Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं-२, अध्ययनं-१,
४६५ नसिकाः,स्वार्थानीतभक्तेन लक्षमपि तृप्तितो भोजयतां यावदात्मना न तद्भुक्तं तावन्न क्षीयते तद्येषां ते इति भावना, अतस्तैः, तथाऽतिशयचरणाच्चारणा-विशिष्टाकाशगमनलब्धियुक्ताः ते च जङ्घाचारणा विद्याचारणाश्चेति, इह गाथाः॥१॥ “अइसयचरणसमत्था जंघाविजाहि चारणा मुणओ।
__जंघाहि जाइ पढमो निस्सं काउं रविकरेवि ॥ ॥२॥
एगुप्पाएण गओ रुयगवरंमि उ ततो पडिनियत्तो।
बीएणं नंदीसरमिहं तओ एइ तइएणं ।। ॥३॥ पढमेण पंडगवनं बिइउप्पाएण नंदनं एइ।
तइउप्पाएण तओ इव जंघाचारणो एइ । ॥४॥ पढमेण माणुसोत्तरगणं स नंदीसरं बिईएणं ।
एइ तओ तइएणं कयचेइयवंदणो इहई॥ ॥५॥
पढमेण नंदनवने बीउप्पाएण पंडगवणम्मि ।
एइ इहं तइएणं जो विजाचारणो होइ॥" ‘चउत्थभत्तिएहिं' इह एवं यावत्करणात् 'छ?भत्तिएहिं अट्ठमभत्तिएहिं एवं दुसमदुवावलसचोद्दससोलसअद्धमासमासदोमासतिमासचउमास पंचमासा' इति द्रष्टव्यं, उत्क्षिप्तं-- पाकपिठरादुद्ध तमेव चरन्ति-गवेषयन्ति ये ते उत्क्षिप्तचरकाः, एवं सर्वत्र, नवरं निक्षिप्तंपाकस्थालीस्थं अन्तं-वल्लचरणकादिप्रान्तं तदेवभुक्तावशेषंपर्युषितं वा रूक्षं-निःस्नेहं समुदानंभैक्ष्यं 'अन्नतिलाएहिंति दोषान्नभोजिभिः ‘मौनचरकैः' वाचंयमैः, संस्पृष्टेन हस्तेन भाजनेन च दीयमानमन्नादि ग्राह्यमित्येवंरूपः कल्कः-समाचारो येषां ते संसृष्टकल्पिकास्तैः, यत्प्रकारं देयं द्रव्यं तज्जातेन-तत्प्रकारेण द्रव्येण ये संसृष्टे हस्तभाजने ताभ्यां दीयमानं ग्राह्यमित्येवंरूपः कल्पःसमाचारो येषां ते तज्जातसंसृष्टकल्पिकास्तैः,
उपनिधिना-प्रत्यासत्त्या चरन्ति-प्रत्यासन्नमेव गृह्णन्ति येते औपनिधिकाः तैः 'शुद्धैषणिकाः' शङ्कितादिदोषपरिहारचारिणस्तैः सङ्ख्याप्रधानाभिः पञ्चदादिपरिमाण-वतीभिर्दत्तिभिःसकृद्भक्तादिपात्रपातलक्षणाभिश्चरन्ति ये ते सङ्ख्यादत्तिकास्तैः, दत्तिलक्षणं चैतत्-- ॥१॥ “दत्तीओ जत्तिए वारे, खिवई होति तत्तिया।
अव्वोच्छिन्ननिवायाओ, दत्ती होति दवेतरा ।।" दृष्टिलाभिकाः-येदृश्यमानस्थानादानीतं गृह्णन्ति, अष्टिलाभिका ये अष्टपूर्वेण दीयमानं गृह्णह्वन्ति, पृष्टलाभिका ये कल्पते इदं इदं च भवते साधो ! इत्येवं प्रश्नपूर्वकमेव लब्धं गृह्णन्ति, भिन्नस्यैव-स्फोटितस्यैव पिण्डस्य ओदनादिपिण्डस्य पातः-पात्रक्षेपो येषां ग्राह्यतपाऽस्ति ते भिन्नपिण्डपातिकः तैः, परिमितपिण्डपातिकैः-परिमितगृहप्रवेशादिना वृत्तिसङ्केपवद्भिः,
___'अंताहारे'त्यादि अन्तादीनि पदानि प्राग्वदेव नवरं पूर्वत्र चरणं गवेषणमात्रमुक्तमिह त्वाहारो-भोजनंजीवनंतु तथैवाजन्मापिप्रवृत्तिरिति विशेषोऽवसेयः, तथाअरसं-हिङ्गवादिभिरसंस्कृतं विरसं-पुराणत्वात् गतरसं तथा तुच्छं-अल्पं, तथा उपशान्तजीविभिः अन्तर्वृत्त्यपेक्षया 7/30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548