Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वेयावच्च 1456 - अभिधानराजेन्द्रः - भाग 6 वेयावच्च एवमेव दण्डिकदृष्टान्तगतेन प्रकारेण येषामाचार्याणां भेषजानि अस' ति अशनरूपाणि पेयानि-पानकरूपाणि खाधानि-खादिमरूपाणि लेह्यानि च स्वादिमानि ते आत्मनो गच्छस्य च समाधेः पारगा भवन्ति / ये पुनरौषधानां न संग्रहीतारस्ते समाधेरपारगाः। प्रकारान्तरेण दण्डिकदृष्टान्तमाह-- अहवा राया दुविहो, आयभिसित्तो परामिसित्तो य। आयभिसित्तो भरहो, तस्स उ पुत्तो परेणं तु // 108 / / अथवेति प्रकारान्तरद्योतने। राजा द्विविधो भवति। तद्यथा-आत्माभिषिक्तः पराभिषिक्तश्च! आत्मनैव निजबलेन राज्येऽभिषिक्तः आत्माभिषिक्तः, परैरभिषिक्तः पराभिषिक्तः। तत्रात्माभिषिक्तो भरतश्चक्रवर्ती, तस्य पुत्र आदित्ययशाः पराभिषिक्तः। बलवाहरणकोसा य, बुद्धी उप्पत्तियाऽऽदिया। साहगा उभयोवेता, सेसा तिण्णि असाहगा / / 10 / / बलं-हस्त्यादि वाहनानि-यानानि कोशो-भण्डागारं तथाबुद्धिरौत्पत्तिक्यादिका / अत्र भङ्गाश्चत्वारः / एको बलवाह–नादिसमग्रो नो बुद्धिसमग्रः ? एको बलवाहनादिसमग्रः किं तु बुद्धिसमेतः 2, एको बलवाहनादिसमेतोऽपि बुद्धिसमेतोऽपि 3, एको नो बलवाहनादिसमेतो नापि बुद्धिबलोपेतः 4, एषु चतुर्ता भङ्गेषु मध्ये य उभयोपेतो बलवाहनादिसमेतो; बुद्धिसमेतश्चेत्यर्थः, स राज्यस्य साधकः शेषा स्त्रयोऽसाधकाः / एष दृष्टान्तः। अयमर्थोपनयःबलवाहणत्थहीणो, बुद्धिविहीणो न रक्खए रजं / इय सुत्तत्थविहीणो, ओसहहीणो उ गच्छंतु / / 110 / / यथा बलेन वाहनैरर्थेन च हीनो बुद्धिहीनश्च राज्यं राजा न रक्षति / एवमाचार्योऽपि सूत्रार्थविहीनः औषधविहीनश्च गच्छंन रक्षति। (तम्हा) आयपरामिसित्तेणं,जम्हा आयरिएण उ। ओसहमादीणिचओ, कायव्वो चोयती सीसो।।१११।। तस्मादाचार्येण आत्माभिषिक्तेन--श्रुतकेवलिना इतरेण च पराभिषिक्तेन औषधादिनिचयः कर्त्तव्य इति। शिष्यश्चोदयति ब्रूते। सीसेणाऽभिहिते एवं, बेइ आयरिओ ततो। वदतो गुरुगा तुझं, आणादीया विराहणा / / 112 / / एवं शिष्येणाभिहिते तत आचार्यो ब्रूते। एवं वदतस्तथा प्रायश्चित्त चत्वारो गुरुकाः, आज्ञादयश्च दोषा विराधना सूत्रस्य। एतदेव भावयतिदिद्रुतसरिसं काउं, अप्पाण परं च केइ नासंति। ओसहमादीनिचओ, कायव्वों जहेव राईणं / / 113 // केचित्तव सदृशा दृष्टान्तसदृश दण्डिकसदृशमात्मानं परं च कृत्वा नाशयन्ति / तथा औषधादिनिलयः कर्त्तव्यो यथा आज्ञामिति। एतदेवातिप्रसङ्गापादनेन दूषयतिकोसकोट्ठारदाराणि, पदातीमादियं बलं / एवं मणुयपालाणं, किं नु तुज्झं पिरोयइ / / 11 / / कोशकोष्ठागारदाराः पदात्यादिकं बलमेतन्मनुष्यपालानां भवति, तदेतत्कि नु तवापि रोचते / एतदपि दृष्टान्तबलेन गृह्यता-मिति भावः / जो वि ओसहमादीणं, निचयो सोऽवि अक्खमो। न संचये सुहं अत्थि, इह लोए परत्थ य॥११५।। योऽप्यौषधानां निचयः सोऽपि सुखोत्पादनाय अक्षमः, यतो न संचये सुखमस्ति। इहलोके तदुत्पादनतद्रक्षणतन्नाशे दुःखसंभवात् परस्त्र चपरलोके च सुखं नास्ति परिग्रहधारणतः कुगति-प्रपातात्। दारगाहाऑदिसुत्तस्स विरोधो, समणा चत्ता गिहीण अणुकंपा। पुव्वाऽऽयरियऽनाणी, अणवत्था वंतमिच्छत्तं / / 116 / / आदिसूत्रस्य-दशवैकालिकस्य विरोधस्तथा एवं ब्रुवाणो भवान्परिग्रहे साधून नियुक्ते, तन्नियोगाच ते त्यक्तास्तथा गृहिणामनुकम्पाअनुग्रहस्त्यक्तः साधूनां स्वत एव भैषज्यकादेः संभवात् / तथा ये पूर्वाचार्याः सन्निधिं प्रतिषिद्धवन्तस्ते अज्ञानीकृताः सन्निधेर्भवता गुणोपदर्शनात् / अनवस्था चैवं प्रसज्जते सन्निधिरिव भवताऽन्ये - नान्यस्यापि ग्रहणप्रसक्तेः, तथा वान्तप्रतिसेवनं भवतः समापतितं प्रतिषिद्धस्यापि संचयस्य पुनर्ग्रहणात्। तथा मिथ्यात्व-मिथ्यावादित्यमनुषजते यथावादमरणात्। निष्परिग्रहा वयमित्यभिधाय परिग्रहधारणात्। एनामेव गाथा व्याचिख्यासुः प्रथमतः सूत्रस्य विरोधमुपदर्शयतिजं वुत्तमसणं पाणं, खाइमं साइमं तहा। संचयं तु न कुट्विञ्जा, एयं ताव विरोहियं / / 117 / / यद् दशकालिके उक्तम्-अशनं पानं खादिमं स्वादिमं तेषां संचयं न कुर्यात्, तथा तद्ग्रन्थः- 'असणं पाणगं चेव, खाइमं साइमं तहा। जे भिक्खू सन्निहिं कुजा, गिही पवइए न से // 1 // " इति तदानीं विरोधित विरोधमापादितं सन्निधेरिदानी त्वयाऽभ्युपगतत्वात्। परिग्गहे निजुजंता, पारबत्ता उसंजया। भारादिमाइया, दोसा, पेहा पेहकयाइया॥११८|| संयताः परिग्रहे नियुज्यमानाः परित्यक्ताः संसारे पातनात्। किंचान्यत्-इहलोके भारादयो-भारवाहनादयो दोषा आदिशब्दात्-कायक्लेशसूत्रार्थहान्यादिदोषपरिग्रहः / तथा प्रेक्षादिकाश्च, तथाहि यदि सर्व प्रत्युपेक्षते ततः सूत्रार्थपरिमन्थः, अथन प्रत्युपेक्षते तर्हि संसक्तिभावः। आदिशब्दात्-तत्परितापनादिदोषपरिग्रहः / अहवा तप्पडिबंधा य, अत्यंते नितियादयो। अणुग्गहो निहत्थाणं, सया वी ताण होइ उ॥११९।।

Page Navigation
1 ... 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492