________________
४६८
प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३४
न-नैवलक्षणं-शब्दप्रमाणस्त्रीपुराषवास्त्वादिलक्षणं उत्पाताः-प्रकृतिविकाराः रक्तवृष्टायादयः स्वप्नो-निद्राविकारः ज्योतिषं-नक्षत्रचन्द्रयोगादिज्ञानोपायशास्त्रं निमित्तं-चूडामण्याधुपदेशेनातीतादिभावसंवादनं कथा अर्थकथादिका कुहकं-परेषांविस्मयोत्पादनप्रयोगः एभिराक्षिप्तेन यत्प्रयुक्तं-दानाय दायकेन व्यापारितं भैक्षं तत्तथा, तथा नापि दम्भनया-दम्भेन मायाप्रयोगेण नापि रक्षणया दायकस्य पुत्रतर्णकगृहादीनां नापी शासनया-शिक्षणया नाप्युक्तत्रय- समुदायेनेत्याह-'नवी'त्यादि भैक्षं-भिक्षासमूहो गवेषयितव्यंअन्वेषणीयं, नापि वन्दनेन-स्तवनेन यथा॥१॥ “सो एसो जस्स गुणा वियरंति अवारिया दसदिसासु।
इहरा कहासु सुव्वसि पच्चक्खं अज्ज ट्ठिोऽसि ॥" नापि माननाय आसनदानादिप्रतिपत्त्या नापि पूजनया-तीर्थनिर्माल्यदानमस्तकगन्धक्षेपमुखवस्त्रिकानमस्कारमालिकादानादिलक्षणया नाप्युक्तत्रयोगोनेत्याह-'नवी' त्यादि, तथा नापि हीलनया-जात्युद्घट्टनतः नापि निन्दनया-देवदायकदोषोद्घट्टनेन नापि गर्हणयालोकसमक्षदायकादिन्दिया, नाप्येतत्रितयेनेत्याह-'नवी'त्यादि, नापि भेषणया-अदित्सतो भयोत्पादनेन नापि तर्जनया-तर्जनीचालनेन ज्ञास्यसि रे दुष्ट ! इत्यादिभणरूपया नापि ताडनया-चपेटादिदा-नतः,
___ नाप्युक्तत्रययोगेनेत्याह-'नवी'त्यादि, नापि गौरवेण-गर्वेण राजपूजितोऽहमित्याद्यभिमानेन नापि कुरुधनतया-दारिद्रयभावेन प्राकृतत्वेन वा क्रोधनतया नापि वनीपकतयारङ्गवल्लल्लिव्याकरणेन नाप्युक्तत्रयमीलनेनेत्याह-'नवी' त्यादि, नापि मित्रतया-मित्रभावमुपगम्यत्यतः गपिप्रार्थनया याञ्चयाअपितु साधुरूपसन्दर्शनेन, आह च–“पडिस्वेण एसित्ता, मियंकालेणभक्खए।"नापिसेवनया-खामिनोभृत्यवत्, नापियुगपदुक्तत्रयमीलन-केनेत्याह'नवी'त्यादि, यद्येवमेवच नगवेषयति भैक्षं भिक्षुस्तर्हि तद्गवेषणायां किंविधोऽसौ भवेदित्याह
अज्ञातः-स्वयं स्वजनादिसम्बन्धाकथनेन गृहस्थैरपरिज्ञातस्वजनादिभावः तथा 'अगढिए'त्ति अग्रथितः परिज्ञानेऽपि तेषु तेन सम्बन्धिकनाऽप्रतिबदअधः आहारे वाऽगृद्धः 'अदुट्टे'त्ति आहारे दायके वाऽद्धिष्टः अदुष्टो वा ‘अद्दीण'त्ति अद्रीणः-अक्षुभितः अविमना-न विगतमानसःअलाभादिदोषात् अकरुणो-न दयास्थानंन्यग्वृत्तित्वात् अविषादी-अविषादवान् अदीन इत्यर्थः अपरितान्ताः-अश्रान्ताः योगा-मनःप्रभृतयः सदनुष्ठानेषुयस्य सोऽपरितान्तयोगी अत एव यतनं-प्राप्तेषु संयमयोगेषु प्रयत्न उद्यमःघटनंच-अप्राप्तसंयमयोगप्राप्यते यत्न एव ते कुरुतेयः सयतनघटनकरणः तथा चरितः-सेवितोविनयोयेन सचरितविनयः, तथा गुणयोगेनक्षमादिगुणसम्बन्धेन सम्प्रयुक्तो यः स तथा, ततः पदत्रयस्य कर्मधारयः, भिक्षुर्भिक्षैषणायां निरतो भवेदिति गम्यते, 'इमं च'त्ति इदं पुनः पूर्वोक्तगुणभैक्षातदिप्रतिपादनपरं प्रवचमिति योगः सर्वजगजीवरक्षणरूपा या दया तदर्थं
प्रावचनं-प्रवचनं शासनं भगवता श्रीमन्महावीरेण सुकथितं न्यायाबाधितत्वेन आत्मनां-जीवानां हितं आत्महितं 'पेच्चाभावियं'त्ति प्रेत्य-जनमान्तरे भवति-शुद्धफलतया परिणमतीत्येवंशीलं प्रेत्यभाविकं आगमिष्यति काले भद्रं-कल्याणं यतस्तदागमिष्यद्भद्रं शुद्धं--निर्दोषं 'नेआउयंति नैयायिकं न्यायवृत्ति अकुटिलं-मोक्षं प्रति ऋजु अनुत्तरं सर्वेषां
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org