Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वीर 1364 - अभिधानराजेन्द्रः - भाग 6 वीर सिद्धत्थेइवा, सिजंसेइ वा, जसंसेइ वा / / समणस्स भगवओ महावीरस्स माया वासिट्ठगुत्तेणं, तीसे तओ नामधिञ्जा एवमाहिन्जंति, तं जहा-तिसलाइ वा विदिन्नाइ वा पीइकारिणीइ वा।। समणस्स भगवओ महावीरस्स पित्तिज्जो सुपासे, जिढे भाया नंदिवद्धणे भगिणी सुदंसणा, भारिया जसोया कोडिन्ना गुत्तेणं समणस्स भगवओ महावीरस्स धूआ कासवगोत्ते णं तीसे दो नामधिज्जा एवमाहिजंति, तं जहा-अणोजाइ वा पियदंसणाइ वा समणस्स भगवओ महावीरस्स नत्तुई कासवगुत्तेणं तीसे णं दो नामधिन्ना एवमाहिजंति, तंजहा-सेसवई वा जसवईवा।।१०।। 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'पिया कासवगुत्तेणं' पिता कीदृशः? काश्यपः गोत्रेण कृत्वा 'तस्स णं तओ नामधिजा' तस्य त्रीणि नामधेयानि एवमाहिति एवमाख्यायन्ते'तं जहा सिद्धत्थेइ वा सिजसेइ वा जसंसेइ वा तद्यथा-सिद्धार्थ इति वा, श्रेयासं इति वा, यशस्वी इति वा। समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'माया वासिट्ठगुत्तेणं' माता वाशिष्ठगोत्रेण 'तीसे तओ नामधिजा' तस्याः त्रीणि नामधेयानि एवमाहिति' एवमाख्यायन्ते- 'तं जहा तिसला इ वा विदेहदिन्ना इ वा पीइकारिणी इवा' तद्यथा-त्रिशला इति वा, विदेहदिन्ना इति वा प्रीतिकारिणीति वा 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'पित्तिजे सुपासे' पितृव्यः 'काको' इति सुपार्श्वः 'जिट्टे भाया नंदिवद्धणे' ज्येष्ठो भ्राता नन्दिवर्द्धनः भगिणी सुदसणा' भगिनी सुदर्शना भारिया जसोया कोडिण्णागुत्तेणं' भार्या यशोदा सा कीदृशी कौण्डिन्या गोत्रेण 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'धूआ कासवगोत्तेणं पुत्री काश्यपगोत्रेण 'तीसे दो नामधिज्जा एवमाहिति' तस्या द्वे नामधेये, एवमाख्यायेते- 'तं जहा- अणोजाइ वा पियदसणाइ वा' तद्यथा-अणोजा इति वा, प्रियदर्शना इति वा, 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'नत्तुई कासवगुत्तेण' पुत्र्याः पुत्री-दौहित्री काश्यपगोत्रेण 'तीसेणं दो नामधिजा एवमाहिति' तस्याः द्वे नामधेये एवमाख्यायेते- 'तं जहा-सेसवई वा जसवई वा तद्यथाशेषवती इति वा यशस्वती इति वा / / 10 / / समणे भगवं महावीरे दक्खे दक्खपइन्ने पडिरूवे आलीणे भद्दइ विणीए नाए नायपुत्ते नायकुलचंदे विदेहे विदेहदिन्ने विदेहजचे विदेहसूमाले तीसं वासाई विदेहंसि कटु अम्मापिउहिं देवत्तगएहिं गुरुमहत्तरएहिं अध्भणुन्नाए सम्मत्तपइन्ने पुणरवि लोअंतिएहि-जीअकप्पिहिं देवेहिं ताहिं इट्ठाहिं० जाव वग्गूहिं अणवरयं अभिनंदमाणा य अभिथुव्यमाणा य एवं वयासी||११०।। 'समणे भगवं महावीरे' श्रमणो भगवान महावीरः 'दक्खे' दक्षःसकलकलाकुशलः 'दक्खपइन्ने' दक्षानिपुण्णा प्रतिज्ञा यस्य स तथा समीचीनाभेव प्रतिज्ञा करोति, तां च सम्यग निर्वह-तीति भावः, 'पडिरूवे' प्रतिरूपः- सुन्दररूपवान् 'आलीणे' आलीन:- सर्वगुणैरालिङ्गितः"भदए' भद्रकः- सरलः 'विणीए' विनीतो-विनयवान् 'नाए' ज्ञातः-- प्रख्यातः 'नायपुत्ते' ज्ञातः- सिद्धार्थस्तस्य पुत्रः, न केवलं पुत्रमात्रः किन्तु-- 'नायकुलचन्दे' ज्ञातकुले चन्द्र इव 'विदेहे' वऋषभनाराचसंहन-नसमचतुरस्त्रसंस्थानमनोहरत्वात् विशिष्टो देहो यस्य स विदेहः 'विदेहदिन्ने विदेहदिन्ना-त्रिशलातस्या अपत्यं वैदेहदिन्नः 'विदेहजचे' विदेहा-त्रिशला तस्यां जातमर्चा-शरीरं यस्य स तथा विदेहसूमाले' विदेहशब्देन अत्र गृहवास उच्यते, तत्र सुकुमालः दीक्षायां तु परिषहादिसहने अकठोरत्वात् 'तीसं वासाई विदेहसि कटु' त्रिंशद्वर्षाणि गृहवासे कृत्वा, त्रिंशद्वर्षाणि गृहस्थभावे स्थित्वेत्यर्थः, 'अम्मापिउहिं देवत्तगएहि' मातापित्रोदेवत्वं गतयोः। 'गुरुमहत्तरएहि अब्भणुण्णाए गुरुमहत्तरैनन्दिवर्द्धनादिभिरभ्यनुज्ञातः। 'समत्तपइन्ने' समाप्तप्रतिज्ञश्च, "मातापित्रोजीवतोः नाहं प्रव्रजिष्यामी'' ति गर्भगृहीतायाः प्रतिज्ञायाः पूरणात्, स व्यतिकरस्त्वेवम्- अष्टाविंशतिवर्षातिक्रमे भगवतो मातापितरौ, आवश्यकाभिप्रायेण तुर्य स्वर्गम्, आचाराङ्गाभिप्रायेण तु अनशनेन अच्युतंगतो, ततो भगवता ज्येष्ठभ्राता पृष्टः, राजन् ! ममाभिग्रहः सम्पूर्णोऽस्ति, ततोऽहं प्रव्रजिष्यामि, ततो नन्दिवर्द्धनः प्रोवाचभ्रातः ! मम मातापितृविरहदुःखितस्य अनया वार्तया किं क्षते क्षारं क्षिपसि, ततो भगवता प्रोक्तम्- 'पिअमाइभाइभइणी भज्जा पुत्तत्तणेण सव्वे वि। जीवा जाया बहुसो, जीवस्स उएगभेगस्स // 1 // ततः कुत्र कुत्र प्रतिबन्धः क्रियते इति निशम्य नन्दिवर्द्धनोऽवोचत्- भ्रातरहमपि इदं जानामि, किन्तु-प्राणतोऽपि प्रियस्य तव विरहो मामतितमा पीडयति, ततो मदुपरोधाद्वर्षद्वयं गृहे तिष्ठ, भगवानपि एवं भवतु, किन्तु-राजन् ! मदर्थ न कोऽपि आरम्भः कार्यः, प्रासुकाशनपानेनाहं स्थास्यामि इत्यवोचत, राज्ञापि तथा प्रतिपन्ने समधिकं वर्षद्वयं वस्त्रालड्कारविभूषितोऽपि प्रासुकैषणीयाहारः सचित्तजलमपिबन भगवान गृहे स्थितः, ततः प्रभृति भगवता अचित्तजलेनापि सर्वस्नानं न कृतं, ब्रह्मचर्य च यावजीवं पालित, दीक्षोत्सवे तु सचित्तोदकेनापिस्नान कृतं, तथाकल्पत्वात्, एवं भगवन्तं वैरगि कं विलोक्य चतुर्दशस्वप्नसूचितत्वाचक्रवर्त्तिधिया सेवमानाः श्रेणिकचण्डप्रद्योतादयो राजकुमाराः स्वं स्वं स्थान जग्मुः / 'पुणरवि लोअंतिएहि पुनरपि इति विशेषद्योतने, एकं तावत् समाप्तप्रतिज्ञः स्वयमेव भगवान् वर्त्तते, पुनरपि लोकान्तिकैर्देवैर्बोधित इति विशेषो धोत्यते, लोकान्ते-संसारान्ते भवाः लोकान्तिकाः एकावतारत्वात्, अन्यथा ब्रह्मलोकवासिनां तेषां लोकान्ते भवत्वं विरुद्धयते, ते च नवविधाः, यदुक्तम्''सारस्सय 1 माइचा 2 वन्ही 3 अरुणाय 4 गहतोया य५ | तुडिआ६ अव्वावाहा 7.

Page Navigation
1 ... 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492