SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ द्वारं-१, अध्ययनं-५, ४५५ ____ ततः कर्मधारयोऽतस्तान्नानविधकामरूपविकुर्विताप्सरोगणसंघातान्, 'चेइयाणि त्ति चैत्यवृक्षान् आराभादीनां विशेषः प्राग्वदवगन्तव्यः ‘कित्तणाईतिकीत्यते-संशब्धतेयैः कारयिता तानि कीर्तनानि-देवकुलादीन्येव तानि च ममायन्ते इति प्रकृतं, ततश्च परिगृह्य परिग्रहं, किम्भूतमित्याह-विपुलद्रव्यसारं-प्रभूतकस्तुप्रधानं 'देवावि सइंदग'त्ति सइन्द्रका अपि देवाः, इन्द्रा देवाश्च किल महर्द्धयो वाञ्छितार्थप्राप्तिसमर्था दीर्घायुषश्च भवन्ति न च ते तथाविधा अपि सन्तस्तुष्टयादिकं लभन्ते कुतः पुनरितरे इति प्रतिपादनार्थं देवावि सइंदगा इत्युक्तमिति, ‘न तित्तिं न तुढि उवलभंति'त्ति तृप्ति-इच्छाविनिवृत्तिं तुष्टिं तोषमानन्दं न लभन्ते अपरापरविशेषप्राप्तयाकाङ्क्षबाधितत्वात्, किम्भूतास्ते इत्याह०अत्यन्तविपुललोभाभिभूता संज्ञा-संज्ञानं येषां ते तथा वर्षधरेषु--हिमवदादिषु पर्वतेषु इषुकारेषु-घातकीखण्डपुष्करवरद्वीपार्द्धयोः पूर्वापरार्द्धकारिषु दक्षिणोत्तरायतेषु पर्वतविशेषेषु वृत्तपर्वतेषु-शब्दापातिविकटापात्यादिषु वर्तुलविजयार्द्ध पर्वतेषु कुण्डले-जम्बूद्वीपादेकादशकुण्डलाभिधानद्वीपान्तर्वर्तिनि कुण्डलाकारपर्वते रुचकवरे-जम्बूद्वीपात्रयोदशरुचकवराभिधानद्वीपान्तर्वर्तिनि मण्डलाकारपर्वते तथा मानुषोत्तरे-मनुष्यक्षेत्रावारके मण्डलाकारपर्वते कालोदधौ-द्वितीयसमुद्रे -‘लवण'त्ति लवणसमुद्रे 'सलिल'त्ति सलिलासु गङ्गादिमहानदीषु हदपतिषु-नदप्रधानेषु पद्ममहापद्मादिषु महादेषु रतिकरेषु-नन्दीश्वराभिधानष्टमद्वीपचक्रवालविदिक्चतुष्टयव्यवस्थितेषु चतुर्यु झल्लरीसंस्थितेषु पर्वतेषु अञ्जनकेषु-नन्दीश्वरचक्रवालमध्यवर्तिषु पर्वतेषु दधिमुखेषुअञ्जनकचतुष्टयपार्श्ववर्तिपुष्करिणीषोडशमध्यभागवर्त्तिषुषोडशस्वेव पर्वतेषुअवपाताः-येषु वैमानिका देवा अवपतन्ति अवपत्य च मनुष्यक्षेत्रादावागच्छन्ति उत्पाताश्च-येभ्यो भवनपतय उत्पत्य मनुष्यक्षेत्रं समागच्छन्ति ते चानेके तिगिञ्छिकूटादयस्तेषु काञ्चनेषु-उत्तरकुरुमध्ये देवकुरुमध्ये च प्रत्येकंपञ्चानां महादानां प्रत्येकमुभयोः पार्श्वयोः दशसुदशसु सर्वाग्रेण द्विशतीपरिमाणेषुकाञ्चनमयपर्वतेषु 'चित्तविचित्तत्तिनिषधाभिधानवर्षधरप्रत्यासन्नयोःशीतोदाभिधानमहानद्युभयतटवर्तिनोश्चित्रविचित्रकूटाभिधानयोः पर्वतयोः 'जमगवर'त्ति नीलवद्वर्षधरप्रत्यासन्नयोः शीताभिधानमहानधुभयतटवर्तिनोर्यमकवराभिधानपर्वतयोः शिखरेषुसमुद्रमध्यवर्त्तिगोस्तूपादिपर्वतेषुकूटेषुच-नन्दनवनकूटादिषु वस्तुंशीलं येषां ते वर्षधरादिवासिनो देवा न लभन्ते तृप्तिमिति प्रक्रमः, तथा-'वक्खारअकम्मभूमीसुत्ति वक्षस्काराः-चित्रकूटादयो विजयविभागकारिणः अकर्मभूमयः-हैमवतादिकभोगभूमयः तासु येवर्तन्त इति गम्यते, तथा सुविभक्तभागा देशाजनपदा यासु तासु कर्मभूमिषु-कृष्यादिकर्मस्थानभूतासु भरतादिकासु पञ्चदशपरिमाणासु, किमित्याह-येऽपिच नराश्चतुरन्तचक्रवर्तिनोवासुदेवा बलदेवाः प्रतीताः माण्डलिका-महाराजा ईश्वरा-युवराजादयः भोगिका इत्यन्ये तलवराः-कृतपट्टबन्धाः राजस्तानीयाः सेनापतयःसैन्यनायका इभ्या-यावतो द्रव्यस्योत्करेणान्तरितो हस्ती न दृश्यते तावद्रव्यपतयः श्रेष्ठिनःश्रीदेवतालङ्कृ तशिरोवेष्टनकवन्तो वणिग्नायकाः राष्ट्रिका राष्ट्रचिन्तानियुक्तकाः पुरोहिताःशान्तिकर्मकारिण; कुमारा-राज्यायः दण्डनायकाः-तन्त्रपालाः माडम्बिकाः-प्रत्यन्तराजानः सार्थवाहाः-प्रतीताः कौटुम्बिका-ग्राममहत्तराः सन्तो ये सेवका अमात्या-राजचिन्तका एतेतच Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy