Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३९०
प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११
पाठान्तरेण हासार्थाय 'सक्खि'त्ति साक्षिणः चौराश्चारभटाश्च प्रतीताः 'खंडरक्ख' त्ति शुल्कपालाः 'जियजूइकारा य'त्ति जिताश्च ते द्यूतकाराश्चेति समासः 'गहियगहण 'त्ति गृहीतानि ग्रहणानि - ग्रहणकानि यैस्ते तथा,
'कक्कगुरुगकारग' त्ति कल्कगुरुकं माया तत्कारकाः 'कुलिड्गी 'ति कुलिङ्गिनः कुतीर्थिकाः 'उवहिया वाणियगा य'त्ति औपधिकाः - मायाचारिणः वाणिजका - वणिजः किम्भूताः ? - कूटतुलाकूटमानिनः कूटकार्षापणोपजीविन इति पदद्वयं व्यक्तं, नवरं कार्षापणो- द्रम्मः 'पडकारकलायकारुइज्ज’त्ति पटकारकाः - तन्तुवायाः कलादाः - सुवर्णकाराः कारुकेषु-वरुटच्छिंपकादिषु भवाकारुकीयाः, किंविधा एते अलीकं वदन्तीत्याह - वञ्चनपराः, तथा चारिका - हैरिकाञ्चाटुकराःमुखमङ्गलकरा नगरगुप्तिकाः - कोट्टपालाः परिचारका - ये परिचारणां - मैथुनाभिष्वङ्गं कुर्वन्ति कामुका इत्यर्थः, दुष्टवादिनः
असत्पक्षग्राहिणः शूचकाः - पिशुनाः 'अणबलभणिया य'त्ति ऋणे ग्रहीतव्ये बलं यस्यासौ ऋणबलो बलवानुत्तमर्णस्तेन भणिता- अस्मद्रव्यं देहीत्येवमभिहिता ये अधमर्णास्ते तथा ततश्चारिकादीनां द्वन्द्वः ‘पुव्वकालियवयणदच्छ' त्ति वक्तुकामस्य वचनाद्यत् पूर्वतरमभिधीयते पराभिप्रायं लक्षयित्वा तत्पूर्वकालिकं वचनं तत्र वक्तव्ये ये दक्षास्ते तथा,
अथवा पूर्वकालिकानामर्थानां वचने ये अदक्षा - निरतिशयनिरागमास्ते तथा सहसा - अवितय भाषणे ये वर्त्तन्ते ते साहसिकाः लघुस्वका - लघुकात्मानः असत्याः - सद्भ्योऽहिताः गौरविकाः - ऋद्धयादिगौरवत्रयेण चरन्ति ये असत्यानामर्थानां स्थापनां - प्रतिष्ठामधि चित्तं येषां ते असत्य स्थापनाधिचित्ताः उच्चो - महानात्मोत्कर्षणप्रवणश्छन्दः - अभिप्रायो येषां ते उच्चच्छन्दाः अनिग्रहाः - स्वैराः अनियता - अनियमवन्तोऽनवस्थिता इत्यर्थः अनिजका वा - अविद्यमानस्वजनाः अलीकं वदन्तीति प्रकृतं, तथा छन्देन - स्वाभिप्रायेण मुक्तवाचः - प्रयुक्तवचना अथवा छन्देन मुक्तवादिनः - सिद्धवादिनस्ते भवन्ति, के इत्याह- अवलीकाद् ये अविरताः ।
तथा अपरे - उक्तेभ्योऽन्ये नास्तिकवादिनो - लोकायतिकाः वामं प्रतीपं लोकं वदन्ति ये सतां लोकवस्तूनामसत्त्वस्य प्रतिपादनात्ते वामलोकवादिनो भणन्ति - प्रपूपयन्ति, किं ?, शून्यमिति, जगदिति गम्यते, कथं ?, आत्माद्यभावात्, तदेवाह - नास्ति जीवस्तत्प्रसाधकप्रमाणाभावात्, स हि न प्रत्यक्षग्राह्येोऽतीन्द्रियत्वेन तस्याभ्युपगतत्वात्, नाप्यनुमानग्राह्यः प्रत्यक्षाप्रवृत्तावनुमानस्याप्रवृत्तेः आगमानां च परस्परतो विरुद्धत्वेनाप्रमाणत्वादिति, असत्त्वादेवासौ न याति - न गच्छति 'इहे 'ति मनुष्यापेक्षया मनुष्यलोके परे वाऽस्मिन् तदपेक्षयैव देवादिलोके न च किञ्चिदपि स्पृशति - बध्नाति पुण्यपापं - शुभाशुभं कर्म्म नास्ति फलं सुकृतदुष्कृतानांपुण्यापापकर्मणां जीवासत्त्वेन तयोरप्यसत्त्वात्,
तथा पञ्चमहाभौतिकं शरीरं भाषन्ते हे इति निपातो वाक्यालङ्कारे वातयोगयुक्तं प्राणवायुना सर्वक्रियासु प्रवर्त्तितमित्यर्थः, तत्र पञ्च महाभूतिकमिति महान्ति च तानि लोकव्यापकत्वाद् भूतानि च - सद्भूतवस्तूनि महाभूतानि तानि पृथिवी कठिनरूपा आपो द्रवलक्षणाः तेज उष्णरूपं वायुश्चलनलक्षणः आकाशं शुषिरलक्षणमिति, एतन्मयमेव शरीरं पनापरः शरीरवर्त्ती तन्निष्पादकोऽस्ति जीव इति विवक्षा, तथाहि - भूतान्येव सन्ति, प्रत्यक्षेण तेषामेव प्रतीयमानत्वात्,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548