Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वेयालिय 1450 - अभिधानराजेन्द्रः - भाग 6 वेयालिय त्रयाणामपि नामस्थापनाद्रव्यभावभेदाचतुर्दा निक्षेपेण त्रीणि चतुष्ककानि द्रष्टव्यानि / अत्र च नाभस्थापने क्षुण्णे, द्रव्यविदारको यो हि द्रव्य काष्ठादि विदारयति, भावविदारकस्तु कर्मणो विदार्यत्वात् नोआगमतो जीवविशेषः साधुरिति // 36 // करणमधिकृत्याऽऽह - दव्वं च परसुमादी, दंसणणाणतवसंजमा भावे / दव्वं च दारुगादी, भावे कम्मं वियालणियं // 37 // नामस्थापने क्षुण्णे द्रव्यविदारण परश्वादि, भावविदारणं तु दर्शनज्ञानतपःसंयमाः, तेषामेव, कर्मविदारणे सामर्थ्य मित्युक्तं भवति / विदारणीय तु नामस्थापने अनादृत्य द्रव्यं दार्वादि, भावे पुनरष्टप्रकार कर्मेति // 37 // साम्प्रतं 'वेयालिय' मित्येतस्य निरुक्तं दर्शयितुमाहवेयालियं इह दे-सियं ति वेयालियं तओ होइ। वेयालियं तहा वि-त्तमत्थि तेणेव य णिबद्धं // 38|| इहाध्ययनेऽनेकधा कर्मणां विदारणमभिहितमिति कृत्वैतदध्ययन निरुक्तिवशाद्विदारकं ततो भवति। यदि वा-वैतालीयमित्यध्ययननाम, अत्रापि प्रवृत्तौ निमित्तं-वैतालीयं छन्दोविशेषरूपं वृत्तमस्ति, तेनैव च वृत्तेन निबद्धमित्यध्ययनमपि वैतालीयन, तस्य चेदं लक्षणम् - "वैतालीय लगनैधनाः षड युक्पादेऽष्टौ समे च लः / न समोऽत्र परेण युज्यते, नेतः षट् च निरन्तरा युजोः / / 1 / / " // 38|| साम्प्रतमध्ययनस्योपोद्घातं दर्शयितुमाहकामं तु सासयमिणं, कहियं अट्ठावयम्मि उसभेणं / अट्ठाणउतिसुयाणं, सोउणं तेऽवि पव्वइया / / 30 / / कामशब्दोऽयमभ्युपगमे, तत्र यद्यपि सर्वोऽप्यागमः शाश्ववतः तदन्तर्गतमध्ययनमपि, तथापि भगवताऽऽदितीर्थाधिपेनोत्पन्नद्वियज्ञानेनाष्टापदोपरि व्यवस्थितेन भरताधिपभरतेन चक्रवर्तिनोपहतैरष्टनवतिभिः पुत्रैः पृष्ठन यथा भरतोऽस्मानाज्ञा कारयत्यतः किमस्माभिविधयमित्यतस्तेषामगारदाहकदृष्टान्तं प्रदर्श्वन कथशिज्जन्तो गच्छा निवर्तत इत्यर्थगर्भमिदमध्ययनं कथितम्-प्रतिपादितम्, तेऽप्येतच्छुत्वा संसारा-सारतामवगम्य विषयाणां च कटुविपाकतां निःसारतां च ज्ञात्वा मत्तकरिकर्णवचपलमायुर्गिरिनदीवेगसमं यौवनमित्यतो भगवदा व श्रेयस्करीति तदन्तिके सर्वे प्रव्रज्यां गृहीतवन्त इति। अत्र उद्देसे निद्देसे य' इत्यादिः सर्वोऽप्युपोद्घातो भणनीयः // 36 // ___ साम्प्रतमुद्देशार्थाधिकार प्रागुल्लिखितं दर्शयितुमाहपढमे संबोहोऽनि-चया य बीयम्मि माणवजणया। अहिगारो पुण भणिओ, तहा तहा बहुविहो तत्थ / / 4 / / उद्देसम्मि य तइए, अन्नाणचियस्स अवचओ भणिओ। वजेयव्वो य सया, सुहप्पमाओ जइजणेणं / / 41 / / तत्र प्रथमोद्देशके हिताहितप्रातिपारिहारलक्षणो बोधो विधेयोऽनित्यता चेत्ययमाधिकारः, द्वितीयोद्देशके मानो वर्जनीय इत्ययमर्थाधिकारः | पुनश्च तथा तथा अनेकप्रकारो बहुविध शब्दादावर्थेऽनित्यतादिप्रतिपादकोऽर्थाधिकारी भणित इति, तृतीयोद्देशके अज्ञानोपचितस्य कर्मणो-ऽपचरारूपोऽर्थाधिकारो भणित इति यतिजनेन च सुखप्रमा दो वर्जनीयः सदेति // 41 // संबोधश्च प्रसुप्तस्य सतो भवति, स्वापश्च निद्रोदये, निद्रासंबोधयोश्च नामादिश्चतुर्दा निक्षेपः, तत्रनामस्थापने अनादृत्य द्रव्यभावनिक्षेपं प्रतिपादयितु नियुक्तिकृदा हदव्वं निद्दावेओ, दंसणनाणतवसंजमाभावे। अहिगारो पुण भणिओ, नाणे तवदंसणचरिते / / 12 / / इह च गाथाया द्रव्यनिद्राभावसंबोधश्च दर्शितः, तत्राद्यन्त-ग्रहणेन भावनिद्राद्रव्यबोधयोस्तदन्तर्वर्तिनोहणं द्रष्टव्यम्, तत्र द्रव्यनिद्रा निद्रावेदे, वेदनमनुभवः / दर्शनावरणीयविशेषोदये इति यावत्। भावनिद्रा तु ज्ञानदर्शनचारित्रशून्यता। तत्र द्रव्यबोधो द्रव्यनिद्रया सुप्तस्य बोधनम्, भाव-भावविषये पुनर्बोधो-दर्शनज्ञानचारित्रतपःसंयमा द्रष्टव्याः। इह च भावप्रबोधेना-धिकारः स च गाथापश्चार्द्धन सुगमेन प्रदर्शित इति। अत्र च निद्राबोधयोर्द्रव्यभावभेदाचत्वारो भङ्गा योजनीया इति॥४२॥ सूत्र० १श्रु०२१०१३०। सव्वं नचा अहिट्ठए धम्मऽट्ठी उवहाणवीरिए। गुत्ते जुत्ते सदा जए, आयपरे परमायतद्विते / / 15 / / सर्वम्- एतद्धयमुपादेयं च ज्ञात्वा सर्वज्ञात मार्गे सर्वसवररूपम् अधितिष्ठेत्-आश्रयेत, धर्मेणार्थो धर्म एववाऽर्थः परमार्थनान्यस्यानर्थरूपत्वात् धर्मार्थः, स विद्यते यस्यासौ धर्मार्थी-धर्मप्रयोजनवान, उपाधान-तपस्तत्र वीर्य यस्य स तथा अनिगूहितबलवीर्य इत्यर्थः, तथा मनोवाक्कायगुप्तः, सुप्रणिहितयोग इत्यर्थः, तथा युक्तो ज्ञानादिभिः सदासर्वकालं यतेताऽऽत्मनि परस्मिश्च / किंविशिष्टःसन् ? अत आह-परम उत्कृष्ट आयतो-दीर्घः सर्वकालभवनात् मोक्षस्तेनार्थिकः - तदभिलाषी पूर्वोक्तविशेषणविशिष्टो भवेदिति॥१५॥ सूत्र०१ श्रु०२ अ०३ उ०। अभविंसु पुरावि भिक्खुओ, आएसा वि भवंति सुव्वता। एयाइँ गुणाई आहुते, कासवस्स अणुधम्मचारिणी / / 20 / / हे भिक्षवः! - साधवः!, सर्वज्ञः स्वशिष्यानेवमामन्त्रयति, येऽभूवन्अतिक्रान्तो जिनाः - सर्वज्ञाः ‘आएसाऽवि' ति आगमिन्याञ्च ये भविष्यन्ति, तान् विशिनष्टि - सुव्रताः- शोभनव्रताः, अनेनेदमुक्त भवति- तेषामपि जिनत्वं सुव्रतत्वादेवायातमिति, ते सर्वेऽप्येतान् - अनन्तरादितान गुणान आहुः-अभिहितवन्तः, नाऽत्र सर्वज्ञानां कश्चिन्मतभेद इत्युक्तं भवति / ते च काश्यपस्य - ऋषभस्वामिनो वर्द्धमानस्वामिनोवा सर्वेऽप्यनुचीर्णधर्मचारिण इति / अनेन च सम्यग्दर्शनज्ञानचारित्रात्मक एक एव मोक्षमार्ग इत्यवेदितं भवतीति॥२०॥ अभिहिताश्व गुणानुद्देशत आहतिविहेण वि पाण मा हणे, आयहिते अणियाण संवुडे /

Page Navigation
1 ... 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492