Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं-१, अध्ययनं-५,
४५१
चेव बहुविहीयं भरहं नगनगरणियमजणवयपुरवरदोणमुहखेडकब्बडमडंबसंबाहपट्टणसहस्सपरिमंडियं थिमियमेइणीयं एगच्छत्तं ससागरं भुंजिऊण वसुहं अपरिमियमनततण्हमणुगयमहिच्छसारनिरयमूलो
-लोभकलिकसायमहक्खंधो चिंतासयनिचियविपुलसालो गारवपविरल्लियग्गविडवो नियडितयापत्तपल्लवधरो पुप्फफलं जस्स कामभोगा आयासविसरणाकलहपकंपियग्गसिहरो नरवतिसंपूजितो बहुजणस्स हिययदइओ इमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूओ चरिमं अहम्मदारं।
वृ. 'जंबू'इत्यादि, जम्बूरिति शिष्यामन्त्रणं, एत्तोत्तिइतश्चतुर्थाश्रवद्वारादनन्तरंपरिग्रहणं परिगृह्यत इति वा परिग्रहः, इह च परिग्रहशब्दोपादानेऽपि वक्ष्यमाणविशेषणान्यथानुपपत्त्या परिग्रहतरुरिति द्रष्टव्यं, पञ्चमस्तु-पञ्चमः पुनराश्रवो भवतीति गम्यते, पञ्चमत्वं चास्य सूत्रकमाश्रयणात्, नियमात्-निश्चयेन नान्यः पञ्चमत्वमाश्रवाणां मध्ये लभते, कथंभूतोऽसावित्याह
'नानामणी'त्यादि, तत्र नानामण्यादिविधिंभारतंवसुधांचभुक्त्वापियाअपिरिमिताऽनन्ता तृष्णा अनुगता च महेच्छा सैव मूलं यस्य परिग्रहतरोः स तथेथि सम्बन्धः, तत्र नानाविधा ये मणयः-चन्द्रकान्ताद्याःकनकंच-सुवर्ण रलानिच-कर्केतनादीनि महार्हपरिमलाः-महार्हसुगन्धद्रव्यामोदा ये सपुत्रदाराः-सुतयुक्तकलत्राणिते चपरिजनश्च-परिवारः दासीदासाश्च-चेटीचेटाः भृतकाश्च-कर्मकराः प्रेष्याश्च-प्रयोजनेषु प्रेषणीयाः हयगजगोमहिषउष्ट्रखरअ-जगवेलकाश्च प्रतीताः शिबिकाश्च-कूटाच्छादितजम्पानविशेषाः शकटानिच-गन्त्र्यः रथाश्च-प्रतीताःयानानि च-गन्त्रीविशेषा; युग्यानिच-वाहनानि गोल्लदेशप्रसिद्धजम्पानविशेषाः स्यन्दनाश्च-रथविशेषाः शयनासनानि च प्रतीतानि वाहनानि च-यानपात्राणि
_ 'कुविय'त्ति कुप्यानिच गृहोपस्कराः खट्वा-तूल्यादयः धनानि चगणिमादीनि धान्यपान भोजनाच्छादनगन्धमाल्यभाजनभवनानिचप्रतीतानीति द्वन्द्वस्ततस्तेषां विधिः-कार्यसाध्यमिति तत्पुरुषः अतस्तंचैव बहुविधिकं-अनेकप्रकार, तथा भरतं-क्षेत्रविशेषंनगाः-पर्वताः नगराणिकरवर्जितानिनिगमा-वणिजांस्थानानिजनपदा-देशाः पुरवराणि-नगरैकदेशभूतानिद्रोणमुखानिजलस्थलपथोपेतानि खेटानि-धूलीप्राकारोपेतानि कर्बटानि-कुनगराणि मडम्बानिदूरस्थवसिमान्तराणि संवाहाः-स्थापन्यः पत्तनानि-जलस्थलपथयोरन्यतरयुक्तानि तेषां यानि सहाणि तैर्मण्डितं यत्तत्तथा.
-स्तिमितमेदिनीकं-निर्भयमेदिनीनिवासिजनं एकच्छत्रं एकराजकमित्यर्थः ससागरं समुद्रान्तमित्यर्थः भुक्त्वापरिभुज्य तथा वसुधां-पृथिवीं भरतैकदेशभूतांचभुक्त्वा एतद्भोगेऽपीत्यर्थः 'अपरिमियमणंतण्हमणुगयमहेच्छसारनिरयमूलो'त्ति अपरिमितानंता-अत्यन्तानन्ता तृष्णा-प्राप्तार्थसंरक्षणरूपा या चानुगता-सन्तता महती चेच्छा-अप्राप्तार्थाभिलाषरूपा ते एव साराणि--अक्षय्याणि निरयानि-निर्गतशुभफलानि मूलानि-जटा यस्य परिग्रहतरोः अथवा अपरिमिताऽनंततृष्णया या अनुगता महेच्छा सारा निरयाच-नरकहेतुर्विशिष्टवेगा वा सैव मूलं यस्य स तथा, इह च मकारौ प्राकृतशैलीप्रभवौ एवंविधसमासश्चेति, लोभः प्रतीतः कलिः-सङ्ग्रामः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548