________________
प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ भवनपतिदेवावासो विमानं - वैमानिकनिवासः तुरहगस्तोरणं गोपुरं च प्रसिद्धानि मणिःचन्द्रकान्तादि रत्नं-कर्केतनादि नन्द्यावर्त्तो - नवकोणः स्वस्तिकविशेषः मुशवलं लाङ्गलं च प्रसिद्धे सुरचितः - सुष्ठुकृतः सुरतिदो वा - सुखकरो यो वरः कल्पवृक्षः - कल्पद्रुमः स तथा मृगपतिः - सिंहो भद्रासनं - सिंहासनं सुरूची रूढिगम्या आभरणविशेष इति केचित् स्तूपः - प्रतीतः वरमुकुटंप्रवरशेखरः ‘'सरिय'त्ति मुक्तावली कुण्डलं- कर्णाभरणं कुञ्जरो वरवृषभश्च प्रतीतौ द्वीपो - जलभृतो भूदेशो मन्दरो - मेरुः मन्दिरं वा गृहं गरुडः - सुपर्णः ध्वजः - केतुः इन्द्रकेतुः इन्द्रयष्टिः दर्पणआदर्सः अष्टापदं- द्यूतफलकं कैलाशः पर्वतविशेषो वा चापंच-धनुः बाणी - मार्गणः नश्रत्रं मेघश्च प्रतीतौ मेखला - काञ्ची वीणा - प्रतीता युगं - यूपः छत्रं - प्रतीतं दाम - माला दामिनी - लोकरूढिगम्या
-
- कमण्डलुः- कुण्डिका कमलं घण्टा च प्रतीते वरपोतो- बोधित्थः शूची - प्रतीता सागरःसमुद्रः कुमुदाकरः- कुमुदखण्डः मकरो - जलचरविशेषः हारः- प्रतीतः 'गागर' त्ति स्त्रीपरिधानविशेषः नूपुरं - पादाभरणं नगः-पर्वतो नगरंप्रतीतं वैरं वज्रं किन्नरो-वाद्यविशेषो देवविशेषो वा मयूरवरराजहंससारसचकोरचक्रवाकमिथुनानि प्रसिद्धानि चामरं प्रकीर्णकं खेटकं - फवलकं पव्वीसकं विपञ्ची वाद्यविशेषौ वरतालवृन्तं - व्यञ्जनविशेषः श्रीकीभिषेको - लक्ष्म्यभिषेचनं मेदिनी - पृथ्वी खङ्गः - असि अङ्कुशश्च - सृणिर्विमलकलशो भृङ्गराश्च भाजनविशेषः वर्द्धमानकं शरावं पुरुषारूढः पुरुषो वा एतेषां द्वन्द्वः तत एतानि प्रशस्तानि - माङ्गल्यानि उत्तमानि - प्रधानानि विभक्तानि च-विविक्तानि यानि वरपुरुषाणां लक्षणानि तानि धारयन्ति ये ते तथा,
तथा द्वात्रिंशता राजवराणां सहस्रैरनुयातः - अनुगतो मार्गो येषां ते तथा, चतुःषष्टिः सहस्राणि यासां तास्तथा ताश्च ताः प्रवरयुवतयश्च -तरुण्य इति समासः तासां नयनकान्ताः - लोचनाभिरामाः परिणयनभर्त्तारो वा रक्ता-लोहिता आभा - प्रभा येषां ते रक्ताभाः 'पउमपम्ह' त्ति पद्मगर्भाः कोरण्टकदाम–कोरण्टकाभिधानपुष्पम्नक् चम्पकः - कुसुमविशेषः सुतप्तवरकनकस्य यो निकषोरेखा स तथा तत एतेषामिव वर्णो येषां ते तथा,
सुजातानि - सुनिष्पन्नानि सर्वाण्यङ्गानि - अवयवा यत्र तदेवंविधं सुन्दरमङ्गं-शरीरं येषां ते तथा महार्धाणि-महामूल्यानि वरपत्तनोङ्गतानि - प्रवरक्षेत्रविशेषोत्पन्नानि विचित्ररागाणिविविधरागरञ्जितानि एणी - हरिणी प्रेणीच - तद्विशेष एव तच्चर्म्मनिर्म्मितानि यानि वस्त्राणि तानि एणीप्रेणीनिर्मितानि उच्यन्ते, श्रूयन्ते च निषीथे 'कालमृगाणि नीलमृगाणि चे 'त्यादिभिर्वचनैर्मृगचर्मवस्त्राणीति, तथा दुकूलानीति दुकूलो - वृक्षविशेषस्तस्य वल्कं गृहीत्वा उदूखले जलेन सह कुट्टयित्वा बुसीकृत्य सूत्रीकृत्य च वूयन्ते यानि तानि दुकूलानि वरचीनानीति - दुकूलवृक्षवल्कस्यैव यानि अभ्यन्तरहीरैर्निष्पाद्यन्ते सूक्ष्मतराणि च भवति तानि चीनदेशोत्पन्नानि वा चीनान्युच्यन्ते, पट्टसूत्रमयानि - पट्टानि कौशेयकानि - कौशेयककारोद्भवानि वस्त्राणि श्रोणीसूत्रकं - कटीसूत्रकं एभिर्विभूषितान्यङ्गानि येषां ते तथा, वाचनान्तरे निर्मितस्थाने क्षोमिक इति पठ्यते, तत्र क्षौमिकाणि-कार्पासिकानि वृक्षेभ्यो निर्गतानीत्यन्ये अतसीमयानीत्यपरे,
४३०
तथा वरसुरभिगन्धाः- प्रधानमनोज्ञपुटपाकलक्षणा गन्धाः तथा वरचूर्णरूपा वासास्ताडिता इत्यर्थः वरकुसुमानि च प्रतीतानि तेषां भरितानि - भृतानि शिरांसि - मस्तकानि येषां ते तथा, कल्पितानि - ईप्सितानि छेकाचार्येण - निपुणशिल्पिना सुकृतानि - सुष्ठु विहितानि रतिदानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org