Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1346
________________ विहार 1322 - अभिधानराजेन्द्रः - भाग 6 ... विहार काले जो पुटवण्हे, भावें सपक्खादणोमाणं ||31|| यावन्मात्रमध्वानं बालवृद्धादयोऽपरिश्रान्ता व्रजन्ति-गन्तुं शक्नुवन्ति तावन्मात्रं यदि सार्थो व्रजति तदा सार्थः क्षेत्रशुद्धः, तथा यः सूर्योदयवेलायां प्रस्थितः पूर्वाऽढे तिष्ठति अयं कालतः शुद्धः, यत्र तु स्वपक्षभिचाररैरनवमानंस भावतः शुद्धः। एकिको सो दुविहो, सुद्धो ओमाणपेल्लितो चेव / मिच्छत्तपरिग्गहितो, गमणे अदणे अठाणे य॥६३२। भण्डीसार्थवहिलकसार्थयोर्मध्यादेकैका द्विविधः- शुद्धः, अशुद्धश्च / शुद्धो नाम-योऽनवमाने प्रेरितः, अवमाने प्रेरितोऽशुद्धः / सार्थवाह आदियात्रिको वा यो वा तत्र प्रधानः स यदि मिथ्यादृष्टिस्तदा समर्थो मिथ्यात्वपरिगृहीत इति कृत्वा नाऽनुगन्तव्यः 'गमणे अदणे य ठाणे य' त्तिगमने-यः सार्थो मृदुगतिः अच्छिन्नेन वा पथा व्रजति, अदन-भोजनं तद्वेलायां यस्तिष्ठति स्थान-स्थण्डिले यो निवेशं करोति ईदृशः शुद्धः / अथ स्वपक्षपरपक्षाऽवमानं व्याख्यानयतिसमणा समणि सपक्खो, परपक्खो लिंगिणो गिहत्था य। आयोसंजमदोसा, असई यसपक्खवज्जेण // 33 // स्वपक्षः श्रमणाः, श्रमण्यश्च। परपक्षो-लिङ्गिनो, गृहस्थाश्च। इह लिङ्गिनोऽन्यतीर्थिकाः प्रष्टव्याः ईदृशेन भिक्षाचरवर्गेण आकीर्णे पर्याप्तमलभमानानाम् आत्मसंयमदोषा भवन्ति / तत्राऽऽत्मदोषाः परितापनादिना, संयमदोषास्तु कन्दाऽऽदिग्रहणेनेति / अथवा-अनवमानं सर्वथैव न प्राप्यते ततोऽवमानस्याऽसति स्वपक्षावमानं वर्जयित्वा यत्र परपक्षाऽव. मानं भवति तेन गन्तव्यम् / तत्र जनो भिक्षाग्रहणे विशेष जानाति इमे श्रमणा एते तु तचनिकादय इति / 'गमणे, अदणे य, ठाणे य' त्ति पदत्रयं व्याचष्ट-- गमणं जो जुत्तगती, वइगापल्लीहि वा अछिण्णेण / थंडिल्लं तत्थ भवे, मिक्खग्गहणे य वसही य॥६३४|| आदियणे भोत्तूणं, न चलति अवरण्हें तेण गन्तव्वं / तेण परं भयणातु, ठाणे थंडिल्लमाईसु ||35|| गमनशुद्धो नाम–यः सार्थो युक्तगतिर्मन्दगमनो; नशीघ्रं गच्छतीत्यर्थः / यो वा जिकापल्लीभिरच्छिन्नः पन्थास्तेन गच्छति यतस्तत्राच्छिन्ने पथि स्थण्डिलं भवति, व्रजिकादौ च सुखेनैव यस्तिष्ठति, भुक्त्वा चापराह्नेन चलति तेन सह गन्तव्यम् / तेण परं भयण' त्ति प्राकृतत्वात्पशम्यर्थे तृतीया, ततो भोजनादनन्तरमपराह्ने यश्चलति तत्र भजना कार्या / यदि सर्वेऽपि साधवः समस्तिदानीं गन्तुंततः शुद्धः। अथ न शक्नुवन्ति ततोऽशुद्ध इति। स्थानं नाम-गमनादुपरम्य निवेशं कृत्वा क्वचित्प्रदेशेषु अवस्थानं, तत्र यः स्थण्डिलस्थायी सशुद्धः, अस्थण्डिले तिष्ठन्नशुद्ध इति। बृ० 130 3 प्रक०। (अथ यदुक्तम्-अष्टौ सार्थवाहा आदियात्रिकाश्चेति तदेतत् 'सत्थवाह' शब्दे वक्ष्यामि।) (33) साम्प्रतमध्वानं प्रतीत्य भड़ानुपदर्शयतिसत्यपणए य सुद्धे, य पेल्लओ कालकालगमभोगी। कालमकालहाई, सत्थहेट्ठादियत्ती य॥६३७॥ सार्थपञ्चके-भण्डीसार्थो, वहिलकसार्थकश्च / अवमाने शुद्धो वा स्यात्प्रेरितो वा / यः शुद्धस्तेन गन्तव्यम् / तथा कालगामिनोऽकालगामिनो वा, कालभोजिनोऽकालभोजिनो वा, कालनिवेशिनोऽकालनिवेशिनो वा, स्थण्डिलस्थायिनोऽस्थण्डिलस्थायिनो वा, एते पञ्चाऽपि सार्था भवेयुः। तथा अष्टौ सार्थवाहा अष्टौ वाऽऽदियात्रिकाः एभिः पदैः कियन्तो भङ्गा उत्तिष्ठन्ते इत्याहएतेसिं तु पयाणं भयणाए सया एकपनं तु। वीसं च गमा नेया, एत्तो य सयग्गसो जयणा-||६३८|| एतेषां पदानां संयोगेन भजनायां--भङ्गरचनायां विधीयमानायामेकपञ्चाशत् संख्यानिशतानि विंशतिश्च गमाभङ्गका ज्ञेयाः एत्तो य सयासो जयण' त्ति आर्षत्वादेषु शुद्धाऽशुद्धेषु सार्थवाहाऽऽदियात्रिकेषु भद्रकप्रान्तेषु अल्पबहुत्वचिन्तायां शताग्रशः-शतसंख्याभेदा यतना भवति। अमुमेवाऽर्थ भाष्यकारः प्रकटयन्नाहकालुद्वॉयी कालनि सि, ठाणट्ठातीय कालभोगीय। उग्गतऽणथमियथंडिल-मज्झण्ह धरंतसूरे य ||3|| इह पूर्वाऽर्द्धपश्चाऽर्द्धपदानां यथासंख्यं योजना, तद्यथा-कालोत्थायी नाम सार्थो-य उगते सूर्ये उत्तिष्ठते; चलतीत्यर्थः / कालनिवेशीयोऽनस्ततिमते रात्रिप्रथमायां पौरुष्यां निवेशं कृत्वा तिष्ठति, स्थानस्थायीयः स्थण्डिले जिकादौ तिष्ठति, कालभोजीयो मध्याह्ने सूर्ये वाऽपि ध्रियमाणे भुङ्क्ते। एतेसिं तु पयाणं, भयणा सोलसविहा उ कायव्वा। सत्थपणएण गुणिया, असीतिभंगातु णायव्वा ||14|| एतेषां चतुर्गो पदानां षोडशविधा भजना कर्तव्या। तद्यथा-कालोत्थायी कालनिवेशी स्थानिस्थायी कालभोजी 11 अकालोत्थायी कालनिवेशी स्थानस्थायी अकालभोजी / अकालोत्थायी कालनिवेशो अस्थानस्थायी कालभोजी, 31 अकालोत्थायी कालनिवेशी अस्थानस्थायी अकालभोजी, 4 / एवमकालनिवेशपदेनापि चत्वारो भङ्गाः अवाप्यन्ते। लब्धा अष्टौ भङ्गाः / एते कालोत्थायिपदेनाऽप्यष्टौ प्राप्यन्ते, जाताः, षोडश भङ्गाः / एते च सार्थपञ्चकेऽपि प्राप्यन्त इति पञ्चभिर्गुण्यन्ते, गुणिताश्च अशीतिर्भङ्गका भवति। सत्थाह अद्वगुणिया, असीति चत्ताल छस्सता होति। त आइयत्तिगुणिया, सत एकापण्णवीसहिया ||1|| पूर्वलब्धा अशीतिभङ्गकाः प्रतिसार्थप्रत्युपेक्षका आलोचयन्ति। ___ अथ सार्थवाहस्याऽनुज्ञापनायां विधिमाहदुण्ड वि वियत्तगमणं, एगस्स वियत्त होइ भयणाओ। अप्पत्ताण निमित्तं, पत्ते सत्थम्मि परिसाओ।।९५२|| यत्र कः सार्थवाहः तत्र तमनुज्ञापयन्ति / ये प्रधानपुरुषास्ते ऽनुज्ञापयितव्याः / अथ द्वौ सार्थाधिपति ततो

Loading...

Page Navigation
1 ... 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492