Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वार-१, अध्ययनं-४,
४३१
सुखकारीणि माला-आभरणविशेषः कटकानि-कङ्कणानि पाठान्तरेण कुण्डलानि-प्रतीतानि अङ्गदानि-बाह्वाभरणविशेषाः तुटिका-बाहुरक्षिकाः प्रवरभूषणानिच-मुकुटादीनिमालादीन्येव वा प्रवरभूषणानि पिनद्धानि-बद्धानि देहे येषां ते तथा,
एकावली-विचित्रमणिका एकसरिका कण्ठे-गले सुरचिता वक्षसि-हृदये येषांतेतथा, प्रलम्बो-१दीर्घः प्रलम्बमानो-लम्बमानः सुकृतः-सुरचितः पटशाटकः-उत्तरीयं उपरिकायवस्त्रं यैस्ते तथा मुद्रिकाभिः-अङ्गुलीयकैः पिङ्गलाः-पिङ्गः अङ्गुल्यो येषां ते तथा, ततः कर्मधारयः, उज्ज्वलं नेथ्यं-वेषो रचितं रतिदं वा 'चिल्लगं'ति लीनं दीप्यमानं वा विराजमान-शोभमानं येषां तेन वा विराजमाना ये ते तथा, तेजसा दिवाकर इव दीप्ता इति प्रतीतं, शारदं-शरत्कालीनं यत् नवं-उत्पद्यमानावस्थं न तु विरामावस्थं स्तनितं-मेघगर्जितं तद्वन्मधुरो गम्भीरः स्निग्धश्च घोषो येषां ते तथा, वाचनान्तरे ‘सागरनवे'त्यादि दृश्यते, उत्पन्नसमस्तरन्ताश्चतेचक्ररत्नाप्रधानाश्चेति विग्रहः, रत्नानि च तेषां चतुर्दश, तद्यथा॥१॥ “सेनावइ १ गाहावइ २ पुरोहिय ३ तुरग ४ वड्डइ ५ गय ६ इत्थी ७। चक्कं ८ छत्तं ९ चम्मं १० मणि ११ कागणि १२ खग्ग १३ दंडो य १४ ॥"
-नवनिधिपतयः, निधयश्चैवम्,-- ॥१॥ "नेसप्पं १ पंडु २ पिंगलय ३ सव्वरयणे ४ तहा महापउमे ५।
__काले य ६ महाकाले ७ माणवग महानिही ८ संखे ९ ।।" समृद्धकोशा इति प्रतीतं, चत्वारोऽन्ता-भूविभागाः पूर्वसमुद्रादिरूपा येषां ते तथा ते एव चातुरन्ताः, तथा चतुर्भिरंशैः-हस्त्यश्वरथपदातिलक्षणैरुपेताश्चातुर्यस्ताभिः सेनाभिः समनुयायमानमार्गाः-समनुगम्यमानपथाः, एतदेवदर्शयति-तुरगपतय इत्यादि, विपुलकुलाश्च ते विश्रुतयशसश्च-प्रतीतख्यातय इति विग्रहः, शारदशशी यः सकलः-पूर्णस्तद्वत्सौम्यं वदनं येषां तेतथा, शूराः-शौनण्डरौलोक्यनिर्गतप्रभावाश्च तेलब्धशब्दाश्च-प्राप्तख्यतय इति विग्रहः,
समस्तभरताधिपा नरेन्द्रा इति प्रतीतं, सह शैलैः-पर्वतैः वनैः-नगरविप्रकृष्टैः काननैश्च-- नगरासनैर्यत्तत्तथा हिमवत्सागरान्तं धीरा भुक्त्वा भरतवर्ष जितशत्रवः प्रवरराजसिंहाः पूर्वकृततपःप्रभावा इतिप्रतीतं, निर्विष्टं-परिभुक्तं सञ्चितं-पोषितं सुखं यैस्ते तथा, अनेकवरर्षशतायुष्मन्तः भार्याभिश्चजनपदप्रधानाभिलाल्यमानाः-विलास्यमानाः अतुला-निरुपमायेशब्दास्पर्शसरूपगन्धास्ते तथा तांश्चानुभूय, तेऽपि आसतामपरे, उपनमन्ति-प्राप्नुवन्ति मरणधर्ममृत्युलक्षणं जीवपर्यायं अवितृप्ताः-अतृप्ताः कामानां-अब्रह्माङ्गानाम्।
मू. (१९-वर्तते) भुज्जो भुजो बलदेववासुदेवा य पवरपुरिसा महाबलपरक्कमा महाधणुवियट्टका महासत्तसागरा दुद्धरा धणुद्धरा नरवसभा रामकेसवा भायरो सपरिसा वसुदेवसमुद्दविजय- मादियदसाराणं पज्जुनपतिवसंबअनिरुद्धनिसहउम्मुयसारणगयसुमुहदुम्मुहादीण जायवाणं अद्धट्ठाणविकुमारकोडीणं हिययदयिया देवीए रोहिणीए देवीए देवकीएयआनंदहिययभावनंदनकरा सोलसरायवरसहस्साणुजातमग्गा सोलसदेवीसहस्सवरणयणहिययदइया
नानामणिकणगरयणमोत्तियपवालधणधन्नसंचयरिद्धिसमिद्धकोसा हयगयरहसहस्ससामीगामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसहस्सथिमियणिब्बुयपमुदितज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548