त्ति हासवन्तः परिहासकारिणः परिभवकारणं च हास्यं - अपमाननाहेतुरित्यर्थः, परपरिवादः - अन्यदूषणाभिधानं प्रिय इष्टो यत्र तत्तथा तद्विधं च हास्यं, परपीडाकारकं च हास्यमिति व्यक्तं, 'भेयविमुत्तिकारकं च'त्ति भेदः- चारित्रभेदो विमूर्तिश्च- विकृतनयनवदनादित्वेन विकृतशरीराकृतिः तयोः कारकं यत्तत्तथा, तच्च हास्यं, अथवा राजदन्तादिदर्शनाद्विमुक्तेः - मोक्षमार्गस्य भेदकारकमिति वाच्ये भेदविमुक्तिकारकमित्युक्तं, अन्योऽन्यजनितं च- परस्परकृतं च भवेद्धास्यं यतस्ततोऽन्योऽन्यगमनंच-परस्परस्याभिगमनीयं च भवेत् मर्म-प्रच्छन्नापारदार्यादि दुश्चेष्टितं, तथाऽन्योऽन्यगमनं च - परस्पराधिगम्यं च भवेत्कर्म्म- लोकनन्द्यजीवनवृत्तिरूपं 'कन्दप्पाभियोगगमणं च 'त्ति कन्दर्पाश्च० कान्दर्पिका देवविशेषा हास्यकारिणो भाण्डप्राया अभियोग्याश्च-अभियोगार्हा आदेशकारिणो देवाः एतेषु गमनं गमनहेतुर्यत्तत्तथा तच भवेद्धास्यं, अयमभिप्रायोहास्यरतिसाधुश्चारित्रलेशप्रभावाद्देवेषूत्पद्यमानः कान्दर्पिकेषु आभियोगिकेषु चोत्पद्यते न महर्द्धिकेष्विति हास्यमनर्थायेति, आह च
-
119 11 "जो संजओवि एयासु अप्पसत्थासु वट्टइ कहिंचि । वि गच्छनियमा भइओ चरणही णो ||"
‘एयासु’त्ति कन्दर्पादिभावनास्विति, तथा ' आसुरियं किव्विसततं च जणेज्ज हासं 'ति 'अरसुरिय’न्ति असुरभावं ‘किव्विसत्तं' ति चाण्डालप्रायदेवविशेषत्वं वा विकल्पे जनयेत्-प्रापयेत्
7 31
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org