Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वीर 1363 - अभिधानराजेन्द्रः - भाग 6 वीर रिजनं 'नायए खत्तिए अ' ज्ञातजातीयांश्च क्षत्रियान् 'विउलेणं पुप्फवत्थगंधमल्लालंकारेणं' विपुलेन पुष्पवस्त्रगन्धमालालङ्कारादिना 'सक्कारेंति सम्माणेति' सत्कारयतः सन्मानयतः 'सकारिता सम्माणिता' सत्कार्य सन्मान्य च 'तस्सेव मित्तनाइनियगसयणसंबंधिपरियणस्स' तस्यैव मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनस्य 'नायाणं खत्तिआण य पुरओ' ज्ञातजातीयानां क्षत्रियाणां च पुरतः ‘एवं वयासी' एवमवादिष्टाम- // 105|| 'पुद्धि पिणं देवाणुप्पिया!' पूर्वमपि भो देवानुप्रियाः ! भो स्वजनाः 'अम्हं एयसि दारगंसि गल्भं वकसि समाणंसि' अस्माकमेतस्मिन् दारके गर्भे उत्पन्ने सति 'इसे एयारूवे अब्भत्थिए० जाव समुप्पज्जित्था' अयमेतद्रूपः आतमविषयः यावत् संकल्पः समुत्पन्नोऽभूत, कोऽसौ इत्याह- 'जप्पभिई च णं अम्हं एस दारए कुच्छिसिगढभत्ताए वक्कते' यतः प्रभृति अस्माकम् एष दारकः कुक्षौ गर्भतया उत्पन्नः तप्पभिई चणं अम्हे' तत्प्रभृति वयं हिरण्णेणं वड्डामो' हिरण्येन रूप्येन वर्धामहे 'सुवण्णेणं वड्डामो' सुवर्णेन वर्धामहे 'धणेणं धन्नेणं रजेणं० जाव सावइज्जेण' धनेन धान्येन राज्येन यावत् स्वापतेयेन द्रव्येण 'पीइसक्कारेणं अईव अईव अभिवड्डामो' प्रीतिसत्कारेण अतीव अतीव अभिवर्धामहे 'सामंतरायाणो वसमागया य' स्वदेशसमीपयर्तिनः राजानः 'सीमा डा राजा' इति च वश्यम् - आयत्तत्वमागताः // 106 / / 'तं जया णं अम्ह एस दारए जाए भविस्सइ तस्मात् यदा अस्माकमेष दारको जातो भविष्यति तया णं अम्हे एयस्सदारगस्स' तदा वयमेतस्य दारकस्य 'इम एयाणुरुवं गुण्णं गुणनिष्फन्नं इमम्-एतदनुरूपं गुणेभ्यः आगतं गुणैर्निष्पन्न 'नामधिज्जं करिस्सामो वद्धमाणु' त्ति एवंविधमभिधान करिष्यामः 'वर्द्धमान' इति ता अम्हं अज्ज मणोरहसंपत्ती जाया' 'ता' इति सा पूर्वोत्पन्ना अस्माकं अद्य मनोरथस्य संपत्तिः जाता 'तं होउ णं अम्हं कुमारे वद्धमाणे नामेण तस्मात् भवतु अस्माकं कुमारः 'वर्द्धमानः' नाम्ना कृत्वा // 107 / / 'समणे भगवं महावीरे' श्रमणो भगवान् महावीरः 'कासवगुत्तेणं काश्यप इति नामकं गोत्रं यस्य स तथा 'तस्स णं तओ नामधिज्जा एवमाहिज्जति तस्य भगवतः त्रीणि अभिधानानि एवमाख्यायन्ते- 'तं जहा' तद्यथा 'अम्मापिउसंतिए बदमाणे मातापितृसत्कमातापितृदत्तं 'वर्द्धमान' इति प्रथमं नाम 1, 'सहसमुझ्याए समणे' सह समुदिता सह भाविनी तपः- करणादिशक्तिः, तया श्रमण इति द्वितीयं नाम 2, 'अयले भयभेरवाणं' भयभैरवयोर्विषये अचलो निष्प्रकम्पः, तब भयम्-अकस्माद्यं विद्युदादिजातं, भैरवं तु सिंहादिक, तथा परिसहोवसग्गाणं' परिषहाः क्षुत्पिपासादयो द्वाविंशतिः- (22) उपसर्गाश्च दिव्यादयश्चत्वारः सप्रभेदास्तुषोडश-(१६) तेषां खंतिखमे' क्षान्त्या क्षमया क्षमते, न त्वसमर्थतया यः स क्षान्तिक्षमः ‘पडिमाणं पालए' प्रतिमानां भद्रादीनाम् एकरात्रिक्यादीनां वा अभिग्रहविशेषाणां पालकः 'धीम' धीमान ज्ञानत्रयाभिरामत्वात् 'अरइरइसहे' अरतिरति सहते, न तु तत्र हर्षविषादौ कुरुते इति भावः 'दविए' द्रव्यं तत्तद्गुणानां भाजन रागद्वेषरहिते इति वृद्धाः 'वीरिअसंपन्ने' वीर्य पराक्रमस्तन संपन्नः, यतो भगवान् एवंविधस्ततः 'देवेहिं से णामं कयं समणे भगवं महावीरे' देवैः 'से' इति तस्य भगवतो नाम कृतं श्रमणो भगवान् महावीर इति तृतीयम् 3, // 108 / / तदिदं नाम देवैः कृतं, कथं कृतमित्यत्र वृद्धसंप्रदायः-अथैव पूर्वोक्तयुक्त्या सुरासुरनरेश्वरैः कृतजन्मोत्सवो भगवान् द्वितीयशशीव मन्दाराऽङ्कुर इव वृद्धिं प्राप्नुवन् क्रमेण एवंविधो जातः"द्विजराजमुखो गजराजगतिः, अरुणोष्ठपुटः सितदन्तततिः। शितिकेशभरोऽम्बुजमञ्जुकरः, सुरभिश्वसितः प्रभयोल्लसितः / / 1 / / मतिमान श्रुतवान् प्रथितावधियुक्. पृथुपूर्वभवस्मरणो गतरुकामतिकान्तिधृतिप्रभृतिस्वगुणै- जगतोऽप्यधिको जगतीतिलकः / / 2 / / " स चैकदा कौतुकरहितोऽपि तेषामुपरोधात् समानवयोभिः कुमारैः सह क्रीडां कुर्वाण आमलकीक्रीडानिमित्तं पुराद् बहिर्जगाम। तत्र च कुमारा वृक्षारोहणादिप्रकारेण क्रीडन्ति स्म। अत्रान्तरे सौधर्मेन्द्रः सभायां श्रीवीरस्य धैर्यगुणं वर्णयन्नास्ते, यदुत पश्यत भो देवाः ! साम्प्रतं मनुष्यलोके श्रीवर्द्धमानकुमारो बालोऽप्यबालपराक्रमः शक्रादिभिर्देवैरपि भापथितुमशक्यः, कटरे बालस्यापि धैर्य, तदाकर्ण्य च कश्चिन् मिथ्यादृग-देवश्चिन्तयामासअहो शक्रस्य प्रभुत्वाभिमाने निरङ्कुशा विचारा पुम्मिकापातेन नगराक्रमणा-मिवाऽश्रद्धेया च वचनचातुरी, यदिमं मनुष्यकीटपरंमाणुमपि इयन्तं प्रकर्ष प्रापयति, तदद्यैव तत्र गत्वा तं भीषयित्वा शक्रवचन वृथा करोमि, इति विचिन्त्य मर्त्यलोकमागत्य शिंशपामुशलस्थूलेन लोलजिह्वायुगलेन भयङ्करफूत्कारेण क्रूरतराकारेण प्रसरत्कोपेन ऋजुफटाटोपेन दीप्रमणिना महाफणिना तं क्रीडातरुमावेष्टितवान. तदर्शनाच पलायितेषु सर्वेषु बालेषु मनागप्यभीतमनाः श्रीवर्द्धमानकुमारः रवयं तत्र गत्वा तं फणिनं करेण गृहीत्वा दूरं निक्षिप्तवान्, ततः पुनः कुमारैः कन्दुकक्रीडारसे प्रस्तुते सतिस देवोऽपि कुमाररूपं विकुऱ्या तां क्रीडा कर्जा प्रववृते / तत्र चायपणः-पराजितेन स्कन्धे आरोपणीय इति, क्षणाच परोजितं मया जितं वर्धमानेनेति वदन् श्रीवीरं स्कन्धे समारोप्य भगवद्भापनाय सप्ततालप्रमाणशरीरः संजातो, भगवानपि तत्स्वरूपं विज्ञाय वज्रकठिनया मुष्ट्या तत्पृष्ठं जघान, सोऽपि तत्प्रहारवेदनापीडितो मशक इव संकोचं प्राप / / ततश्च शक्रवचनं सत्यं मन्यमानः प्रकटितस्वरूपः सर्व पूर्वव्यतिकरं निवेद्य भूयो भूयो निजमपराध क्षमयित्वा स्वस्थानं जगाम स देवः, तदा च सन्तुष्टचित्तेन शक्रेण 'श्रीवीरः' इति भगवतो नाम कृतम्। यदुक्तम् - 'बालत्तणे वि सुरो, पयईए गुरुपरकामो भयवं / वीरु त्ति कयं नाम, सक्केणं तुट्ठवितेणं // 1 // " इत्यामलकीक्रीडा / (कल्प०) (वीरस्य लेखनशालागमनम् 'लेहसाला' शब्देऽस्मिन्नेव भागे 667 पृष्ठे उक्तम्।) समणस्स णं भगवओ महावीरस्स पिआ कासवगुत्ते - णं, तस्स णं तओ नामधिजा एवमाहिज्ज ति, तं जहा

Page Navigation
1 ... 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492