Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वेयावच 1457 - अभिधानराजेन्द्रः - भाग 6 वेयावच अथवा तत्प्रतिबन्धाद-औषधनिचयप्रतिबन्धात्तिष्ठन्ति सदावस्थायितया न तु विहारक्रमं कुर्वन्ति / तथा च सति नैत्यिकादयो नैत्यिकोनित्यवासी, आदिशब्दात्,-पार्श्वस्थादिपरिग्रहस्तदादयो दोषाः प्रसजन्ति / गत 'समणा चत्ता' इति द्वारम्। अधुना 'गिहीण अणुकंपे' ति व्याख्यानयति-गृहस्थानां सदा साधूनां भेषजादिप्रयच्छतामनुग्रहो भवति / स इदानीं परित्यक्तः साधूनां स्वत एव तन्निच्यभावात्। सम्प्रति 'पुटवायरियऽन्नाणी' त्येतद् व्याख्यानयतिपडिसिद्धा सन्निही जेहिं, पुवायरिएहि ते वि उ। अन्नाणी उकया, एवं, अणवत्थापसगंतो॥१२०॥ यैः-पूर्वाचार्यः प्रतिषिद्धः सन्निधिस्तेऽपि त्वयैवं बुवता अज्ञानीकृताः। अनवस्थाद्वारमाह-अनवस्थाप्रसङ्गतोयथा त्वयौषधसंचयः कृतस्तथाऽन्येऽन्यस्यापि करिष्यन्तीति प्रसङ्गतः सर्वस्याप्यनवस्था। वान्तद्वारं मिथ्यात्वद्वारं चाहवंतं निसेवियं होइ, गिण्हंता संचयं पुणो। मिच्छत्तं न जहावादी, तहाकारी भवंति तु॥१२१।। संचयं त्यक्त्वा पुनस्तं गृह्णतो वान्तं निषेवितं भवति। तथा मिथ्यात्वं यतो न यथावादिन उत्सूत्रप्ररूपणात्तेऽपितथा-कारिणः संचयकरणात्। एए अन्ने य जम्हा उ, दोसा होति सवित्थरा। तम्हा ओसहमादीणं, संचयं तु न कुव्वए॥१२२|| यस्मादेते अनन्तरोदिता अन्ये च दोषाः सविस्तरा भवन्ति तस्मादौषधादीनां संचयं न कुर्यात्। परस्यावकाशमाहजइ दोसा भवंतेते, किं खु घेत्तव्वयं ततो। समाहिट्ठावणट्ठाए, भण्णती सुण ता इमो। 123 / / यद्यते अनन्तरादिता दोषा भवन्ति ततः किं 'खु' समाधिस्थापनाय ग्रहीतव्यम् ? आचार्य आह-भण्यते-अत्रोत्तरं दीयते। तदेव तावदितोऽनन्तरमुच्यमानं शृणु। तदेवाहणियमा विजागहणं, ठातव्वं होइ दुविहदव्वं च / संजोगदिट्ठपाढी, असती गिहिअन्नतित्थीहिं।।१२४|| यया विद्यया अपमार्जन क्रियते तस्या अन्यासां च विद्यानामाचार्येण नियमात् ग्रहण कर्त्तव्यम्, तथा यदि करणतश्छिन्नमण्डपे स्थातव्यं भवति, ततो दीर्घपृष्ठविषविघाताय द्विविधं द्रव्यं ग्रहीतव्यम, तचाग्रे वक्ष्यते / तस्मादाचार्यः संयोगदृष्टपाठी भवेत्। संयोगान्-अनेकान व्यापार्यमाणान् यो दृष्टवान् यश्च तत्पाट पठितवान् स संयोगदृष्टपाठी / अथ स्वयं संयोगदृष्टपाटी न भवति, तर्हि तस्यासति गृहिभिः कार्यते चिकित्सा। तेषामप्यसत्यन्यतीर्थिभिः। यदुक्तं द्विविधं द्रव्यं ग्रहीतव्यं तदभिधित्सुराहचित्तमचित्तपरित्तम-णंत संजोइयं च इतरं च। थावरजंगमजलजं, थलजं चेमादि दुविहं तु // 125! / द्विविधंद्रव्यम्-सचित्तम्, अचित्तं वा / यदिवा-परीतम्, अनन्तकायिकं | वा। अथवा-संयोगिकम् अनेकसंयोगनिष्पन्नम्, इतरत्- असंयोगिकम / अथवा-स्थावर, जङ्गमम्। प्रत्युत्पन्ने कार्ये यदि स्थावरद्रव्यप्रयोगतः कथमपि गुणो न भवति तदा अनन्यगत्या जङ्गमद्रव्यं प्रयुज्यते। अथवा... द्विविधं द्रव्यम्-जलजम्, स्थलजं च / एवमादिद्विविधं द्रव्यं ग्रहीतव्यम्। इयं चिकित्सा दीर्घपृष्ठविषविघातायाभिहिता। ___ संप्रत्यतिदेशेनान्यरोगेष्वपि तामाहजह चेव दीहपिढे, विज्जा मंता य दुविहदव्वा य। एमेव सेसएसु वि, विजा दव्वा य रोगेसु॥१२६|| यथा चैव दीर्घपृष्ठदेशे (सर्पविषदूरीकरणाय- 'मोय' शब्दो दृष्टव्यः) विद्या मन्त्रा द्विविधानि च द्रव्याणि ग्रहीतव्यानि, एवमेव शेषेष्वपि रोगेषु विद्या द्रव्याणि च ग्राह्याणि। संयोगदिट्ठपाढी, न य धरती तम्मि चउगुरू हुंति। आणादिणो य दोसा, विराहणा(इ) मेहि ठाणेहिं / / 127 / / आचार्येण स्वयं संयोगदृष्टपाठिना भवितव्यम्। यदि पुनः सति शक्तिसंभव संयोगदृष्टपाठनधरति तर्हि तस्मिन् अधरति प्रायश्चित्तं चत्वारो गुरुकाः, न केवलं प्रायश्चित्तं किंत्वाज्ञादयश्च दोषास्तथा विराधना एभिर्वक्ष्यमाणैः स्थानः। तान्येवाहउप्पण्णे गेलण्णे, जो गणधारी न जाणइ तिगिच्छं। दीसंततो विणासो, सुहदुक्खा तेण उचत्ता॥१२८|| उत्पन्ने ग्लानत्वे यां गणधारी चिकित्सां न जानाति तस्यं पश्यतः सतो ग्लानस्य विनाश इति; तेन सुखदुःखिनः- सुख-दुःखोपसंपन्नकाः स्वशिष्याः प्रतीच्छिकाश्च परित्यक्ताः। कथं पश्यतः सतो ग्लानस्य स्वशिष्यकाणां च विनाश इत्यत आहआउरत्तेण कायाणं, विसकुंभादिधायए। डाहच्छेज्जे य जे अण्णे, भवंति समुवद्दवा ||126 // एते पावइ, दोसे, अणागए अगहियाएँ वेजाए। असमाही सुयलंभ, केवललंमं तु वुक्के जा // 130 / / कस्यापि साधो विषकुम्भलूना, आदिशब्दाबाहादिपरिग्रहस्तस्मिन्नुत्थिते आतुरत्वेनाकुलत्वेन विषकुम्भादिघातकः कायानामुदकादीनामुपद्रव्यं कुर्यात् / तथाहि-विषकुम्भे दाहे वा समुपस्थिते आकुलीभूतः, स तु तं शीतलेनोदकेन सिचेत्, सचित्तेन वा कर्दमेन लिम्पेत्। तथा दाहच्छेदे च ये अन्ये भवन्ति समुपद्रवाः, एतान् दोषाननागतायामगृहीतायां विद्यायां प्राप्नोति / तथा तीव्रायां वेदनायामनुपशान्तायामसमाधिना-असमाधिमरणेन मियेन / तथा च सति दीर्घ संसारमनुपरिवर्तेत। चिरंच यदिजीवति तर्हि भूया संश्रुतलाभ प्राप्नुयात्, केवलज्ञानं चोत्पादयेत्। तथाइहलोगियाण परलो, गियाण लद्धीण फेडियो होइ। इहलोगा मोसादी, परलोगा ऽणुत्तरादीया।।१३१।।

Page Navigation
1 ... 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492