________________
४७२
प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३५
चवचतिशब्दरहितं अद्रुतं-अनुत्सुकं अविलम्बितं-अनतिमन्दं अपरिशाटि-परिशाटिवर्जितं 'भुजेज्जा' इति क्रियाया विशेषणानीमानि, 'आलोयभायणे'त्ति प्रकाशमुखे भाजने अथवा आलोके-प्रकाशे नान्धकारे,
पिपीलिकावालादीनामनुपलम्भात्, तथा भाजने-पात्रे, पात्रं विना जलादिसमपतितसत्त्वादर्शनादिति, यतं-मनोवाक्कापसंयतत्वेन प्रयत्नेन-आदरणे व्यपगतसंयोगंसंयोजनादोषरहितं अणिंगालंवत्ति रागपरिहारेणेत्यर्थः 'विगयधूमं ति द्वेषरहितं, आहच-“रागेण सइंगालं दोसेण सधूमगंवियाणाहि"त्ति अक्षस्य-धुरः उपाञ्जनं-म्रक्षणंअक्षोपाञ्जनंतच्च व्रणानुलेपनं च ते भूतं-प्राप्तं यत्तत्तथा तत्कल्पमित्यर्थः, संयमयात्रा-संयमप्रवृत्तिः सैव संयमयात्रामात्रा तत् निमित्तं-हेतुर्यत्र तत्संयमयात्रामात्रानिमित्तं, किमुक्तं भवति?
संयमभारवहनार्थतया, इयं भावना-इह यथाऽक्षस्योपाञ्जनं भारवहनायैव विधीयते न प्रयोजनान्तरे एवं संयमभारवहनायैव साधुर्भुञ्जीत न वर्णबलरूपनिमित्तं विषयलौल्येन वा, भोजनंविकलो हि न संयमसाधनं शरीरं धारयितुं समर्थो भवतीति 'भुंजेज्जत्ति भुञ्जीत भोजनं कुर्वीत, तथा भोजने कारणान्तरमाह-प्राणधारणार्थतया जीवितव्यसंरक्षणायेत्यर्थः, संयतःसाधुः, णमिति वाक्यालङ्कारे, 'समय'तिसम्यक्, निगमयन्नाह-एवमाहारसमितियोगेन भावितः सन्भावितो भवन्त्यन्तरात्मा अशबलासलिष्टनिव्रणचारित्रभावनाकः अशबलासश्लिष्टनिव्रणचारित्रभावनया वा हेतुभूतया अहिंसकः संयतः सुसाधुरिति ।
पंचमगं'ति पञ्चमं भावनावस्तु आदाननिक्षेपसमितिलक्षणं, एतदेवाह-पीठादि द्वादशविधमुपकरणं प्रसिद्धं ‘एयंपी'ति एतदपि अनन्तरोदितमुपकरणं अपिशब्दादन्यदपि संयमस्योपबृंहणार्थतया-संयमपोषणाय तथा वातातपदंशमशकशीतपरिरश्रणार्थतया उपकरणं-उपकारकं उपधिं रागद्वेषरहितं क्रियाविशेषणमिदं परिहरियव्वं'तिपरिभोक्तव्यं, न विभूषादिनिमित्तमिति भावना,
संयतेन–साधुना नित्यं सदा तथा प्रत्युपेक्षणाप्रस्फोटनाभ्यां सह या प्रमार्जना सा तथा तया, तत्र प्रत्युपेक्षणया-चक्षुव्यापारेण प्रस्फोटनया-आस्फोटनेनप्रमार्जनयाच-रजोहरणादिव्यापाररूपया, 'अहोयराओय'त्ति अह्निच रात्रौ च अप्रमत्तेन भवति सततं निक्षेप्तव्यं च-मोक्तव्यं ग्रहीतव्यं च-आदातव्यं, किं तदित्याह-भाजनं-पात्रं भाण्डं-तदेव मृन्मयं उपधिश्च वस्त्रादिः एतत्रयलश्रणमुपकरणं-उपकारिवस्तित्वति कर्मधारयः, निगमयन्नाह-'एवमादाने त्यादि पूर्वत्
नवरंइह प्राकृतशैल्याऽन्यथा पूर्वापरदनिपातः तेन भाण्डस्य-उपकरणस्यादानंच-ग्रहणं निक्षेपणा च-मोचनं तत्र समितिः भाण्डादाननिक्षेपणासमितिरिति वाच्ये आदानभाण्डनिक्षेपणासमितिरित्युक्तं, अथाध्ययनार्थं निगमयन्नाह-‘एव'मिति उक्तक्रमेण इदं-अहिंसालक्षणं संवरस्य-अनाश्रवस्य द्वारं-उपायः सम्यक् संवृतं-आसेवितं भवति, किंविधं सदित्याहसुप्रणिहितं सुप्रणिधानवत् सुरक्षितमित्यर्थः, कैः किं विधैरित्याह--
एभिः पञ्चभिरपिकारणैः-भावनाविशेषैः अहिंसापालनहेतुभिः मनोवाक्कायपरिरक्षितैरिति, तथा नित्यं-सदा आमरणान्तं च-मरणरूपमन्तं यावत् न मरणात्परतोऽपि असम्भवात्, तथा एषः-योगोऽन्तरोदितभावनापञ्चकरुपो व्यापारो नेतव्यो-वोढव्य इति भावः, केन ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org