SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ द्वार-१, अध्ययनं-४, ४३१ सुखकारीणि माला-आभरणविशेषः कटकानि-कङ्कणानि पाठान्तरेण कुण्डलानि-प्रतीतानि अङ्गदानि-बाह्वाभरणविशेषाः तुटिका-बाहुरक्षिकाः प्रवरभूषणानिच-मुकुटादीनिमालादीन्येव वा प्रवरभूषणानि पिनद्धानि-बद्धानि देहे येषां ते तथा, एकावली-विचित्रमणिका एकसरिका कण्ठे-गले सुरचिता वक्षसि-हृदये येषांतेतथा, प्रलम्बो-१दीर्घः प्रलम्बमानो-लम्बमानः सुकृतः-सुरचितः पटशाटकः-उत्तरीयं उपरिकायवस्त्रं यैस्ते तथा मुद्रिकाभिः-अङ्गुलीयकैः पिङ्गलाः-पिङ्गः अङ्गुल्यो येषां ते तथा, ततः कर्मधारयः, उज्ज्वलं नेथ्यं-वेषो रचितं रतिदं वा 'चिल्लगं'ति लीनं दीप्यमानं वा विराजमान-शोभमानं येषां तेन वा विराजमाना ये ते तथा, तेजसा दिवाकर इव दीप्ता इति प्रतीतं, शारदं-शरत्कालीनं यत् नवं-उत्पद्यमानावस्थं न तु विरामावस्थं स्तनितं-मेघगर्जितं तद्वन्मधुरो गम्भीरः स्निग्धश्च घोषो येषां ते तथा, वाचनान्तरे ‘सागरनवे'त्यादि दृश्यते, उत्पन्नसमस्तरन्ताश्चतेचक्ररत्नाप्रधानाश्चेति विग्रहः, रत्नानि च तेषां चतुर्दश, तद्यथा॥१॥ “सेनावइ १ गाहावइ २ पुरोहिय ३ तुरग ४ वड्डइ ५ गय ६ इत्थी ७। चक्कं ८ छत्तं ९ चम्मं १० मणि ११ कागणि १२ खग्ग १३ दंडो य १४ ॥" -नवनिधिपतयः, निधयश्चैवम्,-- ॥१॥ "नेसप्पं १ पंडु २ पिंगलय ३ सव्वरयणे ४ तहा महापउमे ५। __काले य ६ महाकाले ७ माणवग महानिही ८ संखे ९ ।।" समृद्धकोशा इति प्रतीतं, चत्वारोऽन्ता-भूविभागाः पूर्वसमुद्रादिरूपा येषां ते तथा ते एव चातुरन्ताः, तथा चतुर्भिरंशैः-हस्त्यश्वरथपदातिलक्षणैरुपेताश्चातुर्यस्ताभिः सेनाभिः समनुयायमानमार्गाः-समनुगम्यमानपथाः, एतदेवदर्शयति-तुरगपतय इत्यादि, विपुलकुलाश्च ते विश्रुतयशसश्च-प्रतीतख्यातय इति विग्रहः, शारदशशी यः सकलः-पूर्णस्तद्वत्सौम्यं वदनं येषां तेतथा, शूराः-शौनण्डरौलोक्यनिर्गतप्रभावाश्च तेलब्धशब्दाश्च-प्राप्तख्यतय इति विग्रहः, समस्तभरताधिपा नरेन्द्रा इति प्रतीतं, सह शैलैः-पर्वतैः वनैः-नगरविप्रकृष्टैः काननैश्च-- नगरासनैर्यत्तत्तथा हिमवत्सागरान्तं धीरा भुक्त्वा भरतवर्ष जितशत्रवः प्रवरराजसिंहाः पूर्वकृततपःप्रभावा इतिप्रतीतं, निर्विष्टं-परिभुक्तं सञ्चितं-पोषितं सुखं यैस्ते तथा, अनेकवरर्षशतायुष्मन्तः भार्याभिश्चजनपदप्रधानाभिलाल्यमानाः-विलास्यमानाः अतुला-निरुपमायेशब्दास्पर्शसरूपगन्धास्ते तथा तांश्चानुभूय, तेऽपि आसतामपरे, उपनमन्ति-प्राप्नुवन्ति मरणधर्ममृत्युलक्षणं जीवपर्यायं अवितृप्ताः-अतृप्ताः कामानां-अब्रह्माङ्गानाम्। मू. (१९-वर्तते) भुज्जो भुजो बलदेववासुदेवा य पवरपुरिसा महाबलपरक्कमा महाधणुवियट्टका महासत्तसागरा दुद्धरा धणुद्धरा नरवसभा रामकेसवा भायरो सपरिसा वसुदेवसमुद्दविजय- मादियदसाराणं पज्जुनपतिवसंबअनिरुद्धनिसहउम्मुयसारणगयसुमुहदुम्मुहादीण जायवाणं अद्धट्ठाणविकुमारकोडीणं हिययदयिया देवीए रोहिणीए देवीए देवकीएयआनंदहिययभावनंदनकरा सोलसरायवरसहस्साणुजातमग्गा सोलसदेवीसहस्सवरणयणहिययदइया नानामणिकणगरयणमोत्तियपवालधणधन्नसंचयरिद्धिसमिद्धकोसा हयगयरहसहस्ससामीगामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसहस्सथिमियणिब्बुयपमुदितज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy