Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 475
________________ ४७२ प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३५ चवचतिशब्दरहितं अद्रुतं-अनुत्सुकं अविलम्बितं-अनतिमन्दं अपरिशाटि-परिशाटिवर्जितं 'भुजेज्जा' इति क्रियाया विशेषणानीमानि, 'आलोयभायणे'त्ति प्रकाशमुखे भाजने अथवा आलोके-प्रकाशे नान्धकारे, पिपीलिकावालादीनामनुपलम्भात्, तथा भाजने-पात्रे, पात्रं विना जलादिसमपतितसत्त्वादर्शनादिति, यतं-मनोवाक्कापसंयतत्वेन प्रयत्नेन-आदरणे व्यपगतसंयोगंसंयोजनादोषरहितं अणिंगालंवत्ति रागपरिहारेणेत्यर्थः 'विगयधूमं ति द्वेषरहितं, आहच-“रागेण सइंगालं दोसेण सधूमगंवियाणाहि"त्ति अक्षस्य-धुरः उपाञ्जनं-म्रक्षणंअक्षोपाञ्जनंतच्च व्रणानुलेपनं च ते भूतं-प्राप्तं यत्तत्तथा तत्कल्पमित्यर्थः, संयमयात्रा-संयमप्रवृत्तिः सैव संयमयात्रामात्रा तत् निमित्तं-हेतुर्यत्र तत्संयमयात्रामात्रानिमित्तं, किमुक्तं भवति? संयमभारवहनार्थतया, इयं भावना-इह यथाऽक्षस्योपाञ्जनं भारवहनायैव विधीयते न प्रयोजनान्तरे एवं संयमभारवहनायैव साधुर्भुञ्जीत न वर्णबलरूपनिमित्तं विषयलौल्येन वा, भोजनंविकलो हि न संयमसाधनं शरीरं धारयितुं समर्थो भवतीति 'भुंजेज्जत्ति भुञ्जीत भोजनं कुर्वीत, तथा भोजने कारणान्तरमाह-प्राणधारणार्थतया जीवितव्यसंरक्षणायेत्यर्थः, संयतःसाधुः, णमिति वाक्यालङ्कारे, 'समय'तिसम्यक्, निगमयन्नाह-एवमाहारसमितियोगेन भावितः सन्भावितो भवन्त्यन्तरात्मा अशबलासलिष्टनिव्रणचारित्रभावनाकः अशबलासश्लिष्टनिव्रणचारित्रभावनया वा हेतुभूतया अहिंसकः संयतः सुसाधुरिति । पंचमगं'ति पञ्चमं भावनावस्तु आदाननिक्षेपसमितिलक्षणं, एतदेवाह-पीठादि द्वादशविधमुपकरणं प्रसिद्धं ‘एयंपी'ति एतदपि अनन्तरोदितमुपकरणं अपिशब्दादन्यदपि संयमस्योपबृंहणार्थतया-संयमपोषणाय तथा वातातपदंशमशकशीतपरिरश्रणार्थतया उपकरणं-उपकारकं उपधिं रागद्वेषरहितं क्रियाविशेषणमिदं परिहरियव्वं'तिपरिभोक्तव्यं, न विभूषादिनिमित्तमिति भावना, संयतेन–साधुना नित्यं सदा तथा प्रत्युपेक्षणाप्रस्फोटनाभ्यां सह या प्रमार्जना सा तथा तया, तत्र प्रत्युपेक्षणया-चक्षुव्यापारेण प्रस्फोटनया-आस्फोटनेनप्रमार्जनयाच-रजोहरणादिव्यापाररूपया, 'अहोयराओय'त्ति अह्निच रात्रौ च अप्रमत्तेन भवति सततं निक्षेप्तव्यं च-मोक्तव्यं ग्रहीतव्यं च-आदातव्यं, किं तदित्याह-भाजनं-पात्रं भाण्डं-तदेव मृन्मयं उपधिश्च वस्त्रादिः एतत्रयलश्रणमुपकरणं-उपकारिवस्तित्वति कर्मधारयः, निगमयन्नाह-'एवमादाने त्यादि पूर्वत् नवरंइह प्राकृतशैल्याऽन्यथा पूर्वापरदनिपातः तेन भाण्डस्य-उपकरणस्यादानंच-ग्रहणं निक्षेपणा च-मोचनं तत्र समितिः भाण्डादाननिक्षेपणासमितिरिति वाच्ये आदानभाण्डनिक्षेपणासमितिरित्युक्तं, अथाध्ययनार्थं निगमयन्नाह-‘एव'मिति उक्तक्रमेण इदं-अहिंसालक्षणं संवरस्य-अनाश्रवस्य द्वारं-उपायः सम्यक् संवृतं-आसेवितं भवति, किंविधं सदित्याहसुप्रणिहितं सुप्रणिधानवत् सुरक्षितमित्यर्थः, कैः किं विधैरित्याह-- एभिः पञ्चभिरपिकारणैः-भावनाविशेषैः अहिंसापालनहेतुभिः मनोवाक्कायपरिरक्षितैरिति, तथा नित्यं-सदा आमरणान्तं च-मरणरूपमन्तं यावत् न मरणात्परतोऽपि असम्भवात्, तथा एषः-योगोऽन्तरोदितभावनापञ्चकरुपो व्यापारो नेतव्यो-वोढव्य इति भावः, केन ? Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548