Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं-१, अध्ययनं-१,
३६३
श्रीमन्महावीरेणैवार्थतोऽस्याभिधानेऽपियन्महर्षिभिरिति बहुवचननिर्देशेन तीर्थकरान्तराभिहितत्वमस्य प्रतिपादितंतत्सर्वतीर्थकराणांतुल्यमतत्वप्रति-पादनार्थं, विषयममतत्वेहि तेषामसर्वज्ञत्वप्रसङ्गादिति, इह च महर्षिग्रहणेन तदन्येषामपि सम्भवे यत् तीर्थकरैरिति व्याख्यातं तत् 'अत्यं भासइ अरहा सुत्तं गंथंति गणहरा निउण मिति वचना-नुसारान्निरुपचरितमर्हच्छब्दप्रयोगस्य च तेष्वेव युज्यमानत्वादित, एतेन चास्यशास्त्रस्योप-क्रमाख्यानुयोगद्वारसम्बन्धिनःप्रमाणाभिधानभेदस्यागमाभिधानप्रतिभेदस्याभेदभूतातीर्थकरापेक्षयाऽर्थतआत्मागमता गणधरापक्षयाऽर्थतः अनन्तरागमता तच्छिष्यापेक्षया परम्मपरागमता प्रोक्ता,
-'जम्बू' इत्यनेन सूत्रतःसुधर्मस्वाम्यपेक्षयाआत्मागमताजम्बूस्वाम्यपेक्षयाऽनन्तरागमता तच्छिष्पापेक्षयाचपरम्परागमतेति, अथवा अनुगमाख्यतृतीयानुयोगद्वारस्य प्रभेदभूतोयउपोद्घातनिर्युक्त्यनुगमस्तत्सम्बन्धिनः पुरुषद्वारस्यप्रभेदभूताऽर्थतस्तीर्थकरलक्षणभावपुरुषप्रणीतता सूत्रतो गणधरलक्षणभावपुरुषप्रणीतताचास्योक्ता, तथा चगुरुपर्वक्रमलक्षणः सम्बन्धोऽप्यस्य दर्शितः, एतदुपदर्शनेन चास्मिन् शास्त्रे आप्तप्रणीततयाऽविसंवादित्वेन ग्राह्यमेतदिति बुद्धिः प्रेक्षावतामावि विता, तथा आश्रवसंवरविनिश्चयमित्यनेनास्याभिधेयमुकतं, एतदभिधाने चोपक्रमद्वारान्तर्गतमर्थधिकारद्वारं तद्विशेषभूतस्वसमयवक्तव्यताद्वारेकदेशरूपमुपदर्शितमिति,
प्रवचनस्य निस्यन्दमित्यनेन तुप्रवचनप्रधानावयरूपत्वमस्योक्तं, प्रवचनस्य क्षायोपशमिकभावरूपत्वेनोपक्रमाख्यानुयोगद्वारस्य नामाख्याप्रतिभेदस्य षण्णामाख्यप्रतिद्वारस्यावतारश्च दर्शितः, षण्णामद्वारे ह्यौदयिकादयः षड् भावाः प्ररूप्यन्त इति, निश्चयार्थमनेन त्वस्य शास्त्रस्य निश्चयलक्षणमनन्तरप्रयोजनमुक्तं, तद्भणनेन हि तदर्थिनःप्रेक्षावन्तोऽत्रप्रवर्तिता भवन्विति, नहि निष्प्रयोजनं प्रेक्षावन्तः कर्तुं श्रोतुं वा प्रवर्त्तन्ते, प्रेक्षावत्ताहानिप्रसङ्गात्, एवं चानुगमास्यतृतीयानुयोगद्वारा स्योपोद्घातनियुक्त्यभिधानप्रतिद्वारस्य प्रतिभेदभूतं कारणद्वारमभिहितं, यतस्तत्रेदं चिन्त्यते-केन कारणेनेमध्यचयनमुक्तमिति, इहापि च तस्यैव निश्चयरूपस्य शास्त्रप्रतिपादनकारणस्यचिन्तितत्वात्, नन्वाश्रवसंवरविनिश्चयमित्युक्तावपि निश्चयार्थमित्युच्यमानमतिरिच्यमानमिवाभाति,
यत्र ह्याश्रवसंवरा विनिश्चीयन्ते तत् तद्विनिश्चयार्थं भवत्येवेति, सत्यं, किन्तु आश्रवसंवरविनिश्चयमित्यनेनाभिधेयविशेषाभिधायकत्वलक्षणं तत्स्वरूपमात्रमेव विवक्षितं, निश्चयार्थमनेन तुतत्फलभूतंप्रयोजनमितिन पुनरुक्ततेति, प्रयोजनंच प्रतिपादयतोपा-योपेयभावलक्षणोऽपि सम्बन्धोदर्शितोभवति, यत इदंशास्त्रमुपायोनिश्चयश्चास्योपेयमित्येवंरूप एवासाविति यद्यपि चानुयोगद्वाराण्यध्ययनस्यैवावश्यकादावुपदश्यन्ते तथापीहाङ्गे श्रुतस्क-न्धयोरध्ययनसमुदायरूपत्वात्कथञ्चिदुपक्रमादिद्वाराणांयुज्यमानत्वात्यथासम्भवंगाथावयवैदर्शितानि, अत एवाचारटीकाकृताऽङ्गमुद्दिश्य तान्युपदर्शितानि ।
अनन्तरमाश्रवसंवराइहाभिधेयत्वेनोक्ताः, तत्रच 'यथोद्देशं निर्देश' इति न्यायादाश्रवांस्तावत्परिमाणतो नामतश्च प्रतिपादयन्नाहमू. (३) पंचविहो पन्नत्तो जिणेहि इह अण्हओ अनादीओ।
हिंसामोसमदत्तं अब्बभपरिग्गरं चेव ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548