Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 459
________________ ४५६ उक्त लक्षणाः अन्ये चैवमादयः परिग्रहं सञ्चिन्वन्ति - पिण्डयन्ति, किम्भूतं ? - अनन्तं अपरिमाणत्वात् अशरणं आ पद्मयो रक्षणासमर्थत्वात् दुरन्तं पर्यवसानदारुणत्वात् अध्रुवं नावश्यं भाविनमादित्योदयवत् अनित्यं - न नित्यमस्थिरत्वात् अशाश्वतं प्रतिक्षणं विशरारुत्वात् 'पावकम्मनेम्म' न्ति पापकर्मणां - ज्ञानावरणादीनां मूलं 'अवकिरियव्वं 'ति जिनागमाञ्जनाञ्जितबुद्धिचक्षुषामवकरणीयं- विक्षेपणीयं त्याज्यमितियावत् विशालमूलं वधबन्धपरिक्लेशबहुलं अनन्तक्लेशकारणमिति च कण्ठ्यं, नवरं सङ्कलेशः - चित्ताविशुद्धिः, ते देवादयः तं धनकनकरत्ननिचयं पिण्डयन्तश्चैव लोभग्रस्ता संसारमतिपतन्ति अतिव्रजन्ति वा इति व्यक्तं किम्भूतं ? - सर्वदुखानि सन्निलीयन्ते - आश्रितानि भवन्ति यत्र स तथा तं सर्वदुःखसन्निलयनमिति । प्रश्नव्याकरणदशाङ्गसूत्रम् १/५/२३ अथ यथा परिग्रहः क्रियते तदाह-परिग्रहस्यैव चार्थाय शिल्पशतं शिक्षतेबहुजनं इति कण्ठ्यं, किन्तु शिल्पं - आचार्योपदेश प्राप्यं चित्रादि कलाश्च - द्विसप्ततिः सुनिपुणा लेखादिकाः शकुनरुतावसानाः-शकुनरुतपर्यवसानाः गणितप्रधाना इति व्यक्तं, तथा चतुःषष्टिं च महिलागुणान्, आलिङ्गनादीनामष्टानां क्रियाविशेषाणां वात्स्यायनाभिहितानां प्रत्येकमष्टभेदत्वाचतुःषष्टिर्महिलागुणा भवन्तीति, गीतनृत्यादयो वा स्त्रीजनोचिता वात्स्यायनाभिहिताश्चतुःषष्टिरेवेति, तांश्च किंविधान् ? - - रतिजननानिति प्रतीतं, तथा सिप्पसेवं' ति शिल्पेन सेवा - वृत्त्यर्थिना राजादीनामवलगनं शिल्पसेवा तां शिक्षते इति सम्बन्धः, तथा ' असिमसिकिसिवाणिज्जं 'ति 'असि' त्ति खङ्गाभ्यासं 'मसि' त्ति मषीकृत्यमक्षरलिपिविज्ञानं कृषि - क्षेत्रकर्षणकर्म वाणिज्यं वणिग्व्यवहारं तथा व्यवहारं-विवादच्छेदनं 'अत्थसत्थईसत्थच्छरुप्पगयं' ति अर्थशास्त्रं - अर्थोपायप्रतिपादनं शास्त्रं राजनीत्यादि 'ईसत्यं' ति इषुशास्त्रं धनुर्वेदं त्सरुप्रगतं - क्षुरिकादिमुष्टिग्रहणोपायजातं विविधांश्च योगयोजनान् बहुप्रकारांश्च वशीकरणादियोगान् परिग्रहाय शिक्षत इति प्रतीतं, - तथा अन्येषु एवमादिकेषु - एवंप्रकारेषु बहुषु कारणशतेषु - परिग्रहोपादानहेतुशतेषु अधिकरणभूतेषु प्रवर्त्तमाना इति गम्यं, यावज्जीवं - आजन्म 'नडिज्जए 'त्ति बहुवचनार्थत्वादेकवचनस्य नट्यन्ते - विनट्यन्ते, तथा सञ्चिन्वन्ति अबुद्धयो मन्दबुद्धयो वा दुष्टबुद्धियुक्ताः परिग्रहमिति प्रस्तुतं, तथा परिग्रहस्यैव चार्थाय कुर्वन्ति प्राणानां - जीवानां वधकरणं - हननक्रिया, तथा 'अलीकनिकृतिसातिसम्प्रयोगान्' तत्रालीकं - मृषावादः निकृतिः - अत्यन्तादरकरणेन परवञ्चनं सातिसम्प्रयोगो - विगुणद्रव्यस्य द्रव्यान्तरमीलनेन गुणोत्कर्षभ्रमोत्पादनं 'परदव्वाभिज्झत्ति परधनलोभं परद्रव्याभिधानं वा, प्रथमान्तत्वं च प्राकृतत्वात्, -तथा 'सपरदारगमणंसेवणाए आयासविसरणं ति खदारगमने आयासं शरीरमनोव्यायामं कुर्वन्तीति प्रकृतं, परदारसेवनायां च विसूरणंअप्राप्तौ मनः खेदं परस्य वा मनः पीडां कुर्वन्तीति, 'कलहभण्डनवैराणिच' तत्र कलहो - वाचिकः भण्डनं कायिकं वैरं - अनुशयानुबन्धः, 'अपमानविमाननाः' तत्रापमाननानि - विनयभ्रंशाः विमाननाः - कदर्थनाः, किंभूताः सन्तः कुर्वन्तीत्याह'इच्छमहिच्छपिवाससययतिसिय'त्ति इच्छा - अभिलाषमात्रं महेच्छा - महाभिलाषश्चक्रवर्त्यादीनामिव ते एव पिपासा - पानेच्छा तया सततं - संततं तृषिता ये ते तथा, तथा 'तण्हगेहिलोभ For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548