Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं-१, अध्ययनं-४,
४२९
ऋषिवादिकाः भूतवादिकाः क्रन्दिता महाक्रन्दिताः कूष्माण्डाः पतङ्गा इत्यष्टौ व्यन्तरनिकायानामुपरिवर्त्तिनो व्यन्तरजातिविशेषा एव एषामपि द्वन्द्वस्ते तच ते देवाश्चेति कर्मधारयः
तथा पिशाचादयोऽष्टौ व्यन्तरभेदाः प्रतीताः, तिरियजोतिसविमाणवासि'त्ति तिरश्चितिर्यग्लोके यानि ज्योतिष्कविमानानि तेषु निवसन्तियेते तथा ज्योतिष्का इत्यर्थः मनुजा-मानवा एतेषां द्वन्द्वः ततस्तेषां ये गणाः-समूहास्ते तथा, जलचरादयः मोहप्रतिबद्धचित्ता इति प्रतीतं, अवितृष्णाः-प्राप्तेषु कामेषु अविगततृष्णा इत्यर्थः, कामभोगतृषिता-अप्राप्तकामभोगेच्छवः, एतदेव प्रपञ्चयन्नाह-तृष्णया-भोगाभिलाषेण बलवत्या-तीव्रया महत्या-महाविषयया समभिभूताः-परिभूताः ग्रथिताश्च-विषयैः सह सन्दर्भिताः अतिमूर्छिताश्च-विषयदोषदर्शनं प्रत्यतिमूढतामुपगताः अब्रह्मणि अवसन्नाः-पङ्क इव निमग्ना तामसेन भावेन अज्ञानपरिणामेनानुनममुक्ता-अविमुक्ताः
__ -तथा दर्शनचारित्रमोहस्य-द्विरूपमोहनीयकर्मणः बन्धनमिति गम्यते पञ्चरमिवआत्मशकुनेर्बन्धनस्थानमिव कुर्वन्ति-विदधति सुरादय इति प्रकृतं, कथं ? - ‘अन्योऽन्यस्य' परस्परस्यासेवनया-अब्रह्माश्रितभोगेन, क्वचित्पाठः ‘अन्नोऽन्नं सेवमाण'त्ति कण्ठ्यश्च, पूर्वोक्तप्रपञ्चार्थमेवाह-भूयः-पुनरदीपं विशेषेणाभिधीयते-असुरसुरतिर्यङ्गानुष्येभ्यो ये भोगाःशब्दादयस्तेषुयारतिः-आसक्तिस्तत्प्रधाना ये विहाराः-विचित्रक्रीडाः तैः सम्प्रयुक्ता ये ते तथा,
-ते च के ते इत्याह-चक्रवर्तिनःराजातिशयाः ससागरां भुक्त्वा वशुधां मण्डलिकत्वं च भुक्त्वा भरतवर्ष चक्रवर्तित्वेऽतुलशब्दादींश्चानुभूयोपमन्ति मरणधर्म अवितृप्ताः कामानामिति सम्बन्धः किंविधास्ते इत्याह-सुरनरपतिभिः सुरेश्वरनरेश्वरैः सत्कृताः-पूजिताः येते तथा, के इवानुभूयेत्याह-सुरवरा इव-देवप्रवरा इव,
कत्र ?-देवलोके-स्वर्गे, तथा भरतस्य-भारतवर्षस्य सम्बन्धिनां नगानां-पर्वतानां नगराणां-करविरहितस्थानानां निगमानां-वणिग्जनप्रधानस्थानानां जनपदानां--देशानां पुरवराणां-राजधानीरूपाणां द्रोणमुखानां-जलस्थलपथयुक्तानां खेटानां-धूलीप्राकाराणां कर्बटानां-कुनगराणां मडम्बानां-दूरस्थितसन्निवेशान्तराणां संवाहानां-रक्षार्थं धान्यादिसंवहनोचितदुर्गविशेषरूपाणां पत्तनानां च-जलपथस्थलपथयोरेकतरयुक्तानां सहैमण्डिता या सा तथा तां, स्तिमितमेदिनीकां-निर्भयत्वेन स्थिरविश्वम्भराश्रितजनांएकमेवछत्रंयत्रएकराजत्वात्सा एकछत्रातांससागरांतांभुक्त्वा-पालयित्वा वसुधां-पृथ्वीं भरतार्धादिरूपांमाण्डलिकत्वे, एतच्च पदद्वयमुत्तरत्र ‘हिमवन्त सागरंतं धीरो भोत्तूणं भरहवास'मिति समस्तभरतक्षेत्रभोक्तृत्वापेक्षया भणनादवसीयते, नरसिंहाः शूरत्वात् नरपतयः तत्सावमित्वात् नरेन्द्राः तेषां मध्ये ईश्वरत्वात् नरवृषभा गुणैः प्रदानत्वात्मरुद्वषभकल्पाः-देवनाथभूताः मरुजवृषभकल्पावा-मरुदेशोत्पन्नगवयभूता अङ्गीकृतकार्यभारनिर्वाहकत्वात् अभ्यधिकं अत्यर्थं राजतेजोलक्या दीप्यमानाः सौम्या-अदारुणा नीरुजा वा राजवंशतिलकाः-तन्मण्डनभूताः,
तथा रविशश्यादीनि वरपुरुशलक्षणानि येधारयन्ति ते तथा, तत्र रविः शशी शङ्खो वरचक्रं स्वस्तिकं पताका यवो मत्स्यश्च प्रतीताः कूर्मकः-कच्छपः रथवरः-प्रतीतः भगो-योनिः भवनं--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548