Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वेयावच्च 1455 - अभिधानराजेन्द्रः - भाग 6 वेयावच्च सुत्तम्मि कड्डियम्मी, वोचत्थ करेंति चउगुरू हुंति। आणादिणो य दोसा, विराहणा जा मणिय पुट्वि / / 66|| सर्वत्रापि सूत्रेकर्षिते-उच्चारिते सति संबन्धः प्रदर्शनीयः। तथा श्रमणैः / श्रमणस्य वैयावृत्यं कर्तव्यम्, श्रमणीभिः श्रमण्याः / यदि पुनर्विपर्यास करोति तर्हि विपर्यासं कुर्वता प्रायश्चित्तं चत्वारो गुरुकाः, न केवलं प्रायश्चित्तम्- आज्ञादयश्व-आज्ञानवस्थामिथ्यात्वविराधनारूपाश्च दोषाः। तथा या पूर्व वैयावृत्यसूत्रे भणिता विराधना शीलविराधना सा अत्रापि द्रष्टव्या। _ 'सुत्तम्मि कड्डियम्मि' इत्येतदेव प्रपञ्चयतिसंबन्धो दरिसिजइ, उस्सुत्तो खलु न विज्जते अत्थो। उच्चारितछिण्णपदे, विग्गहिए चेव अत्थो उ।।७।। सूत्रे उच्चारिते सति संबन्धोऽनन्तरसूत्रादिभिः सह दश्यते, यतः संबन्धोऽर्थतो भवति वर्णानां स्वतः सबन्धाभावात् / स चार्थः खलु / उसूत्रः- सूत्ररहितो न विद्यते संबन्धश्चोपदीते-उचारित सूत्रस्य छिन्नानि पदानि कर्तव्यानि, पदच्छेदो विधातव्य इत्यर्थः / ततो यानि पदानि विग्रहभाजि तेषु विग्रह उपदर्शनीयः विगृहीते च सूत्रतोऽर्थो व्याख्येयः। अक्खेदो पुण कीरइ, कत्थति कत्थइ विणा वि तस्सिद्धी। जत्थ अवायनिदरिसण , एसेव उ होइ अक्खेवो |8|| आक्षेपः पुनः क्वचित् क्रियते, यथा-कि कारणं परपक्षे वैयावृत्यं न क्रियते। कुत्रधित्पुर्विनाऽप्याक्षेपं तत्सिद्धिराक्षेपसिद्धिः / कथमित्याहयत्रापायनिदर्शनमपायप्रकटनमेष एव भवत्याक्षेपः आक्षेपहेतुकत्वात्, न खल्वाक्षेपसूचामन्तरेणोपायप्रदर्शन विपक्षे भवतीति परिभावनीयमेतत्। संप्रत्याक्षेपप्रसिद्धी एव वैविक्त्येनाहकिं कारणं न कप्पड़, अक्खेवो दोसदरिसणं सिद्धी। लोए वेदे समए, विरुद्धसेवादयो नाता ||6|| किं कारणं विपक्षे वैयावृत्यं न कल्पते इत्याक्षेपः, विपक्षे दोषदर्शन सिद्धि-प्रसिद्धिः। अत्रार्थ लोके वेदे समये च विरुद्धसेवादयो ज्ञातानि।। किमुक्त भवति। यथा-लोके वेदे-समये च विरुद्धसेवायामकल्पिकसेवायां च दोषोपदर्शनम, तदकरणे प्रसिद्धिरेवमिहापि विपक्षवैयावृत्यकरणेऽपायप्रदर्शनमेव तदकरणे प्रसिद्धिः। तम्हा सपक्खकरणे, परिहरिया पुव्ववणिया दोसा। कप्पे छट्तुद्देसे, तह चेव इह पि दट्ठव्वा / / 100 / / यस्मादेवं विपक्षे वैयावृत्यकरणे प्रायश्चित्तादयो दोषास्तस्मात् स्वपक्षे वैयावृत्यं कर्त्तव्यम्। स्वपक्षवैयावृत्यकरणेच ये पूर्ववर्णिता दोषास्ते यथा- | कल्पाध्ययने षष्ठोद्देशे परिहृतास्तथा चैव इहापि द्रष्टव्याः। अत्र परः प्रश्नमाहचोएंती परकरणे, नेच्छामो दोसपरिहरणहेळं। किं पुण भेसज्जगणो, घेत्तव्वो गिलाणरक्खट्ठा॥१०१।। चोदयति-प्रश्नयति शिष्यः, परकरणे-परपक्षे वैयावृत्यकरणं दोषपरिहरणहेतोर्दोषपरिहरणनिमित्तं नेच्छामः किं पुनः केवल 'भेसजगणो' औषधसमूहो ग्लानरक्षार्थ ग्रहीतव्यः।। __ अत्रैव विपक्षे दोषमाहपुव्वं तु अहिगएहिं, दूरा जा ओसहाई आणेति। तावत्तो उ गिलाणो, दिलुतो दंडियाईहिं / / 102 / / पूर्वमगृहीतेषु भेषजेषु गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात्। यावदार्या दूरादौषधान्यानयति तावत् ग्लानस्य आगाढादिपरितापना भवति, तद्भावे च परमार्थतरत्यक्तो भवति। अत्रार्थे च दृष्टान्तो दण्डिकादिभिः। तमेव विभावयिषुराहउवट्ठियम्मि संगामे, रण्णा बलसमागमे / एगो वेजोत्थ वारेई, न तुन्भे जुद्धकोविया // 103 / / घेप्पंतु ओसहाई, वणपट्टी मक्खणाणि विविहाणि / सो चेव मंगलाइं, मा कुणइ अणागयं चेव / / 104 // द्वयोर्दण्डिकयोरुपस्थिते संग्रामे मिलिते च द्वयोर्बलेऽपि राज्ञोः वैद्या उपस्थिताः / तत्र एको दण्डिको वैद्यांस्तत्र संग्रामप्रस्तावे उपस्थितान् वारयति न यूयं युद्धकोविदास्ततः किं युष्माभिः संग्रामे कर्त्तव्यम, एवमुक्ते ते वैद्याः प्राहुः-यद्यपि नवयंयुद्धकोविदास्तथापि प्रहाखणितेषु अस्माकं वैद्यक्रियोपयोगिनी; तस्माद्वयमागच्छामः1 गृह्यतां चौषधानि, व्रणपट्टीनि, विविधानि चानेक्रप्रकाराणि च म्रक्षणाणि / एवमुक्ते स दण्डिको ब्रवीति मा कुरुतानागतमेवामङ्गलानि तस्मान्निवर्तध्वं यूयमिति। किं घेत्तव्वं रणे जोग्गं, पुच्छिया इयरेण ते। भणंति वणतिल्लाइं,घयदव्वोसहाणिय॥१०५।। इतरेण-द्वितीयेन दण्डिकेनते आत्मीया वैद्याः पृष्टाः, किं कारणे-संग्रामे योग्य ग्रहीतव्यम्, एवमुक्तास्ते भणन्ति-व्रणरोहकाणि तैलानि व्रणतैलानि तथा जीर्ण घृतं द्रव्योषधानि च यैरौषधैः संयोजितैस्तैलं घृतं वा निष्पद्यते। व्रणसरोहकं चूर्ण यद्वा-व्रणरोहणाय यानि भवन्ति। तानि द्रव्योषधानि ततो राज्ञा पुरुषाः संदिष्टा यद्वैद्यैरुपदिष्ट तत्सर्व ग्रहीतव्यम्। भग्गसिव्वियसंसित्त-(बीदिणे) वणा वेज्जेहिं जस्स उ। सो पारगो उ संगामे, पडिवक्खो विवज्जए॥१०६|| ततः संग्रामे वर्तमाने यस्य राज्ञो, ये पुरुषा मुद्गरादिप्रहारतास्तेषां प्रहारो वेधैरौषधैर्भग्नाः ये च व्रणितास्तेषां व्रणाः सीवितास्तत्र औषधैः संसिक्ताः / एवं प्रणिता प्रहारिता द्वितीये दिवसे युद्धसमर्था जाताः। एवं द्वितीयदिवसे इव तृतीयदिवसेऽपि कृतम् / एवं स राजा वैद्योपदेशेनौषधसंग्रहतः संग्रामे पारगोऽभूत् प्रतिपक्षे विपर्ययो; जित इत्यर्थः / एष दृष्टान्तः / ___ अयमर्थोपनयःएवमेवऽसपेजाइ, खज्जलेजाणि जेसि उ। मेसजाइं सहीणाइं, पारगा ते समाहिए / / 107 / /

Page Navigation
1 ... 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492