________________ महव्वय 183 - अमिधानराजेन्द्रः - भाग 6 महव्वय काष्ठेन वा कलिञ्चेन वा-क्षुद्रकाष्ठरूपेण अङ्गुल्या वा शलाकया वा / अयःशलाकादिरूपया शलाकाहस्तेन वाशलाकासंघातरूपेण (णालि- | हिज्जत्ति) नालिखेत् न विलिखेत्। नघट्टयेत् न भिन्द्यात् तत्र ईषत्सकृद्रा लेखन, नितरामनेकशो वा विलेखन, घट्टनं चालनं, भेदो विदारणम्, एतत्स्वयं न कुर्यात्, तथा अन्यमन्येन वा नालेखयेन विलेखयेत्नघट्टयेत् नभेदयेत्। तथा अन्य स्वत एव आलिखन्तं वा विलिखन्तं वा घट्टयन्तं वा भिन्दन्तं वा नसमनुजानीयादित्यादि पूर्ववत्। दश०४ अ०। (अग्रेतनं सूत्रम् 'आउक्काय' शब्दे द्वितीयभागे 27 पृष्ठे गतं तद्व्याख्याऽपि किंचित्तत्र) एतत् किमित्याह-(नामुसेज त्ति) नामृषेत् न संस्पृशेत् नाऽऽपीडयेत् न प्रपीडयेत् नाऽऽस्फोटयेत्न प्रस्फोटयेत् नाऽऽतापयेत् न प्रतापयेत्। तत्र सकृदीषद्वा स्पर्शनमामर्षणम्, अतोऽन्यत् संस्पर्शनम्। एवं सकृदीषदा पीडनमापीडनमतोऽन्यत् प्रपीडनम्एवं सकृदीषदा स्फोटनमास्फोटनम्, अतोऽन्यत्प्रस्फोटनम्, एवं सदीषदा तापनमातापनम् विपरीतं प्रतापनम्, एतत्स्वयं न कुर्यात्, तथा अन्यमन्येनवा नामर्षयेत् न संस्पर्शयेत् नापीडयेत् न प्रपीडयेत् नास्फोटयेत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत्, तथा अन्य स्वत एव आमृषन्तं वा संस्पृशन्तं वा आपीडयन्तं वा प्रपीडयन्तं वा आस्फोटयन्तं वा प्रस्फोटयन्तं वा आतापयन्तं वा प्रतापयन्तं वान समनुजानीयादित्यादि पूर्ववत्। से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपचक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से अगणिं वा इंगालं वा मुम्मुरं वा अधिं वा जालं वा अलायं वा सुद्धोगणिं वा उचं वा न उंजिला न घट्टेजा न उज्जालेजा न पञ्जालेजा न निव्वावेज्जा अन्नं न उंजावेजा न घट्टावेज्जा न उज्जालावेजा न पखालावेजा न निव्वावेज्जा अनं उंजंतं वा घट्टतं वा उज्जालंतं वा निव्वावंतं वान समणुजाणेज्जा जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमिन कारवे मि करतं पि अन्नं न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि। सूत्र-१२। (जाव जागरमाण व त्ति) पूर्ववदेव (से अगणिं वेत्यादि) तद्यथा-अग्निं वा अङ्गारं वा मुर्मुरं वा अर्चिा ज्वालांवा अलातं वा शुद्धाग्निं वा उल्का वा इहाऽयः पिण्डानुगतोऽग्निः, ज्वालारहितोऽङ्गारः, विरलाग्निकरणं भस्स मुर्मुरः, मूलाग्निविच्छिन्ना ज्वाला अर्चिः, प्रतिबद्धा ज्वाला, अलातमुल्मुकम्, निरिन्धनः शुद्धोऽग्निः, उल्का गगनाऽग्निः, एतत्किमित्याह-(न उंजेज्जा) नोत्सिञ्चेत् (नघट्टेजा) नघट्टयेत्न उज्ज्वालेयत् न निर्वापयेत् / तत्रोञ्चनमुत्सेचनं, घट्टनं सजातीयादिना चालनम्, उज्ज्वालनं व्यजनादिभिर्वृद्ध्यापादनं, निर्वापणपं विध्यापनम्। एतत्स्वयं नं कुर्याम, तथा अनरूमन्येन वा नोत्सेचयेत् नघट्टयेत नोज्ज्वालयेत्न निर्वापयेत्, तथा अन्यं स्वत एव उत्सिञ्चयन्तं वाघट्टयन्तं वा उज्ज्वालयन्तं वा निर्वापयन्तं वा न समनुजानीयादित्यादि पूर्ववत्। जे मिक्खू वा भिक्खुणी वा संजयविरयपडिहयपचक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से सिएण वा विहणेणवा तालिअंटेण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगणे वा पिहुणेण वा पिहुणहत्थेण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा अप्पणो वा कायं बाहिरंवाऽवि पुग्गलं न फूमेजा न वीएज्जा अन्नं न फूमावेजा नवीयावेजा अनंफूमंतं वा वीयंतं वानसमणुजाणेजा। जावजीवाए तिविहं तिविहेणं,मणेणं वायाएकाएणंनकरेमिन कारवेमि करतं पिं अन्नंन समणुजाणामितस्सभंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि॥१३॥ (सेभिक्खूवेत्यादि-यावत्-जागरमाणे वा) इति पूर्ववदेव (से सिएण वेत्यादि) तद्यथा सितेनवा विधवनेन वा तालवृन्तेन वा पत्रेण वा शाखया वा शाखाभङ्गेन वा पेहुणेन वा पेहुणहस्तेन वा चेलेन वा चेलकर्णेन वा हस्तेन वा मुखे नवा। इह सितंचामरं, विधवन-व्यजनं, तालवृत्तं तदेव मध्यग्रहणाच्छिद्रं द्विपुट, पत्रं पद्मिनीपत्रादि, शाखा वृक्षडालं शाखाभङ्गं तदेकदेशः पेहुणं मयूरादिपिच्छं. पेहुणहस्तकस्तत्समूहः, चेल-वस्त्र, चेलकर्णस्तदेकदेशः, हस्तमुखे प्रतीते, एभिः किमित्याह-आत्मनो वा कायं स्वदेहमित्यर्थः, बाह्य वा पुद्गलम् उष्णौदनादि, एतत्किमित्याह(न फूमिज्जा इत्यादि) न फूत्कुर्यात् न व्यजेत् / तत्र फूत्करणं मुखेन धमनं, व्यजनंचमरादिना वायुकरणम्, एतत्स्वयं न कुर्यात्, तथा अन्यमन्येन वा न फूत्कारयेत्न व्याजयेत्। तथा अन्य स्वतएव फूत्कुर्वन्तंवा व्यजन्तं वा न समनुजानीयादित्यादि पूर्ववदेव। जे भिक्खू वा मिक्खुणी वा संजयविरयपडिहयपचक्खायपावकम्मे दिया वा एगओवा परिसागओ वासुत्ते वा जागरमाणे वा से बीएसुवा बीयपइसुवा रूठेसुवा रूठपइद्वेसु वा जाएसु वा जायपइटेसुवा हरिएसुवा हरियपइहेसुवा छिन्नेसुवा छिन्नपइसुवा सचित्तेसुवासचित्तकोलपडिनिस्सिएसुवानगच्छेशा न चिडेजा न निसीइजा न तुयट्टेखा अन्नं न गच्छावेजा न चिट्ठावेछान निसीयावेजान तुयट्टावेजा अनं गच्छंतं वा चिटुंतं वा निसीयंतंवातुयदृतं वान समणुजाणेशाजा वजीवाए तिविह तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामितस्सभंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि।१४ (से भिक्खूवेत्यादि-यावत्-जागरमाणे वेति) पूर्ववदेव। (से वीएसु वेत्यादि) तद्यथा-बीजेषु वा बीजप्रतिष्ठितेषु वा रूढेषु वा रूढप्रतिष्ठितेषु वा जातेषु वा जातप्रतिष्ठितेषु वा हरितेषु वा हरितप्रतिष्ठितेषु वा छिन्नेषु वा छिन्नप्रतिष्ठितेषु वा सचित्तेषु सचित्तकोलप्रतिनिश्रितेषु वा, इह बीजंशाल्यादितत्प्रतिष्ठितम् आहारशयनादिगृह्यते। एवं सर्वत्र वेदितव्यम्। रूढानि स्फुटितबीजानि, जातानि स्तम्बीभूतानि,