Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 464
________________ द्वार-२, अध्ययनं-१, ४६१ निर्वाणं-मोक्षस्तद्धेतुत्वात् निर्वाणं तथा निर्वृत्तिः-स्वास्थ्यं समाधिः-समता शक्तिः शक्तिहेतु-त्वात् शान्तिर्वा-द्रोहविरतिः कीर्तिः ख्यातिहेतुत्वात् कान्तिः कमनीयताकारणत्वात् रतिश्च रतिहेतुत्वात् विरतिश्च-निवृत्तिः पापात् श्रुतं-श्रुतज्ञानमङ्ग-कारणं यस्याः सा श्रुताङ्गा, आह च-“पढमं नाणं तओ दए" त्यादि, तृप्तिहेतुत्वातृप्तिः, ततःकर्मधारयः, १०, तथा दया-देहिरक्षा तथा विमुच्यते प्राणी सकलबन्धनेभ्यो यया सा विमुक्तिः तथा क्षान्तिः-क्रोधनिग्रहस्तज्जन्यत्वादहिंसाऽपिक्षान्तिरुक्ता सम्यकत्वं-सम्यग्बोधिरूपमाराध्यते यया सा सम्यकत्वाराधना ‘महंति'त्ति सर्वधर्मानुष्ठानाना बृहती, आह च॥१॥ “एकं चिय एत्थ वयं निद्दिढ़ जिनवरेहिं सव्वेहिं । पाणातिवायविरमणमवसेसा तस्स रक्खट्ठा ॥" बोधिः-सर्वधर्मप्राप्तिः अहिंसारूपत्वाच तस्याः अहिंसा बोधिरुक्ता, अथवा अहिंसा-अनुकम्पा सा च बोधिकारणमिति बोधिरेवोच्यते, बोधिकारणत्वं चानुकम्पायाः ॥१॥ “अनुकंपऽकामनिज्जरबालतवे दानविणयविब्अंगो। ___ संजोगविप्पजोगे वसणूसवइड्डिसक्कारे' ॥" -इति वचनादिति, तथा बुद्धिसाफल्यकारणत्वाद्धद्धिः, यदाह॥१॥ “बावत्तरिकलाकुसला पंडियपुरिसा अपंडिया चेव। सव्वकलाणं पवरंजे धम्मकलं न याणंति॥" धर्मश्चाहिंसैव, धृतिः-चित्तदाढ्यतत्परिपालनीयत्वादस्या धृतिरेवोच्यते, समृद्धिहेतुत्वेन समृद्धिरेवोच्यते, एवं ऋद्धिः २०, वृद्धिः, तथा साद्यपर्यवसितमुक्तिस्थितेर्हेतुत्वास्थितिः, तथा पुष्टिः पुण्योपचयकारणत्वात्, आह च- 'पुष्टिः पुण्योपचयः" नन्दयति-समृद्धिं नयतीति नन्दा, भदन्ते-कल्याणीकरोति देहिनमितिभद्रा, विशुद्धिःपापक्षयोपायत्वेनजीवनिर्मलतास्वरूपत्वात्, आह च-"शुद्धिः पापक्षयेण जीवृनिर्मलता" तथा केवलज्ञानादिलब्धिनिमित्तत्वाल्लब्धिः, विशिष्टष्टि:-प्रधानं दर्शनं मतमित्यर्थः, तदन्यदर्शनस्याप्राधान्याद्, आह च॥१॥ “किंतीए पढियाए? पयोकोडीए पलालभूयाए। जत्थेत्तियं न नायं परस्स पीडा न कायव्वा॥" कल्याणं कल्याणप्रावपकत्वात् मङ्गलं दुरितोपशान्तिहेतुत्वात् ३०, प्रमोदः प्रमोदोत्पादकत्वात् विभूतिः सर्वविभूतिनिबन्धत्वात् रक्षा जीवरक्षणस्वभावत्वात् सिद्ध्यावासः मोक्षवासनिबन्धत्वात् अनाश्रवः कम्मबन्धनिरोधोपायत्वात् केवलिनांस्थानं केलवलिनामहिंसायां व्यवस्थितत्वात् 'सिवसमितिसीलसंजमोत्तिय' शिवहेतुत्वेन शिवंसमितिः-सम्यकतप्रवृत्तिस्तद्रूपत्वादहिंसा समितिः शीलं-समाधानंतद्रूपत्वाच्छीलं संयमो-हिंसात उपरमः इतिः-उपप्रदर्शने चः समुच्चये ४०, सीलपरिघरो तिशीलपरिगृहं-चारित्रस्थानंसंवरश्चप्रतीतः गुप्तिः-अशुभानांमनःप्रभृतीनां निरोधः विशिष्टोऽवसायो-निश्चयो व्यवसाय; उच्छ्रयश्च-भावोन्नतत्वं यज्ञो-भावतो देवपूजा आयतनं-गुणानामाश्रयःयजनं-अभयस्यदानंयतनं वा-प्राणिरक्षणंप्रयत्नः-अप्रमादःप्रमादवर्जनंआश्वासः-आश्वासनंप्राणिनामेव ५० विश्वासो-विश्रमंभः 'अभउत्तिअभयंसर्वस्यापीति For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548