Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1452
________________ वेणइया 1428 - अभिधानराजेन्द्रः - भाग 6 वेणइया षितः / तत्र चैकेन पितृभक्तेन प्रच्छन्नो निजपिता समानीतो वर्त्तते, ततस्तेनोक्तं-मम पिता वृद्धोऽस्तीति। ततो नीतो राज्ञः पार्थे, राज्ञा च सगौरवं पृष्टः- कथम महापुरुष ! कथं मे कटके पानीयं भविष्यति ? तेनोक्तं देव ! रासभाः स्वैरं मुच्यन्ता,यत्रते भुवं जिघ्रन्ति तत्र पानीयमतिप्रत्यासन्नमवगन्तव्यम् / तथैव कारितं राज्ञा; समुत्पादितं पानीयं, स्वस्थीबभूव च समस्तं कटकमिति / स्थविरस्य वैनयिकी बुद्धिः 71 'लक्खण' ति पारसीकः कोऽप्यश्वस्वामी कस्याप्यश्वरक्षकस्य कालनियमनं कृत्वा अश्वरक्षणमूल्यं द्वावश्वौ प्रतिपन्नवान्, सोऽपि चाश्वस्वामिनो दुहित्रा समं वर्तते। ततः सा तेन पृष्टा-कावश्वौ भव्याविति? तयोक्तम्- अमीषामश्वानां विश्वस्तानां मध्ये यः पाषाणभृतकुतपानां वृक्षशिखरान्मुक्तानामपि शब्दमाकर्ण्य नोत्रस्यतस्तौ भव्यो, तने तथैवैती परीक्षितौ / ततो वेतनप्रदानकाले सोऽभिधत्ते- मह्यममुकममुकं वाऽश्वं देहि / अश्वस्वामी प्राह- सर्वानप्यन्यान् अश्वान गृहाण, किमेताभ्यां तवेति ? स नेच्छति, ततोऽश्वस्वामिना स्वभार्याय न्यवेदि, भणितं चगृहजामाता क्रियतामेष इति / अन्यथा प्रधानावश्वावेष गृहीत्या यास्यति / सानैच्छत्। ततो ऽश्वस्वामी प्राह-लक्षणयुक्तेनाश्वेनान्येऽपि बहयोऽश्वाः सम्पद्यन्ते, कुटुम्ब च परिवर्द्धते, लक्षणयुक्तौ चेमावश्वौ, तस्मारिक्रयतामेतदिति / ततः प्रतिपन्नं तया, दत्ता तस्मै स्वदुहिता, कृतो गृहजामातेति / अश्वस्वामिनो वैनयिकी बुद्धिः 8 / 'गठि' त्ति पाटलिपुरे नगरे मुरुण्डो राजा / तत्र परराष्ट्रराजेन त्रीणि कौतुकनिमित्तं प्रेषितानि, तद्यथा-'मूद सूत्र, समा यष्टिरलक्षितद्वारः समुद्गको जतुना घोलितः तानि च मुरुण्डेन राज्ञा सर्वेषामप्यात्मपुरुषाणां दर्शितानि, पर केनापि न ज्ञातानि, तत आकारिताः पादलिप्ताचार्याः / पृष्ट राज्ञाभगवन् ! यूयं जानीत ? सूरय उक्तवन्तो-बाढम् / ततः सूत्रमुष्णोदके क्षिप्तम्, उष्णोदकसम्पक्काच विलीनं मदनत्रमिति लब्धः सूत्रस्यान्तः। यष्टिरपि पानीये क्षिप्ता, ततोगुरुभागो मूलमिति ज्ञातम् / समुद्के - प्युष्णोदके क्षिप्ते जतु सर्वं गलितमिति द्वार प्रकट बभूव / ततो राजा सूरीन प्रत्यवादीत्-भगवान् ! यूयमपि दुर्विज्ञेयं किमपि कौतुकं कुरुत येन तत्र प्रेषयामि / ततः सूरि-भिस्तुम्बकमेकस्मिन् प्रदेशे खण्डमेकमपहाय रत्नानां भृतम् / ततस्तथा तत्खण्ड सीवितं यथा न केनापि लक्ष्यते, भणिताश्च परराष्टराजकीयाः पुरुषाः- एतदभड्क्त्वा इतो रत्नानि ग्रहीतव्यानि, न शक्तं तैरेवं कर्तुम् / पादलिप्तसूरीणां वैनयिकी बुद्धिः / / / अगए' त्ति क्वचित्पुरे कोऽपि राजा, स च परचक्रेण सर्वतो रोद्धमारब्धः, ततस्तेन राज्ञा सर्वाण्यपि पानीयानि विनाशयितव्यानीति, विषकरः सर्वत्र पातितः। ततः कोऽपि कियद्विषमानयति, तत्रैको वैद्यो यवमात्रं विषमानीय राज्ञः समर्पितवान्-देव ! गृहाण विषमिति / राजा चस्तोक विषं दृष्ट्वा चुकोप तस्मै, वैद्यो विज्ञपयामास-देव! सहस्रवेधीदं विषं तस्मादप्रसादं मा कार्षीः, राजाऽवादीत्-कथमेतदवसेयम्।? स उवाच-देव! आनाय्यतां कोऽपि जीर्णो हस्ती। आनायितो राज्ञा हस्ती। ततो वैद्येन तस्य हस्तिनः पुच्छदेशे बाल(क) मेकमुत्पाट्य तदीयरन्ध्र विष सञ्चारितम्, विषं च प्रसरमाददानं यत्र तत्र प्रसरति तत्तत्सर्व विपन्नं कुर्वत् दृश्यते। वैद्यश्च राजानमभिधत्ते- देव ! सर्वोऽयेष हस्ती विषमयो जातः / योऽप्येनं भक्षयति सोऽपि विषमयो भवति, एवमेतद्विषं सहस्रवेधि / ततो राजा हस्तिहानिदूनचेतास्यं प्रत्युवाच अस्ति कोऽपि हस्तिनः प्रतीकारविधिः? सोऽवादीत- बाढमस्ति। ततस्तस्मिन्नेव बालरन्ध्रेऽगदः प्रदत्तः, ततः सर्वोऽपि झटित्येव प्रशान्तो विषविकारः प्रगुणीबभूव हस्ती, तुतोष राजा तस्मै वैद्याय। वैद्यस्य वैनयिकी बुद्धिः 10 / रहिए गणिया य'त्ति स्थूलभद्रकथानके रथिकस्य यत् सहकारफललुम्बित्रोटनं यच गणिकायाः सर्षपराशेरुपरि नर्तनं ते द्वे अपि वैनयिकीबुद्धिफले 11-12 / 'सीये' त्यादि, क्वचित्पुरे कोऽपि राजा, तत्पुत्राः केनाप्याचार्येण शिक्षयितुमारब्धाः, ते च तस्मै आचार्याय प्रभूत द्रव्यं दत्तवन्तः / राजा च द्रव्यलोभी तं मारयितुमिच्छति, तैश्च पुत्रैः कथञ्चितदेतज्ज्ञात्वा चिन्तितम्-अस्माकमेष विद्यादायी परमार्थपिता, ततः कथमप्येनमापदो निस्तारयामः / ततो यदा भोजनाय समागतः स्नानशटिकां याचेत तदा ते कुमाराः शुष्कामपि शाटी वदन्ति-"अहो सीया साडी' द्वारसम्मुखं च तृणं कृत्वा वदन्ति-अहो दीर्घ तृणं, पूर्व च क्रौञ्चकेन सदैव प्रदक्षिणीक्रियते, सम्प्रति तु स तस्यापसव्यं भ्रमितः। तत आचार्येण ज्ञातं-सर्वं मम विरक्तं, केवलमेते कुमारा मम भक्तिवशात् ज्ञापयन्ति, ततो यथान लक्ष्यते तथा पलाययामास कुमाराणामाचार्यस्य च वैनयिकी बुद्धिः 13 / 'निव्वोदएणं' ति कोऽपि वणिग्भार्या चिरं प्रोषिते भर्तरि दास्या निजसद्भावं निवेदयति- आनय कमपि पुरुषमिति / ततस्तया समानीतो, नखप्रक्षालनादिकं, च सर्व तस्य कारितं रात्रौ च तौ द्वावपि सम्भोगाय द्वितीयभूमिकामारूढौ, मेघश्च वृष्टिं कर्तुमारब्धवान्। ततस्तेन तृषापीडितेन पुरुषेण नीव्रोदकं पीतम् / तदपि च त्वग्विषभुजङ्गसंस्पृष्टमिति तत्पानेन पञ्चत्वमुपगतः, ततस्तया वणिग्भार्यया निशापश्चिमयाम एव शून्यदेवकुलिकायां मोचितः / प्रभाते च दृष्टो दाण्डपाशिकैः, परिभावितं सद्यः तत्तस्य नखादिकर्मा, ततः पृष्टाः सर्वेऽपि नापिताः-केनेदं भोः कृतमस्य नखादिकं कर्मेति ? तत एकेन नापितेनोक्तं मया कृतममुकाभिधवणिग्भार्यादासचेट्यादेशेन / ततः सा पृष्टासाऽपि च पूर्व न कथितवती, ततो हन्यमाना यथावस्थितं कथयामास / दाण्डपाशिकानां वैनयिकी बुद्धिः 14 / 'गोणे घोडगपडणं च रुक्खाओ' कोऽप्यकृत पुण्यो यद्यत्करोति तत्सर्वमापदे प्रभवति। ततोऽन्यदा मित्रं बलीवर्दी याचित्वा हलं वाहयति, अन्यदाच विकालवेलायांतावानीय वाटके क्षिप्तौ। स च वयस्यो भोजनं कुर्वन्नास्ते। ततः स तस्य पार्श्वे न गतः केवलं तेनापि तौ दृष्ट्याऽवलोकिताविति स स्वगृहं गतः। तौ च बलीवौ वारकान्निः शृत्यान्यत्र गतौ। ततोऽप्यपहृतौ तस्करैः / स च बलीवईस्वामी तमकृतपुण्य वराक बलिवर्दी याचते। सचदातुंनशक्नोति। ततो नीयतेतेनराजकुलम् / पथिच गच्छतस्तस्य कोऽप्यश्वारूढः पुरुषः सम्मुखमागच्छति। स चाश्वेन पातितः। अश्वश्च पलायमानोवर्तते। ततस्तेनोक्तम्-आहन्यतामेष दण्डना

Loading...

Page Navigation
1 ... 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492