________________
४५६
उक्त लक्षणाः अन्ये चैवमादयः परिग्रहं सञ्चिन्वन्ति - पिण्डयन्ति,
किम्भूतं ? - अनन्तं अपरिमाणत्वात् अशरणं आ पद्मयो रक्षणासमर्थत्वात् दुरन्तं पर्यवसानदारुणत्वात् अध्रुवं नावश्यं भाविनमादित्योदयवत् अनित्यं - न नित्यमस्थिरत्वात् अशाश्वतं प्रतिक्षणं विशरारुत्वात् 'पावकम्मनेम्म' न्ति पापकर्मणां - ज्ञानावरणादीनां मूलं 'अवकिरियव्वं 'ति जिनागमाञ्जनाञ्जितबुद्धिचक्षुषामवकरणीयं- विक्षेपणीयं त्याज्यमितियावत् विशालमूलं वधबन्धपरिक्लेशबहुलं अनन्तक्लेशकारणमिति च कण्ठ्यं, नवरं सङ्कलेशः - चित्ताविशुद्धिः, ते देवादयः तं धनकनकरत्ननिचयं पिण्डयन्तश्चैव लोभग्रस्ता संसारमतिपतन्ति अतिव्रजन्ति वा इति व्यक्तं किम्भूतं ? - सर्वदुखानि सन्निलीयन्ते - आश्रितानि भवन्ति यत्र स तथा तं सर्वदुःखसन्निलयनमिति ।
प्रश्नव्याकरणदशाङ्गसूत्रम् १/५/२३
अथ यथा परिग्रहः क्रियते तदाह-परिग्रहस्यैव चार्थाय शिल्पशतं शिक्षतेबहुजनं इति कण्ठ्यं, किन्तु शिल्पं - आचार्योपदेश प्राप्यं चित्रादि कलाश्च - द्विसप्ततिः सुनिपुणा लेखादिकाः शकुनरुतावसानाः-शकुनरुतपर्यवसानाः गणितप्रधाना इति व्यक्तं, तथा चतुःषष्टिं च महिलागुणान्, आलिङ्गनादीनामष्टानां क्रियाविशेषाणां वात्स्यायनाभिहितानां प्रत्येकमष्टभेदत्वाचतुःषष्टिर्महिलागुणा भवन्तीति, गीतनृत्यादयो वा स्त्रीजनोचिता वात्स्यायनाभिहिताश्चतुःषष्टिरेवेति, तांश्च किंविधान् ? -
- रतिजननानिति प्रतीतं, तथा सिप्पसेवं' ति शिल्पेन सेवा - वृत्त्यर्थिना राजादीनामवलगनं शिल्पसेवा तां शिक्षते इति सम्बन्धः, तथा ' असिमसिकिसिवाणिज्जं 'ति 'असि' त्ति खङ्गाभ्यासं 'मसि' त्ति मषीकृत्यमक्षरलिपिविज्ञानं कृषि - क्षेत्रकर्षणकर्म वाणिज्यं वणिग्व्यवहारं तथा व्यवहारं-विवादच्छेदनं 'अत्थसत्थईसत्थच्छरुप्पगयं' ति अर्थशास्त्रं - अर्थोपायप्रतिपादनं शास्त्रं राजनीत्यादि 'ईसत्यं' ति इषुशास्त्रं धनुर्वेदं त्सरुप्रगतं - क्षुरिकादिमुष्टिग्रहणोपायजातं विविधांश्च योगयोजनान् बहुप्रकारांश्च वशीकरणादियोगान् परिग्रहाय शिक्षत इति प्रतीतं,
- तथा अन्येषु एवमादिकेषु - एवंप्रकारेषु बहुषु कारणशतेषु - परिग्रहोपादानहेतुशतेषु अधिकरणभूतेषु प्रवर्त्तमाना इति गम्यं, यावज्जीवं - आजन्म 'नडिज्जए 'त्ति बहुवचनार्थत्वादेकवचनस्य नट्यन्ते - विनट्यन्ते, तथा सञ्चिन्वन्ति अबुद्धयो मन्दबुद्धयो वा दुष्टबुद्धियुक्ताः परिग्रहमिति प्रस्तुतं, तथा परिग्रहस्यैव चार्थाय कुर्वन्ति प्राणानां - जीवानां वधकरणं - हननक्रिया, तथा 'अलीकनिकृतिसातिसम्प्रयोगान्' तत्रालीकं - मृषावादः निकृतिः - अत्यन्तादरकरणेन परवञ्चनं सातिसम्प्रयोगो - विगुणद्रव्यस्य द्रव्यान्तरमीलनेन गुणोत्कर्षभ्रमोत्पादनं 'परदव्वाभिज्झत्ति परधनलोभं परद्रव्याभिधानं वा, प्रथमान्तत्वं च प्राकृतत्वात्,
-तथा 'सपरदारगमणंसेवणाए आयासविसरणं ति खदारगमने आयासं शरीरमनोव्यायामं कुर्वन्तीति प्रकृतं, परदारसेवनायां च विसूरणंअप्राप्तौ मनः खेदं परस्य वा मनः पीडां कुर्वन्तीति, 'कलहभण्डनवैराणिच' तत्र कलहो - वाचिकः भण्डनं कायिकं वैरं - अनुशयानुबन्धः, 'अपमानविमाननाः' तत्रापमाननानि - विनयभ्रंशाः विमाननाः - कदर्थनाः, किंभूताः सन्तः कुर्वन्तीत्याह'इच्छमहिच्छपिवाससययतिसिय'त्ति इच्छा - अभिलाषमात्रं महेच्छा - महाभिलाषश्चक्रवर्त्यादीनामिव ते एव पिपासा - पानेच्छा तया सततं - संततं तृषिता ये ते तथा, तथा 'तण्हगेहिलोभ
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International