Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1451
________________ वेणइया 1427 - अभिधानराजेन्द्रः - भाग 6 वेणइया एहिके आमुष्मि के च लोके फलदायिनी विनयसमुत्था बुद्धिर्भवति / सम्प्रतयस्या एव विनेयजनानुग्रहार्थमुदाहरणैः स्वरूपं दर्शयतिगाथाद्वयार्थः कथानकेभ्योऽवसेयः तानि च ग्रन्थगौरवभयात्संक्षेपेणाच्यन्ते--- तत्र 'निमित्ते' इति-कचित्पुरे कोऽपि सिद्धपुत्रकः, तस्य द्वौ शिष्यौ निमित्तशास्त्रमधीतवन्तौ, एको बहुमानपुरस्सरं गुरोविनयपरायणों यक्किमपि गुरुरुपदशिति तत्सर्व तथेति प्रविपद्य स्वचतसि निरन्तरं विमृशति, विमृशतश्च, यत्र क्वादि सन्देह उपजायते तत्र भूयोऽपि विनयेन गुरुपाद-मूलमागत्य पृच्छति, एवं निरन्तरं विमर्शपूर्व शास्त्रार्थ तस्य चिन्तयतः प्रज्ञाप्रकर्षमुपजगाम द्वितीयस्त्वेतद्गुणविकलः। तौ चान्यदा गुरुनिदेशात् क्वचित्प्रत्यासन्ने ग्राभे गन्तं प्रवृत्ती, पथि च कानिचित् महान्ति पदानि तावदर्शताम्, तत्र विमृश्यकारिणा पृष्टम्-- भोः कस्यामूनि पदानि ? तेनोक्तम्- किमत प्रष्टव्यं हस्तिनोऽमूनि पदानि / ततो विमृश्यकारी प्राह- मैव भाषिष्ठाः, हस्तिन्या अमूनि पदानि, सा च हरितनी वामेन चक्षुषा काणा, तां चाधिरूढा गच्छति काचिद्राज्ञी, सा च समतका गुर्वी च प्रजने कल्या, अद्य श्वो वा प्रसविष्यति, पुत्रश्च तस्या भविष्यति / तत एवमुक्त सोऽविमृश्यकारी ब्रूते- कथमेतदवसीयते ? विमृश्यकारी प्राह-- 'ज्ञानं प्रत्ययसार' मित्यगे प्रत्ययतो व्यक्त भविष्यति / ततः प्राप्तौ तौ विवक्षितं ग्राम, दृष्टा चावासिता तस्य ग्रामस्थ बहिः प्रदेशे महासरस्तटे राज्ञी, परिभाविता च हस्तिनी वामेन चक्षुषा काणा / अत्रान्तरे च काचिदाराचेडी महत्तमं प्रत्याह-वर्धाप्यसे राज्ञः पुत्रलाभेनेति / ततः शब्दितो विमृश्यकारिणा द्वितीयः, परिभावय पारचे टोकचनमिति, तनोक्तं परिभावितं मया सर्व, नान्यथा तव / ज्ञानमिति / तस्तिो हस्तपादान् प्रक्षाल्य तस्मिन् महासरस्तटे न्यग्रोधतरोरधो विश्रामाय स्थिती, दृष्टौ च कयाचिच्छिरोन्यस्तजलभृतघटिकया वृद्धस्त्रिया, परिभाविता च तयोराकृतिः। ततश्चिन्तयामास-- नूनमेतौ विद्वांसौ, ततः पृच्छामि देशान्तरगतनिजपुत्रागमनमिति / पृष्ट तया। प्रश्नसमकालभेव च शिरसोनिपत्य भूमौ घटः शवखण्डशो भग्नः / / तता झटित्ये-वाविमृश्यकारिणा प्रोगतस्ते पुत्रो घट इव व्यापत्तिमिति / विमृश्यकारी ब्रूते स्म-मावयस्यैवं वादीः, पुत्रोऽस्या गृहे समागतो वर्तते, याहि मातर्वृद्ध ! स्त्रि! स्वपुत्रमुखमवलोकयातत एवमुक्ता सा प्रत्युजीवितेवाशीर्वादशतानि विमृश्यकारिणः प्रयुञ्जाना स्वगृहं जगाम / दृष्टश्चोभूलितजङ्घः स्वपुत्रौ गृहमागतः। ततः प्रणता स्वपुत्रेण, सा चाशीर्वाद निजपुत्राय प्रायुक्त, कथयामास च नैमित्तिकवृत्तान्तम्। ततः पुत्रमापृच्छ्य वस्त्रयुगलं रूपकांश्च कतिपयानादाय विमृश्यकारिणः समर्पयामास, अविमृश्यकारी च खेदमावहन् स्वचेतसि अचिन्तयत्- ननमहं गुरुणा न सम्यक परिपाठितः, कथमन्यथाऽहं न जानामि ? एष जानातीति / गुरुप्रयोजन कृत्वा समागतौ द्वौ गुरोः पावें / तत्र विमृश्यकारी दर्शनमात्र एव शिरो नमयित्वा कृताञ्जलिपुटः सबहुमान-मानन्दाश्रुप्लावितलोचनो गुरोः / पादावन्तरा शिरः प्रक्षिप्य प्रणिपपात, द्वितीयोऽपि च शैलस्तम्भ इव मनागप्यनमित-गात्रयष्टिर्मात्सयवह्निसम्पर्खतो धूमायमानोऽवतिष्ठते / ततो गुरुस्त प्रत्याहू-- रे ! किमिति पादयोर्न पतसि ? स प्राह- य एव सम्यक पाठितः स एव पतिष्यति, नाहमिति।गुरुराह-कथ त्वं न सम्यक् पाठित: ? ततः स प्राचीनं वृत्तान्तं सकलमचीकथत्, यावदेतस्य ज्ञान सर्व सत्यं न ममेति। ततो गुरुणा विमृश्यकारी पृष्टः-कथय वत्स ! कथं त्वयेद ज्ञातमिति ? ततः स प्राहमया युष्मत्पादादेशेन विमर्शः कर्तुमारब्धोयथैतानि हस्तिरूपस्य पदानि सुप्रतीतान्येव, विशेषचिन्तायां तु किं हस्तिन उत हस्तिन्या? तत्र कायिकीं दृष्ट्वा हस्तिन्या इति निश्चितम्, दक्षिणे च पार्श्वे वृत्तिसमारूढवल्लीवितान आलूनविशीर्णो हस्तिनीकृतो दृष्टो न वामपार्वे ततो निश्चिक्येनूनं वामेन चक्षुषा काणेति / तथा नान्य एवंविधपरिकरोपेतो हस्तिन्यामधिरूढो गन्तुमर्हति ततोऽवश्यं राजकीयं किमपि मानुषं यातीति निश्चितम् / तच्च मानुषं क्वचित्प्रदेशे हस्तिन्या उत्तीर्य शरीरचिन्तां कृतवत्, कायिकीं दृष्ट्वा, राज्ञीति निश्चितम्। वृक्षावलग्नरक्तवस्त्रदशालेशदर्शनात् सभर्तृका। भूमौ हस्तं निवेश्योत्थानाकारदर्शनाद् गुर्वी दक्षिणचरणनिस्सहमोचननिवेशदर्शनात्प्रजने कल्येति। वृद्धस्त्रियाः प्रश्नानन्तरं घटनिपाते चैवं विमर्शः कृतो-- यथैष घटो यत उत्पन्नस्तत्रैव मिलितस्तथा पुत्रोऽपीति। तत एवमुक्ते गुरुणा स विमृश्यकारी चक्षषा सानन्दमीक्षितः प्रशंसितश्च / द्वितीय प्रत्युवाच-तव दोषो यन्न विमर्श करोषि, न मम / वयं हि शास्त्रार्थमात्रोपदेशेऽधिकृताः विमर्श तु यूयमिति / विमृश्यकारिणो वैनयिकी बुद्धिः / / 1 / / 'अत्थसत्थे त्ति' अर्थ-शास्त्रे कल्पको मन्त्री दृष्टान्तः, 'दहिकुंडगउच्छुकलावओ य' इति संविधानके 'लेह त्ति' लिपिपरिज्ञानं, 'गणिए' ति गणितपरिज्ञानम्, एते चढे अपि वैनयिक्यौ बुद्धी 2-3-4 / 'कूवे' त्ति खातपरिज्ञानकुशलेन केनाऽप्युक्तं यथैतद्दूरे जलमिति / ततस्तावत्प्रमाण खात परं नोत्पन्न जलम्, ततस्ते खात परिज्ञाननिष्णाताय निवेदयामासुः-- नोत्पन्नं जलमिति / ततस्तेनोक्तंपाणिप्रहारेण पावन्यिाहत, आहतानि तैः, ततः पाणिप्रहारसमकालमेव समुच्छलित तत्र जलम्, खातपरिज्ञानकुशलस्य पुंसो वैनयिकी बुद्धिः 5 ! 'अस्से' त्ति बहवोऽश्ववणिजो द्वारवती जग्मुः, तत्र सर्वे कुमाराः स्थूलान् बृहतश्चाश्वान गृह्णन्ति, वासुदेवेन पुनर्यो लघीयान् दुर्बलो लक्षणसम्पन्नः स गृहीतः, स च कार्यनिर्वाही प्रभूताश्वावहश्च जातः। वासुदेवस्य वैनयिकी बुद्धिः। 6 / 'गद्दभे त्ति कोऽपि राजा प्रथमयौवनिकामधिरूढस्तरुणिमानमेव धारितवान, वृद्धांस्तु सर्वानपि निषेधयामास / सोऽन्यदा कटकेन गच्छन्नपान्तरालेऽटव्यां पतितवान्, तत्र च समस्तोऽपि जन स्तृषा पीड्यते, ततः किंकर्तव्यतामूढचेता राजा केनाप्युक्तोदेव ! न वृद्धपुरुषशेमुषीपोतमन्तरेणायमापत्समुद्रस्तरीतुं शक्यते. ततो गवेषयन्तु देवपादाः क्वापिवृद्धमिति। ततो राज्ञा सर्वस्मिन्नपि कटके पटह उद्घो

Loading...

Page Navigation
1 ... 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492