Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 455
________________ ४५२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/५/२१ कषायाः-क्रोधमानमाया एतएव महान्स्कन्धोयस्यस तथा,इहचकषायग्रहणेऽपि यल्लोभग्रहणं तत्तस्यप्रधानत्वापेक्षं,तथा चिन्ताश्च-चिन्तनानिआयासाश्च-मनःप्रभृतीनांखेदाःतएव पाठान्तरेण चिन्ताशतान्येवनिचिता-निरन्तरा विपुलाः-विस्तीर्णाशालाः-शाखायस्य सतथा, तथा 'गारव'त्ति गौरवाणि ऋद्धयादिष्वादरकरणानि तान्येव –'पविरल्लिय'त्ति विस्तारवत् अग्रविटपं-शाखामध्यभागाग्रयं विस्ताराग्रं वा यस्य स तथा, पाठान्तरे गौरवप्रविरेल्लिताग्रशिखरः, तथा 'नियडितयापत्तपल्लवधरो' निकृतयःअत्युपचारकरणेन वञ्चनानिमायाकर्माच्छादनार्थानि वामायान्तराणिता एव त्वक्पत्रपल्लवास्तान् धारयति यः स तथा, पल्लवाश्चेह कोमल पत्रं, तथा पुष्पं फलं 'जस्स कामभोग'त्ति प्रतीतमेव, तथा 'आयासवि- शूरणाकलहपकंपियग्गसिहरो' आयासः-शरीरखेदः विसूराणा-चित्तखेदः कलहो-वचनभण्डनं एत एव प्रकम्पितं-प्रकम्मपमानमग्रशिखरं-शिखराग्रं यस्य स तथा, नरपतिसंपूजितोबहुजनस्य हृदयदयित इति च प्रतीतं, अस्य-प्रत्यक्षस्यमोक्षवरस्य-भावमोक्षस्य मुक्तिरेव-निर्लोभतैव मार्गः-उपायो मोक्षवरमुक्तिमार्गः तस्य परिघभूतः-अर्गलोपमो मोक्षविघातक इतियावत् चरममधर्मद्वारं व्यक्तं। अनेन च याध्श इतिद्वारमुक्तं, अथ यन्नामेत्युच्यते मू. (२२) तस्स य नामानि इमाणि गोण्णाणि होति तीसं, तंजहा-परिग्गहो १ संचयो २ चयो ३ उवचओ४ निहाणं ५ संभारो ६ संकरो७आयरो ८पिंडो ९ दव्वसारो १० तहा महिच्छा ११ पडिबंधो १२ लोहप्पा १३ महद्दी १४ उवकरणं १५ संरक्खणा य १६ भारो १७ संपाउप्पायको १८ कलिकरंडो १९ पवित्थरो २० अनत्थो २१ संथवो २२ अगुत्ती २३ आयासो २४ अविओगो २५ अमुत्ती २६ तण्हा २७अनत्थको २८ आसत्ती २९ असंतोसोत्तिविय ३०, तस्स एयाणि एवमादीणि नाधेजाणि होति तीसं। वृ. तस्य च नामानीमानि गौणानि भवन्ति त्रिंशत्, तद्यथा-परिगृह्यत इति परिग्रहःशरीरोपध्यादिः परिग्रहणं वा परिग्रहः-स्वीकारः १ संचीयत इति सञ्चयनं वा सञ्चयः २ एवं चयः३ उपचयो ४ निधानं ५ सम्भ्रियते-धार्यतेसम्भरणं वा-धारणंसम्भारः ६सङ्कीर्यते सङ्करणं वा-सम्पिण्डनंसङ्करः७एवमादरः ८ पिण्डः पिण्डनीयंपिण्डनंवा ९ द्रव्यसारो-द्रव्यलक्षणसारः १० तथा महेच्छा-अपरिमितवाञ्छा ११ प्रतिबन्धः-अभिष्वङ्गः १२ लोभात्मा-लोभखभावः १३ महती इच्छा, क्वचित् ‘महद्दीति पाठः तत्र ‘अई गतौ याचने चेति वचनादर्दिः-याचा महती-ज्ञानोपष्टम्भादिकारणविकलत्वादपरिमाणा अमिहार्दिः १४ उपकरणं- उपाधिः १५ संरक्षणा-अभिष्वङ्गवशाच्छरीरादिरक्षणं १६ भारो-गुरुताकरणं १७ सम्पातानांअनर्थमलीकानामुत्पादकः संपातोत्पादकः १८ कालीनां-कलहानां करण्ड इव-भाजनविशेष इव कलिकरंडः १९प्रविस्तारो-धनधान्यादिविस्तारः२०अनर्थः-अनर्थहतुत्वात् २१ संस्तवःपरिचयः स चाभिष्वङ्गहेतुत्वात्परिग्रहः २२ अगुप्तिः-इच्छाया अगोपनं २३ आयासः-खेदः तद्धेतुत्वात्परिग्रहोऽप्यायास उक्तः, आह च॥१॥ "वहबंधणमारण [सेहणाउ काओ परिग्गहे नत्थि?। तंजइ परिग्गहुच्चिय जइधम्मो तो नणु पवंचो।गाहा"] अवियोगो-धनादेरत्यजनं २७ अमुक्तिः-सलोभता २६ तृष्णा-धनाद्याकाङ्क्ष २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548