Book Title: Nandanvan Kalpataru 1999 00 SrNo 02
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/521002/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरु: शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये। कल्पतरुनन्दनवनसत्कोऽयं नन्दतात् सुचिरम् ॥ शासनसम्राविशेषाङ्क: द्वितीया शाखा (दक्षिणायनम्) वि.सं. २०५५ सङ्कलनम् कीर्तित्रयी Page #2 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः २ शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुर्नन्दनवनसत्कोऽयं नन्दतात् सुचिरम् ॥ शासनसम्राड्विशेषाङ्कः द्वितीया शाखा (दक्षिणायनम्) वि.सं. २०५५ सङ्कलनम् कीर्तित्रयी Page #3 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरु: २......... - नन्दनवनकल्पतरु: ।। द्वितीया शाखा ।। (संस्कृतभाषामयं अयन-पत्रम् ।।) सङ्कलनं-कीर्तित्रयी।। सर्वेऽधिकारा: स्वायत्ताः ।। प्रकाशनं : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ।। - वि.सं.२०५५, ई.सं.१९९९, आश्विनमास: शासनसम्राट्स्वर्गारोहणअर्धशतीवर्षम् ।। प्राप्तिस्थानं : १. शनुभाई के. शाह जीराळापाडो, खंभात ।। २. सरस्वती पुस्तक भण्डार, अमदावाद ।। मुद्रणं : सचिन एन्टरप्राइझ, अमदावाद ।। फोन : (०७९) ७४३७६७७ - - Page #4 -------------------------------------------------------------------------- ________________ .नन्दनवनकल्पतरु: २...... MORNINGaopalgass - 00 (वाचकानां प्रतिभाव तत्रभवति भगवति (१) Date: 12-7-1999 आचार्यविजयशीलचन्द्रसूरिपादे शतं नतयः । नन्दनवनकल्पतरु: प्राप्तः । सकुतूहलमवालोकि च । चतुर्विशतिजिनगीतयो मया सप्रमोदं तद्गतिलयानुसारं मन्दं मन्दं गीताः । एतादृशीनां गीतीनां रचना नातीवसरले ति स्वानुभवेनाहं सम्यगेव जानामि । गत्यनुसारी स्वच्छ: अन्तिमाक्षरप्रासः, गायनानुकूला धाटी, गेयरचनायै प्रशस्तं छन्दः - इत्यादिसद्गुणैः समुपबृंहिता एता गीतयः कं नाम भावुकं नानन्दाम्बुधौ तल्लीनं विदध्युः? कन्नडभाषायां षट्पदीछन्दः सुतरां प्रसिद्धम् । तेन छन्दोगतिप्रकारेण सादृश्यं वहदिव वर्तमानं द्वितीयगीतिगतं लयलास्यं समवधार्य विस्मितोऽस्मि। (वार्धकषट्पदीत्युच्यते कन्नडे ।) कर्णाटकसङ्गीतपद्धत्यां मुद्दुस्वामिदीक्षितप्रभृतिभिः, “कमलानवावरण"प्रभृति -समुच्चयात्मिका: कृतयः रचिता वर्तन्ते, यत्र सर्वासामपि कृतीनां गायनक्रमो निश्चितः । (अर्थात् सर्वासामपि कृतीनां परस्परेण दृढः सम्बन्धोऽस्ति ।) तद्वदेव तत्रभवता रचितोऽप्ययं कृतिगुच्छकः' आदितः आन्तं यावद् अक्षुण्णं सम्बन्धं गानानुस्यूततारूपं रक्षति । इदमपरं वैशिष्ट्यमत्र - यच्चतुर्विंशतिगीतिषु चतुर्विंशतिगतिप्रकाराः पार्थक्येनैव प्रयुक्ताः । संस्कृतपण्डिताः सङ्गीताभिज्ञाः प्रायेण न भवन्ति । परन्तु अत्र केचिदङ्गुलीगणनीया विरलोदाहरणत्वेन प्राप्यन्ते । तादृशां मध्ये तत्रभवानन्यतमः । संस्कृतेन आधुनिककाले रचिते गीतिवाङ्मये गुच्छकस्य भवद्रचितस्य शोभनं स्थानं विद्यते । तत्रभवता मुनिकल्याणकीर्तिना विरचितं पूज्यविजयनन्दनसूरीश्वराणां जीवनं प्रभावपूर्ण मस्ति । तेषां पाण्डित्यमनितरसाधारणं तथाऽपि विनयातिशयेन सर्वजनसेव्यत्वमासीदिति ज्ञात्वा सत्कथाश्रवणजमानन्दमनुभूतवानस्मि । 'न प्राप्नुवन्ति यतयो रुदितेन मोक्षं, मोक्षायतिं न परिहासकथा रुणद्धि' इत्याभाणकः । तमाभाणकं चरितार्थयितुमिव वर्तते “मधुरेण समापयेत्” । जैनसाधुभगवतामीदृिशं सांस्कृतं नवीनं वाङ्मयं बाढमनल्पसाधुवादपात्रम् । प्रास्ताविके “मधुरेण समापयेत्” इति विभागस्य प्राथमिकप्रयत्नजन्यत्वमुक्त्वा यत्तत्र सम्भवन्तीनां त्रुटीनां सूचनायै विज्ञप्तं - तत्रोच्यते - तस्मिन् विभागे भाषा शुद्धैव । कोऽपि दोषो नास्त्येव । . . - नन्दनवनकल्पतरोः साहित्यपुष्पाणां सुरभिलो मारुतः सर्वत्र सहृदयसमवाये लब्धसञ्चारो भूयादिति सप्रमोदमाशासानो - एस्. जगन्नाथः - - ... Page #5 -------------------------------------------------------------------------- ________________ .नन्दनवनकल्पतरुः २... (२) । श्रीस्वामिनारायणो विजयते । यावद्धिमालयो गङ्गा यावच्चन्द्रदिवाकरौ । सतां सङ्घश्व यावद्धि तावत्स्थिरंनु संस्कृतम् ।। लोके खलु पण्डितम्मन्यमाना आधुनिका भाषाविज्ञा, अन्ये चार्धदग्धा वदन्ति यत् ‘संस्कृतभाषा मृतभाषा' इति। परन्तु नन्दनवनकल्पतर्वाख्यम् आधुनिक ग्रन्थमिदं दृष्ट्वा तत्सर्वथाऽलीकमिति प्रतीतिः । जिनशासनरताः साधुसङ्काः सर्वदैव हि सुरभाषायाः प्रवर्धने दत्तचेतस्का इति नाऽविदितचरं विपश्विदपश्चिमानाम् । साधूनां साध्वीनाञ्चाध्ययनाऽनन्तरमपि गीर्वाणाऽभ्यासो नवीनो भूयादित्ययं सुसफलः प्रयत्नः । माध्यमेनाऽनेन शासनसम्राजां भगवत्पादानां पूज्याचार्यश्रीविजयनन्दनसूरीश्वरसदृशानां पुण्यरूपं चरित्रकीर्तनमपि भविष्यतीत्यधिकोऽमूल्यश्च लाभः । ___ 'नन्दनवनकल्पतरु'ग्रन्थं दृष्ट्वा प्रमुदितं मे मनः । अभिनन्दनाऽर्हाः आचार्यश्रीविजयशीलचन्द्रसूरिमहाराजाः, अन्ये च साहाय्यप्रदाः साधुभगवन्तो महानुभावाश्च । अस्मद्गुरुवर्याः प्रमुखस्वामिमहाराजा अपि सामयिकाऽऽयोजनमिदं श्रुत्वा प्रसन्नीभूय शुभाशिषं प्रयच्छन्ति । यतो हि तेऽप्यसङ्कुचितमनसाऽऽयोजनम् एतादृशं सर्वथा सम्मानयन्ति, सुरगिरायाः सर्वथा प्रवृद्धयै प्रयत्नशीलान् प्रोत्साहयन्ति च । न्यायवाचस्पति- शास्त्रविशारद - सिद्धान्तमार्तण्ड कविरत्ने त्यादिबहुविधभूषणमण्डि तानां महामहिम्नामाचार्य श्री विजयनन्दनस् रिमहाराजाणां जन्मशतीसंवत्सरस्य सर्वथा योग्योऽयं प्रयासः। प्रथमशाखारूपोऽयं ग्रन्थः, अनन्तशाखारूपो भवेदिति भगवन्तं स्वामिनारायणं सम्प्रार्थ्य विरमामि । भवदीयः साधु श्रुतिप्रकाशदासः नव्यव्याकरणाचार्यः, सर्वदर्शनाचार्यः, वेदान्ताचार्यः, पूर्वमीमांसाचार्य : - - - Page #6 -------------------------------------------------------------------------- ________________ ...नन्दनवनकल्पतरुः २...... - - प्रास्ताविकम् । इदं वर्षं परमगुरूणां शासनसम्राजां पूज्याचार्यवर्यश्रीविजयनेमिसूरीश्वराणां स्वर्गारोहणस्याऽर्धशतीवर्षमस्ति । अतस्तदुरसिकृत्याऽस्माभिरियं शाखा शासनसम्राविशेषाङ्कतया प्रकाशिताऽस्ति। ___ सहृदयैर्विद्वज्जनैरस्य प्रथमा शाखाऽत्यादरेण स्वीकृतेति मुदिताः स्मः । अथाऽस्माकं निवेदनस्य प्रत्युत्तरतया द्वित्रा लेखा अपि विद्वज्जगतः प्राप्ताः । तदर्थमपि प्रीताः पुनरपि निवेदयामो विद्वद्वर्येभ्यः साधु-साध्वीभगवद्भ्यश्च यद् भवतां गद्यपद्यात्मकान् लेखान् प्रेषयन्तु अस्मिन्नयनपत्रे। ___किञ्चैतस्यां शाखायां प्राकृतविभागोऽपि सम्मिलितोऽस्तीति प्राकृतभाषाविद्भिः शोधनीय इत्यनुरुध्यामहे । ____ अथ विज्ञप्तिरेकाऽस्माकं यत् पुस्तकप्राप्तौ तत्प्रतिभावः प्रत्युत्तरोऽपि वा कृपया प्रेषणीयस्तत्रभवद्भिर्भवद्भिरिति । शासनसम्राट्तीर्थम् मधुपुरी (महुवा) कीर्तित्रयी मुनिरत्नकीर्तिविजयः मुनिधर्मकीर्तिविजयः मुनिकल्याणकीर्तिविजयः - Page #7 -------------------------------------------------------------------------- ________________ ३. गुरुस्तुत्यष्टकम् ४. गुरुनुति: चरित्रकथा ५. कृति: १. श्रीनागेश्वरपार्श्वनाथस्तुत्यष्टकम् २. शासनसम्राड्गुणस्तुतिषोडशिका १. शासनसम्राट् - ६. ७. सूक्तिसङ्ग्रहः ८. आस्वादः १. चिन्तनधारा २. दृष्टिः रङ्गमञ्चः पण्डितत्रिकम् १०. कथय रे कोऽहम् ? .नन्दनवनकल्पतरुः २...... एकं कालजयि अस्तित्वम् २. प्रचण्डतेजोमूर्त्तिः श्रीतातपादः ते हि नो दिवसा रम्याः ११. मधुरेण समापयेत् १२. सुवर्णचन्द्रकप्रदानसमारम्भः प्राकृतविभागः १. धम्मो २. संवेगमंजरीकुलयं ३. पत्रम् कहा अनुक्रमः १. परदुहभंजणी देपाणदेराया २. सढे सढत्तणं कर्ता मुनिरत्नकीर्तिविजयः विजयहेमचन्द्रसूरिः मुनिरत्नकीर्तिविजयः मुनिधर्मकीर्तिविजयः मुनिरत्नकीर्तिविजयः मुनिधर्मकीर्तिविजयः विजयहेमचन्द्रसूरिः मुनिविमलकीर्तिविजयः मुनिरत्नकीर्तिविजयः मुनिकल्याणकीर्तिविजयः मुनिकल्याणकीर्तिविजयः साध्वीश्री दिव्यगुणाश्रीजी मुनिकल्याणकीर्तिविजयः मुनि कल्याणकीर्तिविजयः मुनि कल्याणकीर्तिविजय: मुनिधर्मकीर्तिविजयः मुनिकल्याणकीर्तिविजयः पृष्ठम् ८ ४० ४५ ४८ ५८ ६२ ६६ ७१ ७३ ७९ 3353 ८३ ८५ ८७ ८९ ९१ Page #8 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... - 23338086230038862 नागेश्वरपार्श्वनाथस्तुत्यष्टकम 88458208 -मुनिरत्नकीर्तिविजयः भवाटवीलङ्घनसार्थवाह भव्यासुमबर्हिणवारिवाहम्। दुष्कर्मधर्मापहगन्धवाह श्रयामि नागेश्वरपार्थनाथम् ॥१॥ सान्निध्यतो यस्य शमं समेति सन्तापतापार्दितचित्तमेतद्। तं सौम्यमुद्रं प्रशमोदधिं च भजामि नागेश्वरपार्थनाथम् ॥२॥ जगत्त्रयेऽस्मिन् न शरण्यमस्ति त्वया विना नाथ ! हि किञ्चिदन्यत् । तवाऽऽश्रयो मेऽनुदिनं प्रभूयात् जिनेन्द्र ! नागेश्वरपार्थनाथ ! ॥३॥ त्वमेव मे नाथ ! मतिर्गतिश्च त्वमेव मार्गश्च पदं त्वमेव । त्वमेव नेत्रं त्वकमेव दृष्टिस्त्वमेव सर्वं मम देवदेव ! ॥४॥ Page #9 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... अभीप्सितं मे नहि किश्चिदस्ति प्रभो ! ऽवशिष्टं तव दर्शनेन । मनः परां तृप्तिमितं कृपालो ! भूयात्सदैव स्थितिरीदृशी मे ।।५।। गतो विकारो गत एव मोहो गतः प्रमादोऽपि यतो ध्रुवं मे। त्वदीयतद्दर्शनमस्तु देव ! स्वप्ने तथा जागरणे सदैव ॥६॥ स्वीकारमुक्तां प्रतिकारमुक्तां प्रसादयुक्तां च विषादमुक्ताम् । स्वभावशुद्धां, न च मोहरुद्रां योगीन्द्र ! वन्दे तव योगमुद्राम् ॥७॥ अहोऽद्भुतं रूपमवेक्ष्य नित्य मीहे हि यस्यांह्रिको निवासम् । झरं कृपायाः शुचिहृद्यभावै रानौमि नागेश्वरपार्श्वनाथम् ॥८॥ NOD - Page #10 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरु: २...... - RA प सनसमाइगुणस्तुतिौडाम (आर्यावृत्तम्) -पूज्याचार्य श्री विजयदेवसूरीश्वरशिष्यः श्रीविजयहेमचन्द्रसूरिः ॥ जिनशासनसाम्राज्यं, सम्राडिव यः शशास नैपुण्यात् । तीर्थोद्धारैकरतो, जयति स विजयादिनेमिगुरुः ॥१॥ नेमिर्जयतादूर्व्या, कदम्बमुखनैकतीर्थसंस्कर्ता । आबालब्रह्मधरो, नरपतिनतपादपद्मयुगः ॥२॥ श्रीवृद्धिचन्द्रगुरुवर - पादाम्बुजसेवनाप्तसद्बोधः । अध्यैष्ट तत्कृपातः, कालेऽल्पे बहूनि शास्त्राणि ॥३॥ शब्द-न्यायादिशास्त्र - वैदुष्यभृतैर्यदीयशिष्यगणैः। रचितान् विविधान् ग्रन्थान्, दृष्ट्वा कः प्रीणयनैव ॥४॥ शिष्य-प्रशिष्यवर्गः, स्वाध्याय-तपसि निरन्तरोद्युत्कैः। ग्रह-तारागणमध्ये, भाति स्म चन्द्र इवाऽनन्यः ।।५।। सकृदपि यद्व्याख्यानं, श्रुत्वा खलु सिंहगर्जनातुल्यम् । अश्मसदृशहृदया अपि, न हि बोधमवाप्नुयुः के के? ॥६॥ श्रीकापरडातीर्थं, राणकपुर - शेरिसादितीर्थं च । यस्योपदेशादजनि, जीर्णोद्धारेण नव्यतरम् ॥७॥ श्रीमन्माणेकस्य, मनसुखतनयस्य तीर्थसिद्धाद्रेः । यन्निश्रायां जातो, यात्रासङ्घः प्रशस्यतरः ॥८॥ सिंह इव दुष्प्रध!, रविवत् प्रौढप्रतापशाली च । उदधिरिवाऽतिगभीरः, शशिवच्चालादकः सासीत् ॥९॥ - Page #11 -------------------------------------------------------------------------- ________________ OK ......नन्दनवनकल्पतरु: २. सागरतीरे विचरन्, सम्यग् ह्युपदिश्य धीवरादिजनान् । विरमय्य हि हिंसातो, वरमकृत जीवदयाकृत्यम् ॥१०॥ मुनिसम्मेलनसमये, बुद्धिप्रागल्भ्यमस्य सन्दृश्य । सर्वेऽपि तत्रत्यजना, भृशमेव चमत्कृता जजुः ।।११।। यद्ब्रह्मचर्यचर्यां, दुरनुष्ठेयां विलोक्य सहसैव । वदनादद्भुतमद्भुत-मिति शब्दः सरति सर्वेषाम् ।।१२।। भावनगरभूपालो, वलभीपुरभूपति प्रमुख्याश्च । यद्वचसा प्रतिबुद्धाश्चक्रु हिँसादि परिहारम् ॥१३॥ आनन्द-मालवीया-कविनानालालमुख्यबुधवाः । येन सह तत्वचर्चा, कृत्वा प्रीतिं परां प्रापुः ।।१४।। तत्तत्कार्यविधात्री-संस्थाकार्याधिकारिणः श्राद्धाः । यन्मार्गदर्शनेना-ऽकुर्वन् सर्वाणि कार्याणि ॥१५॥ एकस्मिन्नपि जन्मनि, पूज्यैः कार्याणि यानि विहितानि । बहुमनुजैर्बहुजन्मसु, कर्तुं न हि तानि शक्यानि ।।१६।। पूज्यश्रीनेमिगुरुभक्त्यैवं संस्तुतो मया परया । श्रीदेवसूरिगुरुराट्-शिष्यश्रीहेमचन्द्रेण ॥१७॥ स्वप्रशंसेवाऽन्यनिन्दा सतां लज्जाकरी खलु ॥ “हैमवचनामृतम्" Page #12 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरु: २...... परमपूज्य - शासनसम्राट् - बालब्रह्मचारि - तपागच्छाधिपति सूरिचक्र चक्रवर्ति-तातपाद-श्रीविजयनेमिसूरीश्वराणां गुरुस्तुत्यष्टकम् ।। - मुनिरत्नकीर्तिविजयः सदैव संस्मराम्यहं यदीयनाम कामदं कृताशुभाघनाशकं महोदयप्रदायकम्। सुमन्त्रवत्प्रभावकं प्रभूतसिद्धिवृद्धिदं नमामि नेमिसूरिपं जगद्गुरुं च तं मुदा ।।१।। त्वदीय सेवनादधीः सुधीः प्रजायते परः त्वदीयदर्शनादघव्रजश्च नाथ ! नश्यति । त्वदीयसंस्तवो मदीयचित्तशोधको वरो नमोऽस्तु ते नमोस्तु ते नमोऽस्तु तातपादः ते ।।२॥ स्वकीयजन्मना च येन पावनीकृतं कुलं समर्पिता स्वतातमातरौ च तुष्टिरद्भुता । समस्तलोककोकशोकमोचकोष्णदीधितिः चिरं स जीवताद् गुरूत्तमश्च नेमिसूरिराड् ।।३।। अधन्यमस्ति जीवनं ममाऽथ नाथ ! तारय त्वमेव मे शरण्यमत्र किञ्चिदस्ति नाऽपरम् । . कृपां विधेहि नाथ ! मय्यनाथशेखरे खलु भवे भवे तवैव पत्कजं च मेऽस्तु मन्दिरम् ।।४।। Page #13 -------------------------------------------------------------------------- ________________ .नन्दनवनकल्पतरुः २...... स्वचेष्टितेन येन यज्जगत्समं वशीकृतं तदक्षवृन्दमञ्जसा जितं स्वकीयतेजसा । भवप्रचारवारकं प्रतापपुञ्जधारकं भजामि नेमिसूरिपं स्वचितशुद्धये परम् ||५|| महौजसा च यत्कृतं त्वया जिनेन्द्रशासने न कोऽपि दृश्यतेऽपरोऽत्र नाथ ! तत्कृते ह्यलम् । कृतं यदुष्णरश्मिना तदर्थमस्ति कः प्रभुः ? अमेयशक्तिधारिणे नमोऽस्तु नेमिसूरिणे || ६ || समुद्धृतानि नैकजीर्णतीर्थकानि येन हि तथाऽञ्जनादिसद्विधिप्रवर्तनं कृतं पुनः । तपागणैकनायकं ममाऽपि बोधिदायकं नमामि नेमिसूरिणं परास्तकामवैरिणम् ||७|| चन्द्रज्योत्स्नेव यस्य प्रथितमनुदिनं सद्यशस्तेज उच्चै - रुद्यतं शासनाभ्रे प्रणयति विपुलं सच्चकोरांश्च प्रीणत् । शीलाद्यैः सद्गुणौघैरिव रचिततनुं नेमिसूरीश्वरं तं लाजैः सद्भावरूपैः प्रमुदितहृदयोऽहं हि वर्धापयामि ||८|| XXX3 श्रेयान् स देशो नो यत्र श्रूयन्ते दुर्जनोक्तयः ॥ 66 ' हैमवचनामृतम् Page #14 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... - - कनुति -मुनिधर्मकीर्तिविजयः शुभशीलबलैः वरदीप्तिधरं विहिताचरणं मुनिवारवरम् । भगवद्गदितागमगर्भधरं प्रणमामि सदा प्रभुनेमिगुरुम् ॥१॥ चरणे करणे च मुदोद्यमिनं मित-मञ्जुल-कोमलवाक्सदनम् । शिशु-वृद्धनृणां प्रियकारिवि/ प्रणमामि सदा प्रभुनेमिगुरुम् ।।२।। जिनशासनमान्यगुरुं विबुधं जिनराजमतस्य हिते निरतम् । अचलापतिसंहतिसंजुषितं प्रणमामि सदा प्रभुनेमिगुरुम् ।।३।। काकानां तस्कराणां च नश्यतां का ननु त्रपा॥ “हैमवचनामृतम् । - -- - - Page #15 -------------------------------------------------------------------------- ________________ .....नन्दनवनकल्पतरुः २...... - चरित्र कथा || शासनसम्राट एकं कालजयि अस्तित्वम् ।। -मुनिरत्नकीर्तिविजयः तेसिं नामग्गहणे पावप्पबंधा विलयं जंति ।। प्रवर्ततेऽस्मिन्पृथिवीतलेऽविच्छिन्नतयाऽद्यावधि लोकोत्तरमेतजिनशासनम् । निर्ग्रन्थाः साधुमहात्मानोऽस्य शासनस्याऽविच्छिन्नताया आधाराः सन्ति। अद्यपर्यन्तमस्मिन्शासने नैके धुरीणा महापुरुषा अभवन् । यैः सर्वरीत्याऽस्य शासनस्योद्योतः कृतोऽस्ति। शासनस्य सर्वोपरित्वमपि यथातथमेव रक्षितं तैः । कार्यस्यास्य साफल्ये मूलमस्ति तेषां महापुरुषाणां साधुत्वम् । विशुद्धायाः साधुताया: विकासे मुख्य द्वे शक्ती वर्तेते - अहङ्कारशून्यं ज्ञानं निर्दम्भचारित्रं च। प्रविशति ज्ञाने यदाऽहङ्कारो यदा च दूष्यते चारित्रं दम्भेन तदा यत्प्रवर्तते तन्न शासनप्रभावना शासनस्योद्योतो वा । किन्तु तत्कपटेन मुग्धजनान् वञ्चयित्वा स्वकीयस्य स्वार्थस्याऽहङ्कारस्य च पुष्टिरेव भवति । तत्र स्वोत्कर्ष एव शासनप्रभावनात्वेन मन्यते । यत्तु केवलं भ्रमरूपमेव । बहुशो भ्रमो वस्तुस्थित्या अधिकं मधुरोऽनुभूयते । अपरं च, सुकरमज्ञानस्य दूरीकरणं भ्रममुक्तिस्तु सुदुष्करैव । नयति भ्रमः कदाग्रहं प्रति जाड्यं प्रति चाऽज्ञानम्। ____ यावन्न विलीयतेऽहङ्कारो दम्भोऽपि यावन्नोन्मूल्यते तावन्न बाह्यवेषः साधुताया द्योतको भवति। “त्यागात् कञ्चकमात्रस्य, भुजगो न हि निर्विषः” साधुत्वस्य साधना नाम निर्विषीभवनस्य प्रक्रिया । सांसारिकवेषस्य त्याग-1 मात्रेणैव न कदापि साधुत्वं प्रादुर्भवति, किन्तु सांसारिकस्थितेः सर्वात्मना Page #16 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... mana - - त्यागेनैवोद्भवति । बाह्यवेषस्तु केवलं साधुपदं सूचयति न तु साधुत्वं तत्तु आन्तरपरिणत्यैव ज्ञायते । पुण्यं हि बाह्याडम्बरं निर्मातुमलं किन्तु साधुतायाः विकासं न तत्प्रतिजानीते । तस्याः विकासस्तु पौरुषेण शुद्धपरिणत्या चैव कर्तुं शक्यः ।। अथ च पुण्यं यदा बलीयः तदा बहुशः पुरुषार्थो विकलो भवति । तदैव चाऽहङ्कारो दम्भश्च प्रवेशमाप्नुतः । अत एव साधुः सदैव पुण्याद् बिभेति । उक्तं च - 'भवहेतुत्वतश्चायं, नेष्यते मुक्तिवादिनाम् । पुण्यापुण्यक्षयान्मुक्ति - रिति शास्त्रव्यवस्थितेः ।।' (अष्टकप्रकरणे ७/३) पुण्यवाञ्छाऽपि साधूनां निषिद्धा श्रीहरिभद्रसूरिभगवताऽनेन कथनेन । यतो न कदाचिदिच्छति साधुः पुण्यं न च स्वोत्कर्षाय तदुपभुङ्क्ते । शासनमेव भवति साधोः सर्वस्वम् । यच्च स आदरति कुरुते च तत्सर्वं शासनस्य सड़घस्य चोत्कर्षार्थमेव भवति । तथैव च तस्य साधुत्वं दीप्यतेऽपि । ___वर्तमानकाले एतादृश्याः परमनिरीहाया ज्ञानपूतायाश्च साधुताया धारकाः पुरस्कर्तारश्च, स्वकीयेन च सामर्थ्येन शासनस्य सड़घस्य च सर्वरीत्योन्नतिकराः महापुरुषाः शासनसम्राड्-बालब्रह्मचारि-तपागच्छाधिपति-सूरिचक्रचक्रवर्तितातपाद-आचार्यश्रीविजयनेमिसूरीश्वराः सन्ति स्म । अतस्तेषां परिचयदानार्थोऽयं प्रयासो मम। ____ वस्तुतस्तु तेषामयं परिचयप्रयासो दुस्साहसमेव मादृशानाम् । यतोऽनुभूतिगम्यं जीवनं शब्दस्थयितुं कथं शक्यम्? ती पि यस्य कस्याऽपि यत्किञ्चित्स्वरूपाऽपि भक्तिः सत्पुरुषैरवश्यमेवाऽऽदरणीया भवतीत्यतो ममाऽपीदृशी बालसुलभां चेष्टां सत्पुरुषाः स्वीकुर्वन्तामित्यभ्यर्थये । "बालोऽपि किं न निजबाहुयुगं वितत्य विस्तीर्णता-कथयति स्वधियाऽम्बुराशेः ? ॥' Page #17 -------------------------------------------------------------------------- ________________ .नन्दनवनकल्पतरु: २...... एतादृशो बुद्ध्याऽगम्यचरित्रो महापुरुषो न मया दृष्टो नाऽनुभूतोऽपि, केवलं गुरुजनानां मुखेन चरित्रपठनेन च परिचितोऽहम् । अज्ञानतयैव लब्धस्य चिन्तारत्नस्य मूल्यं ज्ञात्वा यादृशी आनन्दानुभूतिर्भवति तादृशीमनुभूतिमहमधुना तेषां भगवतां समुदायं सम्प्राप्य करोमि। अतः तद्भक्तिप्रेरितोऽहमेतदुस्साहसमप्येकयैव श्रद्धया करोमि यत् - तेसिं नामग्गहणे पावप्पबंधा विलयं जंति ।।' (१) सौराष्ट्रदेशस्य तिलकतुल्यायां मधुमत्यां नगर्यां वैक्रमीये नन्दयुगनन्देन्दु(१९२९)मिते वर्षे कार्तिकशुक्लस्य प्रतिपद्दिने तेषां जन्माऽभूत् । नूतनवर्षाभ्युदयेन सहभावि तज्जन्म सूचयतीव भविष्यत्कालीनं तत्कर्तृकं जिनशासनस्योद्योतम् । तेषां पिता लक्ष्मीचन्द्रश्रेष्ठी माता च दीवालीबाई श्राविकाऽऽस्ताम् । ____ दृष्ट्वा निजपुत्रस्य तेजस्वि ललाटं प्रसन्नां सौम्यां च मुखमुद्रां मातापित्रोरुभयो-रपि हृदयं हर्षेणोर्मिमदभूत् । एवमनिमेषनयनैः पश्यतः पितुर्दृष्टिः पतिता बालस्य ललाटे । दृष्टश्च तत्र लघीयान्मणिः । सामुद्रिकलक्षणानुसारेण स्वपुत्रस्य भविष्यत्कालं विचारयतस्तस्यानन्दो द्विगुणितोऽभूत् । तनगर्यामेव स्थितं ज्योतिर्विदं श्रीविष्णुभट्टविप्रं तज्जन्मसमयादि विज्ञाप्य फलादेशार्थं जिज्ञासा प्रदर्शिता । सर्वं सविस्तरं ज्ञात्वा विप्रोऽवदत् - 'एष बालस्तु महापुरुषत्वेन ख्यातो भविष्यति । यद्येष संसारे वसेत् तदा महानृपतिसदृशो भवेत् किन्तु, बालकस्याऽस्य जन्मलग्नं तु कुम्भलग्नमस्ति । यश्च जनः कुम्भलग्नो भवति स निश्चयेन महान् साधुरेव भवति-इति ज्योतिःशास्त्रस्य कथनम् । अतस्तव पुत्रोऽवश्यं साधुरेव भविष्यति।' श्रुत्वैतत्कथनं विप्रस्य प्रमुदितहृदयः स गृहमागत्य सर्वं सविस्तरं निजभार्यामचीकथत् । साऽपि निजपुत्रस्यैतादृशं कल्याणकरं वृत्तान्तं श्रुत्वा हर्षो - Page #18 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरु: २...... ल्लसितवदनाऽभवत् । ___ अथ च शुभेऽहनि जन्मराशिवृश्चिकानुसारेण 'नेमचन्द' इति नाम दत्तम् । मातापित्रोः स्वजनानां च स्नेहेन दिवसा व्यतियन्ति । सप्त वर्षाणि व्यतीतानि । मातापितृभ्यां स प्रेषितः शालायां पठनार्थम् । तीव्रमेधाशक्तिना स्वल्पेनैव कालेन तेनाऽभ्यासः पूर्णः कृतः। व्यतीते कियति काले एकदा नेमचन्दः स्वपितरं प्रत्यवदत् - 'तात ! संस्कृतपठने धार्मिकाभ्यासे च वर्तते मे चिकीर्षा ।' श्रुत्वैतत् सहर्ष पिताऽजल्पत् - 'यदि वर्तते तवाऽभिलाषः पठने तर्हि तदर्थं तुं त्वया भावनगरं गन्तव्यम् । तत्र विराजते श्रीवृद्धिचन्द्रगुरुराजः । स एव त्वां पाठयिष्यति।' ___ 'रुच्यनुसारेण वैद्यकथन' मिव पितुरेतद्वचनमाकर्ण्य स हर्षभरान्वितचित्तोऽभूत् । झटिति च तद्वचने स्वीयस्वीकृति दर्शिता । पित्राऽपि गुरुभगवन्तं वृतान्त एष ज्ञापितः, अनुमतिरपि च प्राप्ता। अथ च मातृपित्रोराशिषं संप्राप्य गतवान् स गुरुभगवतः पार्श्व भावनगरम् । तत्र स्थितः स सविनयं गुरुभगवतः पार्श्वे ज्ञानार्जने रतोऽभवत् । गुरुभगवतस्तत्रस्थानां च सर्वेषां साधुभगवतां सपर्याऽपि स नित्यं भक्त्या करोति। एकदा रात्रौ सुप्तः सन्नपि गतनिद्रः स चिन्तयति - ‘शालायां मयाऽभ्यासः कृतः । अत्राऽपि च पठनार्थमेवाऽऽगतोऽस्मि । कालं प्राप्य गृहगमनम्, तत्राऽपि धनार्जनाय व्यापारकरणमित्यादि सर्वं भविष्यत्येव । किन्तु, एतस्यां सर्वस्यां प्रवृत्तौ मम किम् ? किं ममैतज्जन्मैवमेव पूर्णतामेष्यति ? स्वल्पमपि सत्कार्य विनैव यद्यैष मे भवो समाप्स्यति तदा मां को लाभो भविष्यति ? अहं किमेवं कुर्यां येन मम परेषां च श्रेयो भवेत् ? कोऽस्य मार्गः ?' एवं चिन्तयन् - 'साधुजीवनमेवोत्तमो मार्ग': इति विचारितं निश्चितं च। सामान्यतोऽपि न संसारे रतिस्तस्याऽऽसीत् । अधुना त्वेतेन विवेकपूतेन Page #19 -------------------------------------------------------------------------- ________________ .......नन्दनवनकल्पतरुः २...... - - - चिन्ततेनाऽवशिष्टोऽपि नष्टः संसारमोहस्तस्य । तदैव निश्चितं तेन साधुत्वाऽङ्गीकारार्थम् । “सत्सङ्गतिः कथय किं न करोति पुंसाम्''। एकदा गृहात् पत्रमागतम् यद् - 'नेमचन्दस्य पितामही पञ्चत्वं प्राप्ता।' तेन प्रत्युतरं प्रेषितं यद् - ‘साररहितोऽयं संसारः । सर्वमेवाऽत्राऽनित्यं वर्तते । न कोऽपि कस्यचिदस्ति । अतो धर्माचरणमेव सत्यम् ।' ___सहसैवैतादृशं प्रत्युत्तरं सम्प्राप्य पुत्रस्य च परिवर्तितचित्तवृतिं ज्ञात्वा पित्रा लक्ष्मीचन्द्रेण पश्चात् स्वस्वास्थ्यविकृतिं ज्ञापयित्वा नेमचन्द आकारितः । झटित्यागतो नेमचन्दः । किन्तु सर्वं तत्र व्यवस्थितं दृष्ट्वा स्वजनानां कपटचेष्टितं तेन ज्ञातम् । पुनरपि भावनगरं गन्तुं स उत्सुकोऽभूत् किन्तु न केनाऽप्यनुमितिः प्रदत्ता। स्वयं स गृहे वसति किन्तु तन्मनस्तु गुरुचरणे एव विद्यते । समयेन सार्द्धं वैराग्यमपि तस्य दृढतरं भवति । परस्परं मित्रैः सह वार्तायामपि तस्यैक एव ध्वनिवर्तते यद्-"संयमः एव सत्यो मार्गः । अहं तु दीक्षा ग्रहीष्याम्येव । संसारे नास्ति कोऽपि सारः।" ___पिता लक्ष्मीचन्द्रोऽपि निजपुत्रस्येदृशी भावनां परिवर्तयितुं सततं प्रयतते । तस्य मित्रैरपि प्रयत्नाः कृताः किन्तु न केऽपि सफला अभवन् । अन्ततोगत्वाऽन्तिमोपायस्वरूपेण नेमचन्दं स्वमित्रन्यायाधीशस्य पुरः सोऽनयत् । तेनाऽपि यथाशक्यं कृतम् । तेन कथितम् -- यदि त्वं नंक्ष्यसि तहिं तव हस्तौ पादौ च बद्ध्वा कारायां क्षिपामि ।' इति श्रुत्वा निर्भीको नेमचन्दोऽवदत्-कामं बध्नन्तु क्षिपन्तु च । शृङ्खलया तु शरीरं मे बध्यते न त्वात्मा । अतो नास्ति मे कोऽपि भयावकाशः ।' दृढतरमेतत् प्रत्युतरं प्राप्य स न्यायाधीशोऽपि क्षणमवागिवाऽभूत् । एवं सर्वेषु प्रयत्नेषु निष्फलत्वं प्राप्तेषु पिता लक्ष्मीचन्द्रः सचिन्तोऽभवत् । तन्मनः चिन्ताग्रस्तमभूत् - यद् - 'नेमचन्दः पलायनं मा कुर्यात्' । ___ अत्र नेमचन्दोऽपि कमप्युपायं विचारयति। यतः - - - Page #20 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरु: २...... - - "नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥" एकदा सायङ्काले 'मित्रस्य गृहं गच्छामी'त्युक्त्वा गृहानिर्गतो नेमचन्दः । गतश्च साहसिक्यमवलम्ब्यैकमुष्ट्रवाहकं प्रसाद्य तदीयोष्ट्रमारुह्य भावनगरं गुरुभगवतः पार्श्वे । निवेदिता च गुरुभगवते स्वकीया भावना । सहसा तस्याऽऽगमनं दृष्ट्वा गुरुभगवताऽत्याश्चर्यमनुभूतम् । यदा च तेन स्वकीया भावना दर्शिता तदा गुरुभगवता कथितम् ‘उत्तमा तव भावना किन्तु न त्वत्पित्रोरनुमति विना तां पूरयितुमुत्सहेऽहम् ।' ____ आकण्र्यैतद् गुरुवचनं, ‘कृतमेतादृशमपि मे साहसं किं निष्फलं भविष्यति ?' इति चिन्तया स व्याकुलोऽभूत् । 'न कदापि करिष्यामीतो गृहं प्रति पुनर्गमनं, दीक्षामेव ग्रहीष्यामी' ति दृढसङ्कल्पः सोऽन्यद् विचारयितुं प्रवृत्तः।। ___ अत्र, प्रातःपर्यन्तं पुत्रमदृष्ट्वा सचिन्तौ पितरौ तस्य शुद्धयर्थं प्रवृत्तौ । अन्ततोगत्वा भावनगरगमनमेव तस्य सम्भाव्य तत्रैव पत्रं प्रेषितं तच्छुद्ध्यर्थम् । ततश्च प्रत्युत्तरं प्राप्तं यद् - "व्रतोत्सुकः स अत्राऽऽगतोऽस्ति । किन्तु, न भवदनुमति विना किञ्चिदपि भविष्यति । प्राप्यैतदुत्तरं मातापितरौ स्वजनाश्च स्वस्थाः चिन्ता-भाररहिताश्चाऽभवन् । इतो 'जलं विना मीन' इव स्थितिर्नेमचन्दस्य व्रतप्राप्तिं विना भूता । एकदा कस्यचिन्मुनिभगवतः सकाशात् साधुवेषं सम्पाद्य स्वयं धृतवेषः गुरुभगवत्समक्षं समुपस्थितः। रजोहरणं तु आसन्नं स्वर्गतस्य तपागणैक गगनमणे: श्रीमूलचन्दजीगुरुभगवतः (श्रीमुक्तिविजयजीगणिवरस्य) प्राप्तम् । आगामिनि काले तपागच्छस्य धुरीणत्वमस्यैतत्सूचयति । ____ गुरुभगवताऽपि मनोदाढ्यं तस्य समीक्ष्य दीक्षा प्रदत्ता । वैक्रमीये बाणवेद-निधि-विधु (१९४५) वर्षे ज्येष्ठशुक्लसप्तम्यां तिथौ चारित्रं गृहीतवान् सः । 'मुनि नेमविजय' इत्यभिधानं कृतं गुरुभगवता । एवं सङ्कल्पसिद्धेः चित्तं प्रसन्नमभूत्तस्य । - - - Page #21 -------------------------------------------------------------------------- ________________ १४ .नन्दनवनकल्पतरुः २...... अथ च ज्ञात्वा तस्य प्रव्रज्याया उदन्तं सर्वे स्वजनाः सरोषं तत्राऽऽगताः । केनाऽप्युपायेन स्वपुत्रं गृहं नेतुमुद्यताः सर्वे यथातथा जल्पितुं लग्नाः माता तु हृदयद्रावकं रुदनमकरोत् । प्रयत्नशतेनाऽपि तं निश्चलमेव दृष्ट्वा सर्वे शान्ता अभवन् । मातापितरावपि गुरुभगवन्तं क्षान्त्वा नवदीक्षिताय स्वपुत्राय हितशिक्षां प्रदाय स्वस्थानं गतौ । विजितं तत्र वैराग्यं न तु मोहः । (२) इदानीं ते निर्दम्भसमर्पणभावेन चारित्रचर्यायां रक्ता अभवन् । लक्ष्यप्राप्त्यर्थं च स्फारपौरुषेण ते प्रवृत्ता अभूवन् । गुरुभगवन्तं प्रति संयमजीवनं प्रति च तेषां समर्पणमपूर्वमस्ति स्म । कृतत्यागस्याऽऽनन्दोऽपि तेषां प्रत्येकं प्रवृत्तौ सहज एव गोचरीभवति स्म । यतो ज्ञानपूतं वैराग्यमेव तन्मूलमासीत् । अपरं चैतादृगेव त्याग आन्तरिकीं प्रसन्नतां जनयितुमलम् । गुरुसमर्पणभावस्तु तेषां परमं साध्यं वर्तते स्म । ' तद्रहितो विकासो भवेत् कदाचित् पतनस्य कारणम् । किन्तु गुरुकृपामूलो विकास एवाऽऽत्मोन्नतेमर्गमुद्घाटयती 'ति दृढं मन्वानास्ते गुरुभगवतां विचारं वर्तनं च जिनेन तुल्यं गणयित्वैवाऽनुसृतवन्तो नित्यम् । ज्ञानार्जन-गुणानुराग-क्रियारुचि तपोवृत्ति - गुरुविनयेत्यादिभिरने कैर्गुणैप्रतिहतगत्या ते प्रगतिं साधितवन्तः । 'शक्त्या सहाऽहङ्कारोऽप्युत्पद्यत एवे' ति लोकोक्तौ तेऽपवादरूपा आसन् । यतः शक्तिस्तु तेषां न केवलं पुण्यजन्याऽऽसीत्, अपि तु मोहनीयक्षयोद्भवाऽऽसीत् । यथा यथा ज्ञानादिगुणानां वृद्धिर्भूता तथा तथा तेषां विनयोऽपि परां कोटिमारूढः । 'इंगियागारसम्पन्ने' इत्यादीन्युत्तराध्ययनसूत्रोक्तानि विनयलक्षणान्यपि तेषां जीवने तादृशमनुभूयन्ते स्म । 'पूर्वभवगतं क्षयोपशमं तत्सार्द्धं च गुरुकृपासम्पादनम्,' पश्चाच्च किं भवेदसाध्यम् ? प्रतिभा तु तेषां सर्वतोमुखा भूता । Page #22 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... % - स्वल्पेनैव कालेन प्राथमिकोऽभ्यासः पूर्णः कृतः । अथ ‘कोऽपि मेधावी साधुः कौमुदीव्याकरणमधीयता' मिति गुरुभगवतां चिरमनोरथं पूरयितुं सङ्कल्पितवन्तश्च ते । एकदा गुरुभगवतः पार्श्वे विज्ञाप्तिरपि कृता यद् - 'भवदभिलषितं कौमुदीव्याकारणमध्येतुमहमुत्सहे । अतो यदुचितं तदादिशतु भवान्'। आकर्यैतत् स्वविनेयस्य विनयवचनं गुरुभगवन्तोऽप्यतीव प्रसन्ना बभूवुः । सततं वर्षन्तीदृशी गुरुभगवतां प्रसन्नता एव तेषां सर्वाङ्गीणस्य विकासस्य मूले वर्तते स्म । गुरुभगवन्तोऽपि सर्वं विरचितवन्तः । राज्यस्य पण्डितमहोदयस्य पार्श्वे - ऽभ्यास प्रारब्धः। स्वीयप्रतिभया विनयगुणेन च पण्डितवर्यस्य हृदयमावर्जितं तैः । यावन्नेष अभ्यासः समाप्नुयात् तावत् षड्विकृतीनां त्यागं सङ्कल्पितवन्तस्ते । ईदृशो वर्तते स्म तेषां गुरुभगवन्तं प्रति समर्पणभावः । शरीरे ज्वरादयो व्याधयोऽप्युद्भूतास्तथापि स्वप्रतिज्ञायां ते दृढा एवाऽतिष्ठन् । तिस्रः चतुर्मास्यस्तत्रैव भावनगरे कृताः। तत्काले पूज्यदानविजयमहाराजाः न्यायव्याकरणादिविषयेऽतुलं विद्वत्तां दधानाः ख्याता आसन् । पादलिप्तपुरे संस्कृतपाठशालायाः स्थापने तेषाममिलाषः प्रावर्तत। पूर्वकालस्य सम्यक्परिचयात् 'यदि मुनिनेमविजयोऽत्राऽऽगच्छेत्तर्हि पाठशालायामभ्यासादिप्रवृत्तयः सुष्ठ प्रवर्तेरन्' इति ते सततमवाञ्छन् । सिद्धि - युग-निधीन्दु (१९४८) वर्षे यदा तैः पूज्यैः पाठशाला स्थापिता तदा भावनगरं पूज्य वृद्धिचन्द्रजीगुरुभगवन्तं प्रति विज्ञप्तिरपि प्रेषिता यद् - 'मुनिने मविजयमत्र कृपया प्रेषयतु भवान्'। गुरुभगवताऽपि लाभाऽलाभादि सम्यग् विचार्याऽऽज्ञा कृता । गुरुभगवत्स्वास्थ्यमनुलक्ष्य स्वयमनिच्छन्तोऽपि गुरुभगवतामाज्ञामनुसृत्य गतवन्तस्ते । श्रीदानविजयगुरुभगवन्तोऽपि तान् दृष्ट्वा परमां प्रसन्नतां प्राप्नुवन् । अध्ययनाऽध्यापनादि सर्वं सवेगं प्रवर्तितम् । अथ च - अत्र भावनगरे श्रीवृद्धिचन्द्रगुरुभगवतां स्वास्थ्यविकृतिर्वृद्धिं Page #23 -------------------------------------------------------------------------- ________________ १६ ......नन्दनवनकल्पतरु: २...... - गता। परमपूर्वसमाधिना सर्वं सहमानास्तेऽतिष्ठन् । सकलोऽपि भावनगरस्थः सङ्घो नक्तन्दिनं तान् शुश्रूषते। व्याधिना सार्द्धं समाधिरपि तेषां प्रावर्द्धता एवं समाधि-पूर्वकं सकलसङ्घस्योपस्थितावेव स्वर्गतास्ते पूज्यचरणाः । वृतान्त एष गुरुभगवतां श्रुत्वा श्रीनेमविजयमहाराजा भग्नहृदया अभूवन् । अन्तःकाले स्वस्याऽनुपस्थित्या दुःखं तान् शल्यायते स्म । किन्तु 'न घटितं प्रत्येति कदापी'ति चिन्तयन्तः स्वस्था अभवन् । ‘अधुना तु गुरुभगवत्तुल्यान् गुणानङ्गीकृत्य तेषां च भावनानुरूपेण शासनस्योद्योत एव कर्तव्य' इति निश्चितवन्तः । नन्दवेदनिधीन्दु (१९४९) वर्षस्य चतुर्मासी पादलिप्तपुरे एव स्थिताः । __(३) ज्ञानप्राप्तिस्तु प्राधान्येन लक्ष्यरूपेण प्रवर्तत तेषां जीवने । 'चारित्रजीवनस्याऽऽधारोऽपि ज्ञानमेव विद्यते' इति दृढं तेऽमन्यन्त।। ज्ञानं न केवलं श्रमसाध्यः क्षयोपशमसाध्यो वा योगः । नापि तावन्मात्रेणैव तत् कार्यं साधयति । किन्तु श्रमेण क्षयोपशमेन वा सार्द्धं यदा समर्पणं विनयश्च प्रविशतस्तदैव तदान्तरिकी निर्मला परिणतिं जनयितुं समर्थं भवति । सैव निर्मला परिणतिर्विवेकमुद्भावयति, समन्वयं जनयति, शान्ति स्थापयति सन्मार्ग च दर्शयति सर्वेषु क्षेत्रेषु । केवलं क्षयोपशमेन जन्यं ज्ञानं कदाचित् चित्तेऽहङ्कारमुद्भावयेदिति शक्यमेव, पश्चाच्च ‘ज्ञानं विवादाये'त्युक्तिमपि सत्यापयेत् । तेषां जीवने प्रतिक्षणं दृश्यमाना जागृतिः, निर्दम्भवृत्तिः, सरलता च तेषां समर्पणपूतस्य ज्ञानस्यैव प्रभाव आसीत् । सर्वोत्कृष्टायामपि बाह्योपलब्धौ ते मिथ्याभिमानमस्पृशन्त एव निर्लेपा निरहङ्काराश्चाऽतिष्ठन्, तत्राऽपि तेषां ज्ञानपूता परिणतिरेव कारणभूताऽऽसीत् । सततं ते व्यचारयन् यद्-‘सङ्घस्य मूलं तु ज्ञानमेवाऽस्ति । तत्सर्वोऽपि यद्यज्ञानमेव प्रवय॑ते तर्हि परस्परं वादविवादे तस्य सामर्थ्यं सत्त्वं वा विनक्ष्यति । ज्ञानं तु सङ्घस्य शक्तिरस्ति । अत एव तैः पूज्यैामे ग्रामे धार्मिकाभ्यासार्थे पाठ - - - Page #24 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... शालायाः स्थापनं कृतम् । प्रौढवयस्कजनानां कृते च 'जैनतत्त्वविवेचकसभा' इत्याख्या संस्थाऽपि संस्थापिता। न केवलं श्रावकवर्गे एव किन्तु साधुसमुदायेऽपि तैर्ज्ञानस्य यज्ञ एवाऽऽरब्धः। स्वयमेव तेऽनुशिष्ट्या शिष्यानध्यापयन्तः स्वाध्यायादिषु च सततं प्रेरयन्ति स्म । तेषां शिष्या अपि ज्ञानेन परिणताः कदाग्रहमुक्ता एवाऽभवन् अत एव च तैः शिष्यैर्न कदाचिदपि केऽपि विवादा उत्थापिताः । अन्येभ्यः सकाशादुत्थिता विवादास्तु तैः शमिताः किन्तु न पुरोभूय कदापि समर्थिताः । कदाग्रहमुक्तस्यैव ज्ञानस्याऽत्र मूल्यं वर्तते स्म । यस्मादाग्रहा उद्भवन्ति न तद् ज्ञानं किन्तु ज्ञानाभास एव । अत्र नाऽऽसीत् कोऽप्यवकाशो ज्ञानाभासाय । तेषां पूज्यानां ध्येयं न केवलं साधूनां सङ्ख्याया वृद्धिः किन्तु साधुत्वविकासे एव ते बद्धलक्ष्या आसन् । 'सर्वं परित्यज्य ये स्वस्याऽऽश्रयं स्वीकुर्वन्ति तत्तु स्वात्मकल्याणार्थमेव । एतादृशं संयमजीवनं प्राप्य ज्ञानं च समाऽपि यदि विवादादिषु ते रमेरन् आग्रहिणो वा भवेयुस्तर्हि ते स्वस्याऽहितेन सह सङ्घस्य शासनस्य चाऽहितमेव कुयुः' अत एव ज्ञानाभ्यासेन सह गुणविकासमपि ते सततं निरीक्षन्ते स्म । विहरणकालेऽपि नित्यं नैकशतश्रावका वन्दनार्थमायान्ति स्म तथापि वसतिं प्राप्य स्वयं साधून नीत्वा वृक्षस्याधस्तले उपविश्याऽध्यापयन्ति स्म । ____वर्तमानकाले साधुसमुदयेऽध्ययनाध्यापनादिक्षेत्रे यत्किंरूपापि प्रवृत्तिदृश्यते तदुपकारोऽपि तेषामेव भगवतामस्ति । सुषुप्तां ज्ञानसाधनां चेतनवती कृता तैर्भगवद्भिः। ____ अपरं च प्राचीनहस्तलिखितग्रन्थानां संरक्षणार्थ मधुमती-स्तम्भतीर्थअहम्मदावादादिषु स्थलेषु तेषां पूज्यानां प्रेरणया चित्कोषा अपि निर्माणमाप्ताः । हेमचन्द्राचार्य -हरिभद्रसूरि-महोपाध्याययशोविजयादिमहापुरुषाणां ग्रन्थानां सुचारुप्रकाशनार्थं “जैनग्रन्थ प्रकाशक सभा' इति संस्था स्थापिता । अनेकग्रन्थरत्नानि च संशोध्य प्रकाशितानि । स्वयमपि नैकग्रन्थान् ग्रन्थानां - - Page #25 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... - - टीकाश्च रचितवन्तः। तेषामेषा सर्वतोमुखप्रतिभा तु ज्ञानमूलैवाऽऽसीत् । तादृशीं तेषां प्रतिभामनुलक्ष्यैव वैक्रमीये गगनर्तुनिधिविधु(१९६०)मिते वर्षे पण्डितपदं पश्चाच्च वैक्रमीये युगर्तुनन्देन्दु(१९६४)वर्षे श्रीगम्मीरविजयजीभगवता तेभ्यो विधिपूर्वक माचार्यपदं प्रदत्तम् । अस्मिन् शतके योगोद्वहनादिविधिपूर्वकमाचार्यपदप्रापकाः प्रथमा एव तेऽभवन् । अतः एव च 'तपागच्छाधिपति' इति बिरुदमपि सार्थक् वर्त्तते तेषाम् । अतः परं तेषा 'आचार्यश्रीविजयनेमिसूरीश्वरजीमहाराज' इत्यभिधानमभूत् । एकदा वैक्रमीये रिपु-ऋषि-नन्द-विधु (१९७६)वर्षे उदयपुरनगरे ते चतुर्मास्यर्थे व्यराजन्त । तत्र फत्तेहसिंह नाम राजाऽऽसीत् । पूज्यपादानां दर्शनमभिलषन् स स्वकीयं मन्त्रिणं प्रथमं प्रेषितवान् । सोऽपि विद्वान् ज्ञानपिपासुश्चाऽऽसीत् । नित्यं स उपाश्रयं गत्वा श्रीहरिभद्रसूरिविरचितश्रीधर्मसङ्ग्रहणीग्रन्थस्य श्रवणं कुरुते स्म। पूज्यपादानां ज्ञानशीलादिगुणैराकृष्टः स नित्यं राज्ञः पुरः तान् वर्णयति स्म । एकदा राजा तमुवाच - 'तेषां पूज्यवर्याणामत्राऽऽगमनमिच्छामि, अतो योग्यं कुरु' सोऽपि विज्ञप्ति कृतवान् पूज्यचरणाय । किन्तु न पूज्यैः सम्मतिर्दर्शिता । ‘पूर्वीयमहापुरुषास्तु गता एवाऽऽसन् राजमहालये । अतो भवानपि ममालय-मलङ्करोतु' इत्यस्य नृपवचनस्य प्रत्युत्तरे ते ऊचुः ‘ते सर्वे तु महापुरुषा आसन् । अहं तु तेषां चरणरजस्तुल्योऽपि नाऽस्मि । अतो नोचितं तेषामनुकरणं मादृशा-नाम् ।' इति श्रुत्वा राजाऽपि विशेषण पूज्यान् प्रति श्रद्धान्वितचित्तोऽभूत् । ___ एकदा विद्वान् राष्ट्रनेता पण्डितश्रीमदनमोहनमालवीयस्तत्राऽऽगतः । राजानं चाऽपृच्छत् यद् ‘अस्तीह कोऽपि विद्वज्जनः यस्य सङ्गतिं कृत्वाऽऽनन्दं प्राप्नुयाम् ?' राजा उवाच ‘अत्र विद्धत्शिरोमणि जैनाचार्यः श्रीविजयनेमिसूरीश्वरो विराजते । अद्वितीयं वर्तते तेषां विद्वत्त्वम् ।' - Page #26 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... आकर्येशी ख्याति पण्डितवर्योऽपि तत्राऽऽगतः । दर्शनामात्रेणैव स चित्त-तोषमलभत । तत्त्वचर्चाऽपि चिरं कृता तेन । तत्पश्चात्तु स वारंवारं गुरुभगवतां पार्श्वे जिज्ञासापूर्तये आगत्य विविधविषयेषु विमर्श कुर्वन्नासीत् । पूज्य पादाना-मौदार्येण प्रतिभया विद्वत्त्वेन च प्रभावितमानसः स पण्डितवर्यस्तान् 'गुरुजी' इति संज्ञया सम्बोधयितुं लग्नः । तत्पश्चादेकदा अहम्मदावादमपि स आगतः । तदा साग्रहं विज्ञप्तिः कृता तेन यद् ‘गुरुदेव ! भवान् काश्यां पदार्पणं करोतु - इति मे हार्दिकी काङ्क्षा वर्त्तते । अहमपि भवत्पूज्यानां श्रावकवत् सपर्यां करिष्यामि ।' एतादृशास्तु नैकाः प्रसङ्गाः सन्ति तेषां जीवनस्य, ये तेषां प्रतिभा प्रमाणयन्ति । अत्र तु दिङ्मात्रमेव निर्दिष्टम् । (४) ज्ञानमियत्तारूपेणैव केवलं यदा वर्त्तते तदा तदहङ्कारं जनयति । किन्तु यदा तज्जीवने परिणमति तदैव साधुत्वं प्रकटयति । सर्वेषु क्षेत्रेषु तत्रभवतां साफल्ये ईदृग् निर्मलसाधुत्वमेवाऽऽधारत्वेन प्रत्येति । जिनबिम्बानां जिनतीर्थानां जिनस्थापितसङ्घस्य चेत्येतेषामुन्नतिरेव तेषां जीवनलक्ष्यमासीत् । कदम्बगिरि-कापरडा-शेरीसकादिप्रभूतानि पुरातनजैनतीर्थान्युद्धृत्य तत्तत्तीर्थानां प्रभावस्य पुनः स्थापका अपि ते भगवन्त एवाऽऽसन् । शकुञ्जय-सम्मेतशिखर-रैवताचल-तारमादितीर्थेष्वपि सर्वेषु कार्येषु तेषां भगवतां मार्गदर्शनमेवाऽग्रेसरत्वं भजते स्म । विहरणमपि तेषां संघस्य तीर्थानां चोद्धारार्थमेव भूतम् । प्रत्येकं तेषां प्रवृत्तौ जिनशासनराग एवाऽनुभूयते स्म।। एकदा कदम्बगिरितलहट्टिकासत्के ‘बोदानानेस' संज्ञकग्रामे ते आगताः । कदम्बगिरितीर्थस्य जीर्णस्थितिस्तु तैः पूर्वमेव श्रुता किन्तु यदा सा स्थिति दृग्विषयाऽभवत् तदा तेषां हृदयमार्दतां प्राप्तम् । सङ्कल्पितवन्तश्च ते यद् ‘एततीर्थमुर्द्धर्तव्यमेव' । Page #27 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... - - तत्क्षेत्रीयाः सर्वे ठक्कुरा व्यसनिनो हिंसादिषु च सततं प्रवृत्ता आसन् । कदम्बगिरितीर्थस्योपरितनभागे कमलादेव्याः स्थानकमासीत् । सर्वे ते ठक्कुरास्तां भजन्ति स्म पूजयन्ति स्म च । अतस्तत्पर्वतः ‘कमलादेव्याः पर्वत' इत्येवं ख्यातोऽभूत् । गुरुभगवन्तोऽपि तत्र प्रदेशे विहृतवन्तः । मधुरया गिरा चोपदिष्टवन्तोऽपि । निर्मलचारित्रस्यानुभावादमोघया वाण्या ते सर्वे ठक्कुराः प्रबुद्धाः । सर्वैस्तैर्व्यसनानि त्यक्तानि गुरुभगवतां च भक्तत्वमपि प्रतिपन्नम् । उपकारिणामुपकारस्य सदैव संस्मृतिः, उचिते च काले तस्य प्रत्युपकरणस्याऽभिलाष इत्यार्यत्वलक्षणमस्ति । अन्यत् किमपि जानीयादथवा नाऽपि जानीयात् किन्तु सामान्यजनोऽपि यद्यार्यत्वेन संस्कृतो भवेत्तर्युपकारं तु न स कदापि विस्मरेत् । अत्राऽपि सर्वे ते ठक्कुराः सन्मार्गप्रापकानां गुरुभगवतामुपकाराणां प्रत्युपकरणे उद्यता अभूवन् । गुरुभगवन्त एकदा ठक्कुरैः सह पर्वतोपरि गताः । स्वस्य भावनाऽपि तेषामग्रे प्रदर्शिता यद् - ‘अत्र वयं कतिचित् स्थानानि निश्चिनुयाम । तानि तु यूयं जै नसङ्घाय दत्त । यस्मिन् स्थले धार्मिकस्थानानि निर्माणमाप्स्यन्ति धार्मिककार्याण्यपि च तत्र भविष्यन्ति । युष्माकं कल्याणमप्येतेन भविष्यति' इति । ठक्कुरास्तु सर्वे विना मूल्येनैव दातुमुत्सुका ऊचुः - ‘वयं नैनां भूमिं विक्रेतुमिच्छामः । यदि तत्रभवन्तः स्वीकुर्युस्तर्हि वयं भवद्भ्य एवोपहारस्वरूपेणैव दातुं कामयामहे ।' ‘साधूनामेतादृशोपहारस्वीकारकरणं न कल्पते' इत्युक्त्वा गुरुभगवद्भिरस्वीकृतिर्दर्शिता । तदा तेऽकथयन् - 'पूर्वं श्रीहीरसूरिभगवत्र्योऽपि अकब्बरनृपेणैवमैव शत्रुञ्जयादितीर्थानि प्रदत्तानि । तैः पूज्यैस्तु तत्स्वीकारोऽपि कृत एव । Page #28 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... तथैवाऽद्य भवन्तोऽपि स्वीकुर्वन्तु । को बाधः? ' इति । श्रुत्वैतद् भक्ति प्रेरित वचनं गुरुभगवन्तोऽजल्पन् - 'नाऽहं श्रीहीरसूरीश्वरसदृशः समर्थः । तेषां महापुरुषाणां चरणयोरपि नास्ति मे स्थानम् । तेषामनुकरणं मादृशानां न शोभते पामराणाम् ।' ये वस्तुतः शासनस्य धुरीणा महापुरुषास्तेष्वेवैतादृशी निर्दम्भनम्रता दृश्यते । ये तु स्वं सर्वोपरित्वेन ख्यापयन्ति तेषु तु नम्रताया दम्भ एव प्रवर्तते । ____निशम्य गुरुगिरं सर्वे व्याहरन् “एवमस्तु । किन्तु - ‘गुरुभगवद्भिर्वय - मुपदेशदानेन व्यसनेभ्यो मोचिताः स्मः' इति भूमिग्रहणलेखपत्रे यद्युल्लेख्यते तदैव वयं स्वीकरिष्यामः ।" तेषां तादृशं हार्दिकं भावं सम्मान्य तदनुरूपमेव लेखं कृत्वा आणंदजी -कल्याणजीसंस्थया उचित मूल्येनैव भूमिः क्रीता । तीर्थोद्धारकार्यमप्यारब्धम् । गुरुभगवन्तो विहृतवन्तः । संस्था एवैतत्कार्यं करिष्यती' ति मत्वा सततं तेऽप्रेरयन् । किन्तु न कश्चित् परिणामविशेषो दृष्टो दीर्घकालेनाऽपि । तत्कार्यमारब्धमेवाऽवातिष्ठत । व्यतीते कियति काले पूज्यपादाः पुनस्तां तीर्थभूमिमाजग्मुः । 'भिन्नभिन्नश्रावकाणां द्रव्यैरेवैतत्कार्यं करणीय'मिति निर्णीतवन्तश्च । ___ न केवलं पर्वतस्य शिखरे किन्त्वत्र ग्रामेऽप्येको जिनालयः कर्तव्यः' इत्यपि तेषां कामितमासीत् । अतः प्रयत्नपूर्वकं तदर्थमपि भूमिः प्रापिता । ततः परं नूतनजिनगृहस्य जीर्णोद्धारस्य च कार्यमपि सवेगं प्रचलितम् । स्वल्पैनैव च कालेनैकसप्ततिदेवकुलिकामण्डितस्य जिनमन्दिरस्य निर्माणकार्यं समाप्तिमितम् । ___ नूतनतज्जिनगृहस्य प्रतिष्ठार्थं पुनः पूज्यपादैः स्वागमनेन तत्क्षेत्रमलङ्कृतम् । श्रावकश्रेष्ठिनोऽप्यपूर्वेणोत्साहेन महोत्सवं प्रतीक्षमाणा अतिष्ठन् । यतो बहुभिर्वषैर्जिनबिम्बानामञ्जनशलाकायाः (प्राणप्रतिष्ठायाः) प्रसङ्ग उपस्थितोऽभूत् । कियद्भिर्वर्षेर्न केनाऽपि तदर्थं प्रवृत्तिरादृता । पादलिप्तपुरे एतादृशे महोत्सवे Page #29 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... एकदा कश्चिदुपद्रवो जातः, अतो लोका अपि भयग्रस्ता इवाऽऽसन् । कैश्चिद् द्वेषिजनैस्तु ‘दहति घृताहुति'रिव तत्र मुग्धलोकेषु भयमपि प्रवर्तितम्, यद् - 'अत्राऽपि यधुपद्रवो जायेत तर्हि किं भविष्यति?' किन्तु महोत्सवार्थमुपस्थिताः श्रावकास्त्वेतादृशमपप्रचारमलक्षयित्वा निश्चिन्ता एवाऽस्थुः । ते तु दृढममन्यन्त यद्-‘शासनसम्राजां निश्राऽस्माभिर्लब्धा, अतो नास्त्यत्र कोऽपि भयावकाशः ।' वैक्रमीयनिधिसिद्धिनन्देन्दु (१९८९) मिते वर्षे महाशुक्लत्रयोदशीतो महोत्सवः प्रारब्धः। भिन्नभिन्नस्थलेभ्यः सहस्त्रसङ्ख्याका: प्रतिमाः प्राणप्रतिष्ठार्थमागताः। विंशतिर्दिनानि सक्षेमं व्यतीतानि । प्राणप्रतिष्ठायाः पूर्वस्यां रात्रादेव झंझावतः समुत्थितः । सर्वमस्तव्यस्तमभूत् । गुरुभगवन्तो निजश्रुतधरशिष्यं श्रीउदयसूरिमहाराजमपृच्छन् 'उदय ! आसीत् कोऽप्येतादृशो योगः ?' आम् । भगवन्तःकालेऽपि तादृश एव योगो वर्तते' इत्युत्तरं स दत्तवान् । ततो गुरुभगवतामाज्ञानुसारेण स्वयं श्रीनन्दनसूरिमहाराजेन सह विशिष्टो जपयोग आदृतः । इतः सर्वेषु मण्डपेषु प्रतिस्तम्भं पञ्चषा जना रक्षणार्थं च नियुक्ताः । कथित समये एव पुनः झंझावात प्रवृत्तः । किन्तु गुरुभगवतां प्रभावेण न किञ्चिद् घटितमनुचितम् । सानन्दं निर्विघ्नं च प्राणप्रतिष्ठा निष्पन्ना। फाल्गुन-शुक्लतृतीयायां च मूलनायक श्रीमहावीरस्वाम्यादिजिनाबिम्बानि प्रतिष्ठापितानि । एवं सानन्दं प्रतिष्ठामहोत्सवः सम्पन्नो बभूव । तद्दिने एव च पर्वतोपरि निर्माणाधीनानां जिनालयानां प्रतिष्ठाऽपि निर्णीता। ___स्वल्पेनैव कालेन तत्पश्चात् ते जिनालया अपि निर्माणमाप्ताः। तन्महोत्सवेऽपि पञ्चशतानि जिनबिम्बानि भिन्नभिन्नग्रामेभ्योऽञ्जनशलाकार्थं समायातानि । तन्महोत्सवोऽपि पूज्यचरणानां निश्रायां तेषां ब्रह्मतेजःप्रभावेण निर्विघ्नमेव समाप्तिमगात् । एवं 'एतत्तीर्थमुर्द्धर्त्तव्यमेवे'त्यस्य तेषां सङ्कल्पस्य सिद्धिरपि भूता । नेकैवर्षेः सेवितं स्वप्नमपि साकारं बभूव । एतेन च परमस्तोषोऽनुभूतो गुरुभगवद्भिः । - - Page #30 -------------------------------------------------------------------------- ________________ . नन्दनवनकल्पतरुः २....... सङ्घेषु तीर्थेषु च प्रवर्तमानायाः प्रतिकूलताया निवारणं, सङ्घे ज्ञातौ च परस्परं कस्मादपि कारणवशादुपस्थितानां क्लेशानां प्रशमनमेव च तेषां विचरणस्य हेतुत्वेन ववृते । २३ तत्काले मरुधरप्रदेशाः तेरापंथसम्प्रदायस्य साधूनां प्रभावेण प्रभाविता आसन् । गढबोळग्रामे एकदा ते साधव आगताः । जिनालये एव तैः स्थानं गृहीतम् । बहुषु ग्रामेषु तपागच्छीय श्रावका अपि तैः प्रभावितः सन्तस्तानेवाऽनुसरन्त आसन् । स्वल्प प्रमाणा एव स्थितास्तत्र जिनपूजकाः श्रावकाः । ते साधवोऽपि तेभ्य एवमुपदिशन्ति स्म यद् - यथा पाषाणमय्या गोः स्तनेभ्यो न दुग्धं निःसरति तथैव पाषाणमयीयं प्रतिमाऽपि न वो लाभाय । यद्यश्रद्धेयं प्रतिभासेतेदं वचनं तर्ह्येतासु प्रतिमासु कीलकप्रहारेण परीक्षध्वं यद् विद्यते - ऽस्मिन् जीवो न वा ? ।' अज्ञानत्वेन तैः श्रावकैरपि स्वीकृतमेतद्वचनम् । 6 अज्ञानेषु पक्षजडेषु मुग्धजनेषु च वर्तते विवेकस्य सर्वथा अभावः । अपि च पक्षाssग्रहिणो जना:- साधवो वाऽन्ये वा स्वोत्कर्षलालसया स्वकीयं वर्चस्वं स्थापयितुं तादृशानां मुग्धजनानां तद्विवेकाभावमुपयुञ्जाना दृश्यन्ते । लोकेषु धर्मश्रद्धामुपेक्ष्य पक्षरागं पक्षाऽऽग्रहं वा जनयितुं दृढीकर्तुं वा उपायाः प्राक्कालादेव प्रवर्त्तमानाः सन्ति । स्वकीयसाधुताया भगवत्छासनस्य चोद्योतात् स्वोत्कर्षस्याऽधमेच्छा एव यत्र प्राधान्येन वर्त्तेत स एवैतादृशं दुष्कर्मा - ssचरितुमुद्यते । अत्राऽपि तैरज्ञानजीवैर्न केवलं स्वीकृतं तेषां वचनमपि तु तदनुरूपं कीलकप्रहारस्वरूपं निकृष्टं कार्यं कृतमपि । श्रीशान्तिनाथजिनेन्द्रस्य प्रतिमायां द्विपञ्चाशत् प्रहाराः कृताः । एतादृशं दुष्कृतं कारयित्वा साधवो विहृताः । आसन् तत्र केचित् श्रद्धालवः श्रावकाः किन्त्वल्पबलत्वान्न किमपि प्रतिकर्त्तुं समर्था अभवन् । तैः समीपवर्त्तिग्रामस्थसङ्घेभ्य एषा वार्ता ज्ञापिता, किन्तु न किञ्चिद् भूतम् । पश्चाच्च अहम्मदावादस्थश्री आणंदजीकल्याणजी Page #31 -------------------------------------------------------------------------- ________________ २४ ......नन्दनवनकल्पतरु: २..... संस्था-यायेष वृत्तान्तो निराकरणार्थं निवेदितः । ततोऽपि यदा न सन्तोषकारकः प्रत्युत्तरो लब्धस्तदाऽन्ततोगत्वा पूज्यशासनसम्राड् गुरुभगवतां चरणमाश्रितवन्तः। एतादृशं कुत्सिताचरितं तेभ्यः श्रुत्वा खिन्नहृदयै गुरुभगवद्भिस्ते आश्वस्ताः । पश्चात् तत्त्वविवेचकसभासत्कान् सभ्यानाहूय ज्ञापितः सर्वो वृत्तान्तः । गढबोळ-ग्रामवासिभिः श्रावकैः सह वकीलं प्रेषितुं तैर्निणीतम् । सोऽपि चतुर आसीत् । युरोपदेशीयं वेषं परिधाय सार्धं च द्वौ बलवत्पुरुषौ नीत्वा तत्र ग्रामे गतः । सर्वं च निरीक्ष्योदयपुरस्य राज्ञः पुरस्तेन रावा कृता । राज्ञाऽपि सत्यं ज्ञात्वाऽऽदिष्टं यद् - ‘कस्मैचिदपि जिनमन्दिरे स्थानं न देयम् । कोऽपि यदि तत्र स्थास्यति तर्हि स राजदण्ड प्राप्स्यति ।' एवं तत्स्थानादुपद्रवो निवारितः। ____ एतत्परिचयमनुसृत्यैवैकदा तैः श्रावकैः पूज्यचरणा विज्ञप्ताः- ‘भगवन् ! विभूषयतु भवानस्माकं क्षेत्रम् । गुरुभगवन्तोऽपि क्षेत्रस्पर्शनया कदाचित्तत्र गताः। तत्राऽऽसीत् झीलवाडा नामकं ग्रामम् । तत्र च पञ्चाशद् गृहाणि ओसवालज्ञातीयानां श्रावकाणामासन् । किन्तु सर्वे तेरापंथे सम्मिलिता आसन् । प्राचीनजिनमन्दिरमपि तत्रोपेक्षितमेवाऽतिष्ठत् । तद्ग्रामे एव प्रथम पूज्यपादाः स्थिरतामबीभजन् । तत्रस्थः ठक्कुरोऽपि तेषां प्रथमेनैव दर्शनेन प्रभावितोऽभूत् । नित्यं-तत्प्रसादाङ्गणे एव सुधामधुरया गिरा पूज्यैरुपदिष्टा जनाः। युक्तिप्रयुक्तिपूर्वकं मूर्तिपूजाऽपि प्रतिपादिता । कुतूहलवशादेव केवलं श्रोतुमागच्छन्तो जना अपि सयुक्तिकं तच्छुत्वा जिनप्रतिमायां श्रद्धावन्तोऽभूवन् । षट्चत्वारिंशत्कुटुम्बैस्तु पुनः श्रावकत्वं प्रतिपन्नम् । एवं ग्रामं ग्रामं विहृत्य मूर्तिपूजायाः परमात्मनश्च सत्यमार्गस्य स्थापना तत्रभवद्भिः कृता ।। अत्र विशेषस्त्वेतावानेव यन्न कुत्राऽपि तैः स्वकीयं महत्त्वं स्थापितम् । सर्वजनान् सत्यं सन्मार्गं च निदर्श्य वायुवनिर्बन्धमेव विहृतवन्तस्ते। एवं मरुधरप्रदेशेऽपि ते धर्मस्योद्योतं चक्रुः । अधर्मात् पापाचरणाच्च ररक्षुर्जनाः । - - Page #32 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरु: २...... - -when कापरडातीर्थस्य पुनरुद्धारस्तु तेषां जीवनस्याऽनुपमं कार्यमासीत् । तत्काले तत्रैकमेव गृहं श्रावकस्याऽऽसीत् । तत्र जिनालये पूर्वं कदाचिदप्यधिष्ठायकत्वेन खरतरगच्छीयैः साधुभिः श्रावकैश्च द्वयोर्देवकुलिकयोरेकत्र चामुण्डादेव्या अन्यत्र च भैरवदेवस्य स्थापना कृताऽऽसीत् । कालक्रमेण द्वे अपि देवते जाटज्ञातीया ग्राम्यजनाः स्वीये इति कृत्वा पूजयन्ति स्म । बालानां क्षुरकर्माऽपि भैरवदेवस्य पुरः कर्तुमारब्धं तैः। पर्वाद्यवसरे च सुरादिवस्तून्यप्यर्घ्यत्वेन ढोकयन्ति स्म । चामुण्डादेव्याः पुरस्सरं तु बलिरूपेण पशुवधोऽप्यादृतः । कोऽपि नाऽऽसीत्तत्र यस्तानेतादृशार्दुष्कर्मणो रोद्धं प्रभवेत् । आसन्नवर्त्तिग्रामेभ्यः श्रावका आगत्य जिनबिम्बं पूजयान्ति स्म किन्तु तत्तु कादाचित्कमेव । तन्निकटवर्तिबिलाडाग्रामस्थैः श्रावकैर्विचारितम्, यद् ‘यदि शासनसम्राजो गुरुभगवन्त एतत्तीर्थोद्धारं लक्ष्यं कुर्युस्तर्हि निश्चयेन तत्पूर्णतामेष्यति ।' इति विचार्य च गुरुभगवतां पार्श्वे गत्वा सर्वं सविस्तरं निवेदितम् । पूज्यचरणैरपि तीर्थोद्धारार्थं स्वीया स्वीकृतिर्दर्शिता । आगताः श्रावकैः सार्द्धमेव ते कापरडातीर्थम् । जिनमन्दिरं त्वत्यन्तं जीर्णावस्थायामेव स्थितम् । तादृशीं जीर्णामवस्थामाशातनादिप्रवृत्तिं च निरीक्ष्य तैरतीवखेदोऽनुभूतः । प्रथमं तु जिनमन्दिरे धर्मशालायां च स्वायत्तत्वं स्थापितम् । नित्यं च जिनपूजादिविधिरपि प्रवर्त्तिता । तीर्थसञ्चालनार्थं च श्रीकापरडातीर्थशेठआणंदजीकल्याणजीसंस्था स्थापिता । जीर्णोद्धारकार्यमपि प्रवर्तितम् । संस्थायाः सञ्चालकोऽपि स्वभावात्कठोरः, अतो जाटज्ञातीया लोकास्तं रोढुं न प्रबभूवुस्तत्कार्ये । पश्चाच्च गुरुभगवन्तः पालिग्रामे चतुर्मासी कृतवन्तः । तत्राऽपि च कापरडातीर्थस्योद्धारार्थमुपदेशद्वारेण श्रावकैर्द्रव्यसाहाय्यं कारितम् । . अथ च पुरुषार्थेन प्रयत्नेन च जीर्णोद्धारकार्ये समाप्ते सति श्रावकैर्विज्ञप्ता गुरुभगवन्तः पुनः प्रतिष्ठार्थम् । पूज्यपादा व्याहरन् - 'तत्र तु लवणमपि न प्राप्यते, प्रतिष्ठायां तु दशसहस्त्रसङख्याका भाविका उपस्थास्यन्ति । तेषां Page #33 -------------------------------------------------------------------------- ________________ २६ . नन्दनवनकल्पतरुः २... सर्वाऽपि व्यवस्था कीदृग्रूपेण करिष्यथ ? आकर्ण्यतद्गुरुवचनं श्रावकैरपि सोत्साहं प्रत्युत्तरितम् - 'भगवन् ! अचिन्त्यप्रभावकाणां भवादृशामुपस्थितौ किमशक्यमस्माकम् ? भवत्कृपालोः प्रभावेणाऽशक्यमपि सर्वं शक्यं भविष्यतीति वयं निःशङ्कं श्रद्दध्महे । अतो विज्ञप्तिं स्वीकृत्याऽस्मान् कृतार्थयत । ' । श्रावकाणामियत्प्रमाणमुत्साहं श्रद्धाभरप्लावितं चित्तं च निरीक्ष्य गुरुभगवद्भिः सम्मतिः प्रदत्ता । सम्मतिं प्राप्य श्रावका आनन्दमहोदधौ निमना इवाभवन् । द्वादशदिवसीयो महोत्सवो निर्णीतः । वैक्रमीयबाण - ऋषि-निधिविधु (१९७५) मिते वर्षे माघशुक्लपञ्चमी बिम्बप्रतिष्ठार्थं निश्चिता । चामुण्डादेव्या भैरवदेवस्य च स्थलान्तरमपि चर्चितं सर्वैः किन्तु न तत्कार्यं कृतं केनाऽपि । एतस्मिन्कार्ये स्वीयामुपस्थितिमनुचितां ज्ञात्वा पूज्यपादा अपि बिलाडाग्रामे एव स्थिताः । अत्रान्तरे च चामुण्डादेवीमूर्त्तिस्तु साहसिक्यमवलम्ब्य पन्नालालश्रावकेणाऽन्यस्थलं प्रापिता । पश्चाद् गुरुभगवतामागमनमभूत् । प्रतिष्ठामहोत्सवार्थं पूर्वभूमिकाऽऽदृता । कार्येणैतेन जाटलोकानां रोषोऽप्यवर्धित एव । तत्कार्ये विघ्नकरणार्थं शस्त्राणि गृहीत्वेतस्ततो बभ्रमुः । सङ्कटं गतेष्वपि प्राणेषु पूज्यपादास्तु निर्भया इवाऽस्थुः । नियतकाले महोत्सवः प्रारब्धः । प्रवर्त्तमाने महोत्सवे पूजनादिमङ्गलविधौ च विधीयमानेऽपि भैरवदेवसमक्षमेको ग्रामीणः स्वपुत्रस्य क्षुरकर्मार्थमागतः । तादृशीं तस्य प्रवृत्तिं दृष्ट्वा गुरुभगवन्तो व्याहरन्-‘वयमुपस्थिताः सन्ति, एतादृशानि च विशुद्धान्यनुष्ठानान्यपि प्रवर्त्तन्ते, तथाऽपि यद्येवमेवाऽऽशातना क्रियते चेदेतैर्लो कैस्तर्हि महोत्सवानन्तरं किं किं न भविष्यति ? ।' आकण्यैतद् गुरुवचनं गुरुभक्तेन श्रीविजयोदयसूरिनामकेन शिष्येण ससाहसं भैरवमूर्त्तिस्तत उत्थाप्य, उपाश्रये स्थापिता । एतद् दृष्ट्वा जाटलोकानां रोषो द्विगुणतोऽभूत् । किन्त्वकञ्चित्करा इव किमपि कर्त्तुं न तेऽपारयन् । बृहत्शान्तिस्नात्रसाधर्मिक वात्सल्य-कुम्भादिविसर्जनप्रमुखकार्यपुरस्सरं प्रतिष्ठादिकार्यं चारुतया समाप्तिमगात् । लोका अपि स्वस्वस्थानं प्रति प्रस्थानं कृतवन्तः । Page #34 -------------------------------------------------------------------------- ________________ ....नन्दनवनकल्पतरुः २... २७ अत्रान्तरे ‘समीपवर्त्तिनि ग्रामे पञ्चशतमिता जाटलोका एकत्रीभूय शस्त्रैर्युक्ता आचिक्रमिषवोऽत्राऽऽगच्छन्ति' इति सन्देशः सम्प्राप्तः । एतेन सन्देशेन सार्द्धमेव सर्वं मण्डपिकाद्युत्थापितम् । कोट्टबहिः स्थिताः शेषाः सर्वे जनाः पूज्यचरणैः सहिताः सर्वे साधवश्चाऽन्त आगताः। पिहितानि द्वाराणि । पन्नालालनामकः श्रावकोऽपि पूज्यपादैः सहैवाऽतिष्ठत् । पूज्यपादा ऊचुः-भो रक्षणार्थंमत्र शस्त्राण्यावश्यकानि ।' 'भगवन् ! सर्वं सज्जितमेव' इति तेन कथितम् । रावणनामा गृहस्थोऽपि तत्क्षणमेवाऽऽगतः शस्त्रादिसामग्रीसहितः । कथं स गत आगतश्च, तत्तु स एव जानाति । ___कोट्टमारूढः पन्नालालः । कियत्कालेन जाटलोका आगताः । सन्ध्यासमय: प्रवर्त्तमान आसीदतोऽन्धकारोऽपि शनैःशनै र्व्याप्तः। सर्वे ते जनाः कोट्टं संरुध्योपाविशन् । पिहितानि द्वाराणि दृष्ट्वा क्रोधज्वालामालाकुलास्तेऽधिकं चुकुपुः । द्वाराण्युत्पाट्याऽन्तः प्रविविक्षवस्तेऽभवन् । अथ ‘कोट्टमुल्लङ्घयित्वा द्वाराणि त्रोटयित्वा वा यदि ते प्रवेशं कुर्युस्तर्हि पञ्चशतसङ्ख्याकास्ते किमप्यघटितं कर्तुं समर्था एव, तर्हि किमत्र कर्तव्य' मिति चिन्तयद्भिर्गुरुभगवद्भिः श्रीविजयोदयसूरिप्रमुखसर्वशिष्यानुद्दिश्य कथितं यद्-‘अधुनैते जना अतीवक्रोधाकुला इव सन्ति । किं ते चिकीर्षव इति तु स्पष्टमेव दृश्यते । अतो यद्यस्ति युष्माकं जिजीविषा तत्राऽस्त्येकं गुप्तं द्वारं तेन गच्छन्तु । अत्र तु प्राणसङ्कटं वर्तते ।' सर्वे विनेया अपृच्छन्-'भगवन् ! एतादृशि सङ्कटसमये भवतां किं चिकीर्षाऽस्ति?' __पूज्या:-'अहं तु ‘कार्यं साधयामि वा देहं पातयामी'ति दृढसन्धोऽस्मि । अतो जिनबिम्बस्य जिनालस्य च रक्षणार्थमत्रैव स्थास्यामि ।' शिष्याः - ‘भवादृशान् भवाब्धितारकान् मुक्त्वा नासीदस्माकं कदाचिदपि जिगमिषा जिजीविषा वा। अधुनाऽपि नास्त्येव । भवन्त एवाऽस्माकं जीवनम् । भवद्भिः रहितं जीवितमप्यस्माकं मरणतुल्यमेव । अतो यदि भवन्तो जिनबिम्बस्य जिनालयस्य च रक्षणार्थं दृढप्रतिज्ञास्तर्हि वयं भवत्पूज्यानां रक्षणे प्रवामः । विद्यन्ते यावत्कालमस्माकं देहेषु प्राणा न तावत्कोऽपि किमपि भवतामशुभं कर्तुं समर्थो भविष्यति । पश्चात्तु यद्भावि तद्भवतु।' एवं गुरुभगवद्भिरनुमताः सर्वे तत्रैव स्थिताः । Page #35 -------------------------------------------------------------------------- ________________ २ / .नन्दनवनकल्पतरु: २...... - अत्र पन्नालालश्रावकेणाऽपि पूर्वमेव चातुर्यमुपयुज्य जोधपुरराज्यस्य राज्ञः पुरो रक्षणार्थमेकेन जनेन सार्द्ध विज्ञप्तिः प्रेषिता आसीत् । अतः सशस्त्रसैनिका अपि तत्समय एवाऽऽगताः । तांश्च दृष्ट्वा सर्वे उपद्रवकारका जना अत्र तत्र नष्टाः । अल्पेनैव कालेन तत्र पूर्ववत् शान्तिः प्रवृत्ता, स्वल्पाऽपि हानिर्न तत्र जाता । अन्यस्मिन् दिने च द्वारोद्घाटनादिविधिरपि विहिता सोत्साहम्। विघ्नशतेष्वपि भगवत्कृपया सर्वं शोभनं सम्पन्नं दृष्ट्वा पूज्यपादा आनन्दमन्वभूवन् । एकस्य महामहिमशालिनस्तीर्थस्य पुनरुद्धारो जातः। एकदा केनाऽपि पूज्यपादाः पृष्टा आसन्-भगवन् ! शरीरं प्रति सर्वथा निर्मोहदशा कदाऽनुभूता भवता?।' एतस्य प्रत्युत्तरे पूज्यैर्व्याहृतम् - 'कापरडातीर्थस्योद्धारकाले तादृश्यवस्थाऽनुभूता । पश्चात्तु न कदापि शरीरे मोहः समुद्भूतः।' शासनस्य हितार्थं निश्चितं च लक्ष्यं प्राप्तुं सर्वदा सर्वस्यां परिस्थितौ ते सन्नद्धा इव तिष्ठन्ति स्म । शासनस्य सङ्घस्य च कस्मिंश्चिदपि प्रश्ने प्रयोजने वा तेषां मार्गदर्शनं सदैव मुख्यत्वं महत्त्वं च भजते स्म । कथनमेतत्तु नगरश्रेष्ठिनस्तान् प्रति लिखितमेकं पत्रं सत्यापयति - 'तीर्थानां आणंदजीकल्याणजीसंस्थायाश्च भवन्त आधाराः। अतस्तदर्थं किमपि लेखनं नोचितं भवतः प्रति । यथाकालं यद् यदुचितं प्रतिभासेत तत्तत्सर्वं भवद्भिः कथयितव्यमेव।' ___ एतादृश्यासीत्तेषां प्रतिष्ठा समाजे, या च तेषां निर्दम्भवृत्या निष्पक्षवृत्याश्च परिणामरूपाऽऽसीत् । तत्पूज्यपादानां सान्निध्यमेव सततमभिलषन्ते स्म जनाः । कस्मिंश्चिदपि कार्ये यदि प्राप्ता तेषां निश्रा तर्हि साफल्यमेवास्माक' मिति प्रवर्तते स्म श्रद्धा समस्तजैनसमाजे। श्रीमाणेकलाल-मनसुखभाई श्रेष्ठिनाऽऽयोजितः शत्रुञ्जयगिरिराजयात्रानिमित्तं सङ्घस्त्वेतदुपर्युक्तं कथनं द्रढयति। स सङ्घ ऐतिहासिकोऽभूत् । सागरानन्दसूरिमहाराज-मोहनसूरिमहाराज - मेघसूरिमहाराजप्रमुखप्रभावकाचार्यवर्यैः सहितः पञ्चसप्तत्यधिकद्विशतानि साधवः, - - Page #36 -------------------------------------------------------------------------- ________________ .नन्दनवनकल्पतरुः २...... २९ - - चतुःशतानि साध्व्यः,त्रयोदश सहस्राणि यात्रिकाः षड्री' पालयन्तः, पञ्चाशदधिकानि अष्टशतानि शकटाः, अन्ययानैः सहितानि त्रयोदशशतानि वाहनानि, राज्यसत्कौ द्वौ कुञ्जरौ, राजतो रथो जिनालयश्च, इत्यादयः समृद्धिरूपेण तस्मिन् सङ्घः विराजमाना आसन् । अहम्मदावादत आरभ्योजयन्ततीर्थस्य यात्रां कृत्वा शत्रुञ्जयतीर्थे पर्यवसितोऽयं सङ्घः । ग्रामानुग्रामं विचरत एतस्य सङ्घस्य स्वागतार्थं नृप-ठक्कुरादयोऽपि सोत्साहं सबहुमानं योगदानं ददिरे । सङ्घस्य दर्शनार्थं तु भिन्नभिन्न ग्रामनगरादिभ्यो जना नित्यमागच्छन्ति स्म। एतादृशः सुविशालोऽपि सङ्घो निर्विघ्नमेव समाप्तिमाप्नोत्, तत्र तेषां निश्राया एव प्रभाव आसीत् । न केवलं श्रावकसङ्घ किन्तु साधुसमुदायेऽपि तेषां सान्निध्यं कियन्महत्त्वमश्नुते स्म तत्स्पष्टयत्येष प्रसङ्गः - एकदा जामनगरे चतुर्मासी स्थितानां श्रीसागरानन्दसूरीश्वराणां निश्रायां तेषां भक्तश्रावकपरिवारेण शत्रुञ्जयतीर्थस्य सङ्घो निर्णीतः । सङ्घस्याऽऽयोजकः सङ्घपतिस्तु सागरानन्दसूरिभगवतां परमानुरागी आसीत् । तमुद्दिश्याऽऽचार्यभगवन्तो व्याहरन् - 'यदि भवतः सङ्घ ऐश्वर्यशाली स्यादित्याकासाभवतो हृदये वर्त्तते, तर्हि शासनसम्राड्गुरुभगवन्तमपि विज्ञप्याऽऽकारयतु भवान्।' एतस्मिन कथने न केवलं शासनसम्राजां प्रतिभा महत्त्वं वा दृश्यते किन्तु तत्कालीनानां महापुरुषाणामुदारगुणदृष्टिरपि दृश्यते । शासनस्योद्योत एव केवलं तेषां मनीषाऽऽसीन्न स्वीय महत्त्वमात्राभिलाषिणस्ते आसन् । यस्य हृदये शासनं वर्त्तते स एवोक्तकथनं कथयितुं पारयति नाऽन्यः । स्वकीयत्वाग्रहग्रहिलास्तु नाऽन्यान् गुणगरिष्ठान् सो समर्था भवन्ति कदाचिदपि। ___ वैक्रमीयगगननन्दनन्देन्दु(१९९०)मितवर्षस्य मुनिसम्मेलनं तु तेषां निश्रायां सम्पन्नेषु कार्येषु सर्वोपरित्वं भजते । अद्यापि तत् स्मर्यते श्रीसद्धे आदर्शत्वेन। विद्यते यत्र सत्यं तत्र न सम्भवति क्लेशः । क्लेशस्तु सत्याभासादेवोत्तिष्ठते । श्रीसङ्घ तत्काले देवद्रव्यादिविषयान् निमित्तीकृत्य शास्त्राणां मनःकल्पितानान् कृत्वा तदेव सत्यं यदस्माभिर्निश्चित'मिति मुग्धजनानां प्रतारणप्रवृत्तिस्तु कैश्चित् - Page #37 -------------------------------------------------------------------------- ________________ ३० . नन्दनवनकल्पतरुः २...... प्रवृत्ता । ज्ञानप्राप्तौ सत्यामपि यावन्न विवेको जागृयात्तावन्न सत्यं प्राप्यते । अपरं च सत्यविहीनमहङ्कारकर्दमकदर्थितमनोवृत्तिपूर्वकं च चारित्रं न कदाऽप्यन्तस्तोषं जनयितुमलं तर्हि तद्वान् जनोऽपि कीदृग्रूपेण समाजे सङ्घे च शान्तिं स्थापयेत् ? एतादृशैरशान्तैनैः स शासने च बहुला हानिः कृताऽऽसीत् । तेषां कृते एतादृशी प्रवृत्तिस्तु रुच्यनुकूलाऽऽसीत् । किन्तु यैः शासनमेव सर्वस्वत्वेन स्वीकृतं तान् भवभीतानात्मनस्तु एष क्लेशः सततं कण्टकायते स्म । एतस्मात्क्लेशादुद्धारार्थं कमपि कर्णधारं परिशुद्धयन्ति स्म ते जनाः । सङ्घस्य साधुसमुदायानां च वृद्धा अपि चिन्तातुरा इव स्थिता आसन् । शासनस्य च सर्वोच्चस्थाने धुरीणत्वेन विराजमानाः सूरिसम्राजो गुरु भगवन्त आसन् । 'ते एव समर्था अस्मिन् कार्ये' इति श्रद्धया सर्वैस्तेषु पूज्येषु एव दृष्टिर्न्यस्ता । 'यदि ते भगवन्तः कार्यस्यास्य धुरं स्वीकुर्युस्तर्ह्येव सङ्घोऽयं सकलः समाश्वासं लभेत' इति कृत्वाऽनुरोधोऽपि तैः कृतः । गुरुभगवतां मनसि सङघस्य हितमेव मुख्यत्वेन वर्त्तते स्म । अत एव तेऽप्यनुकूलमवसरमेव प्रतीक्षन्ते स्म । नगरश्रेष्ठिश्रीकस्तूरभाईश्रावकादिभिरपि भावनगरमागत्य मुनिसम्मेलनार्थं प्रस्तावः प्रस्तुतो गुरुभगवतामग्रे । गुरुभगवद्भिरप्युचितं कालं ज्ञात्वा तदर्थमनुमतिः प्रदत्ता । राजनगरे मुनिसम्मेलनं कर्तुं निर्णीय सर्वे नगर श्रेष्ठ्यादिश्रावका भिन्नभिन्नस्थलस्थितेभ्य आचार्यभगवद्भ्यो मुनिवरेभ्यश्च विज्ञप्त्यर्थं प्रवृत्ताः । स्वीकृत्य च तेषां तां विज्ञप्तिं नियतकाले सर्वे आचार्यादिमुनिगणा राजनगरं प्रविष्टा अपि । सम्मेलनार्थं यदा श्रीवल्लभसूरिमहाराजः पादलिप्तपुरादागच्छन्नासीत्तदा मार्गे चारित्राश्रमस्य स्थापको मुनिश्रीचारित्रविजयमहाराजोऽपि तस्मिन्नेव ग्रामे आगतः । सम्मेलनस्य चर्चायामाचार्यवर्याय तेनोक्तम् “महाभारतस्य युद्धे कौरवैः कृष्णस्य सेनाऽभीष्टा मता किन्तु कृष्णस्तु स्वयं पाण्डवानां पक्ष एव स्थित आसीत् । अन्ततो गत्वा च पाण्डवानामेव जयो बभूव । एवमेवाऽन्ये बहवोऽपि यद्येकस्मिन् पक्षे तिष्ठेयुस्तर्हि तिष्ठन्तु, परं तु आचार्यश्रीविजयनेमिसूरी महाराजो यं पक्षं स्वीकरिष्यति तस्यैव विजयो भविष्यति । अर्थात् तेषामिच्छानुरूपमेव कार्यं भविष्यति । एतद् Page #38 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २.... - भवताऽवधारणीयम्।" एष आसीत्तेषां सर्वग्राही सर्वमान्यश्च प्रतिभावैभवः । यद्यपि प्रवर्त्तमानः स समयो भवभीतानां गुणग्राहिणां महापुरुषाणामासीत् । तत एव चैतादृशो गुणानुरागः प्रवर्त्तते स्म । स्वकीयं मन्तव्यं तु तत्र गौणत्वं बभाज शासनस्य च हितमेव मुख्यायते स्म । स्वपक्षीयं हितं तु न तत्र लक्ष्यं किन्तु सर्वपक्षीयमेव हितम् । वस्तुतस्तु त एव महापुरुषा ज्ञानिन आसन् । यत् सत्यमेव तेषां पक्ष आसीत् न तु पक्ष एव सत्यम् । श्रीसागरानन्दसूरिभगवन्तः शासनसम्राङ्गुरुभगवन्तश्च पांजरापोलसत्कोपाश्रये सहैव विरेजुः । पूज्यगुरुभगवद्भिरपि स्वकीयेनौदार्येण धैर्येण च साधुसमुदायान् पारस्परिक मतभेदमपास्यैक्यं स्थापितम् । येन च सर्वैः परमो हत्तोषोऽनुभूतः। किन्तु 'शृगालैःक्षा अद्यपर्यन्तमम्ला एव मताः।' इति केचिदसहिष्णवो जनाः सङ्घस्यैतादृशमुत्कर्षमसहमानाः सम्मेलनस्य निष्फलतामेव वर्णयन्ति स्म । किन्तु सुज्ञाः प्राज्ञाश्च जनास्तान् तेषां प्रलापांश्चोपेक्षामासिरे। ___फाल्गुनकृष्णपञ्चम्यां सम्मेलनमारब्धम् । निर्विघ्नसमाप्त्यर्थं च प्रथमं स्नात्रमहोत्सवः कारितः । पञ्चाशदधिकचतुःशताऽऽचार्यादिसाधूनां सप्तशतसाध्वीनां नैकसहस्रश्रावकश्राविकाणां चोपस्थितौ स्नात्रमहोत्सवः सम्पन्नः । चतुस्त्रिंशदिवसपर्यन्तं प्रवृत्तमेतत्सम्मेलनम् । तस्मिंश्च दीक्षा-देवद्रव्य-सङ्घ-साधूनां पावित्र्य-तीर्थ-साधु समुदाये ज्ञानवृद्धि-देशना-श्रावकसङ्घोन्नति-पारस्परिकै क्य-धर्मोपरि असभ्याः पराक्षेपाः धर्मे राजप्रवेशादय इत्येकादश विषयाश्चर्चिताः । चर्चितविषयाश्च पूज्यनन्दनसूरि-महाराज-पं.रामविजय-मुनिपुण्यविजय-मुनिचन्द्रसागरमहाराजादिभिः सम्यग् निर्णीय नियमरूपेण प्रस्तुता गच्छाधिपानामग्रे। तत्पश्चाच्च सूरिसम्राजां नेतृत्वे सर्वैः पूज्यैः सम्यग्विचार्य तदनुरूपः पट्टकोऽपि रचितः । तत्पट्टे क च शासनसम्राट्सहितैर्नवभिः पूज्य हस्ताक्षराणि कृतानि । तत्पट्टकश्च सम्मेलने चैत्रकृष्णपञ्चम्यां सभामध्ये नगरश्रेष्ठिना वाचितः सकलश्रीसङ्घन च सहर्ष वर्धापितः । एवं साफल्येन मुनिसम्मेलनमपि सम्पन्नमभवत् । व्यक्तित्वमेव तेषामीदृशं निर्मलं प्रभावकं चाऽऽसीद् येन तेषां वचनं कार्यं वा - Page #39 -------------------------------------------------------------------------- ________________ ३२ सर्वदाऽमोघायते स्म । तथाऽपि न कदापि तैः स्वीया प्रतिभा वैपरीत्येनोपयुक्ता । अत एव च तेषां ताद्दशं निर्दम्भव्यक्तित्वं सर्वमान्यं सर्वग्राह्यं सर्वप्रशस्यं च बभूव । तादृग्व्यक्तित्वं स्पष्टयन्तमेकमुदाहरणं पश्येम - .नन्दनवनकल्पतरुः २.... राजनगरस्य कमिश्नरपदे स्थित आङ्ग्लाधिकारी 'कर्नल प्राट्' नामाऽऽसीत् । तेन च पूज्यपादानां ख्यातिः श्रुता । तैः सह मिलनार्थं च स उत्सुकोऽभूत् । तदर्थं च स निजाङ्गगतमार्गदर्शकौ वाडीलालकुसुमगर चीमनलालकुसुमगरेत्यभिधौ जैनश्रेष्ठिनावचीकथत् । तावपि पूज्यपादेभ्यो मिलनार्थं तस्य स्थाने गन्तुमनुरोधं चक्रतुः । किन्तु पूज्यपादैर्न स्वीकृतं तत्र गमनम् । अतस्ताभ्यां तस्य तत्राऽऽजिगमिषा प्रस्तुता, उक्तं च 'भवान् पीठे विराजतां सोऽपि च चतुष्पद्यामुपवेक्ष्यति । अस्ति किमत्र कोऽपि बाधः ? ' । पूज्या ऊचुः - 'अहं तु भूमावेव ममाऽऽसने उपविशामि, अपरं च सर्वेऽप्यागन्तुका अध एवाऽऽसनं गृह्णन्ति । श्रावकास्तु विवेकं दर्शयन्ति । अतो यदि तस्याऽऽगमने जिज्ञासा वर्त्तेत तर्ह्यागच्छतु ।' I व्यतीतेषु कियत्सु दिवसेषु पूज्यपादा हठीसिंहवाटिकायां विराजमाना आसन् । स तत्र विनैव पूर्वनिवेदनं सहसाऽऽगतः । शिरस्त्राणमुत्तार्य सोपानदेव प्रविष्टः स उपाश्रये । तद् दृष्ट्वा पूज्यचरणैः साराभाई श्रावकेण सूचितः स यद् - ' उपानहौ तत्रैव मुञ्चत । सोऽवदत् 'मया शिरस्त्राणमुत्तारितमतोऽनयोस्त्यजनं नाऽऽवश्यकम् ।' पूज्यैरुक्तम् - 'प्रत्येकं धर्मस्थानानां मर्यादा तु अवश्यं पालनीया । यदि भवदीये ख्रीस्तीधर्मस्थानेके कोऽपि सशिरस्त्राणः प्रविशेत् तर्हि किं स न निषिध्यते युष्माभिः ?।' तेनोक्तम्-‘न। अहं तु न निषेधामि ।' आकर्ण्यतद् शीघ्रमेव प्रत्युत्तरितं पूज्यपादैर्यद् भवतु । तथाऽप्यागन्तुको यदि भवेत् सभ्यस्तर्हि स न तद्धर्मस्थानकस्य मर्यादामुल्लङ्घेत ।' श्रवणमात्रेणैवैतस्य वचनस्य तेनोपानहौ त्यक्तौ । तत्काले देशे प्रवर्तमानं सत्याग्रहादिविषयमाश्रित्य स चर्चार्थमागत आसीत् । तत्रैवमभूवन्नालापा द्वयोर्मध्ये अधिकारी - श्रुतमस्माभिर्यद् भवान् गान्धीमहोदयस्य विरोध्यस्ति ? पूज्याः 'साधूनां न कल्पते कस्याऽप्यवर्णवाद' इत्यस्माकं सामान्यो धर्मः । - Page #40 -------------------------------------------------------------------------- ________________ ...नन्दनवनकल्पतरुः २.... - तस्मिन्नपि नृपतेर्देशनेतुर्वाऽवर्णवादो विरोधो वा नैव कल्पते । केवलमस्मदीयधर्मसिद्धान्तेभ्यो विरुद्धेषु विचारेष्वेवाऽस्माकं विरोधो वर्त्तते । ततु स्वाभाविकमेव । किन्तु युष्माकमायत्तत्वं शोभनमतोऽस्माकं विरोधः' इति न सम्भवति । अधिकारी - यदि कोऽपि राजा नृशंसो धर्मनाशको वा भवेत् तमपि किं न भवान् विवर्णयेत् विरोधयेद्वा ? पूज्यपादाः - यत्राऽस्त्युत्सर्गस्तत्राऽपवादस्तु भवत्येव । अपवादं विना नोत्सर्गः स्थातुमलम् । ___ एवं सयुक्तियुक्तं श्रुत्वा सोऽधिकार्यत्यन्तं प्रसन्नो बभूव । धर्मसम्बन्धिनी राजसम्बन्धिनी च चर्चाऽपि कृता तेन पूज्यैः सह । पूज्यचरणैरपि तीर्थाणां जैनायत्तत्वं स्पष्टीकृतं तस्याग्रे। जैनानां च राष्ट्रप्रति सन्निष्ठत्वं संदर्य कथितं यद् ‘तीर्थाणामस्माकं परम्परयाऽऽगतस्य स्वायत्तत्वस्य संरक्षणमपि राज्याधीनमेव, राज्यस्यैव तत्कार्यम्।' तेनाऽपि तत्सर्वं स्वीकृतम् । एवं सन्तुष्टः स ततो गतः । स्वल्पनैव समयेन स निवृत्तोऽभवत् । तस्य स्थाने च गोसलीया महोदयो नियुक्तः। आङ्ग्लाधिकारिणां सर्वेषामेका पद्धतिर्वर्त्तते स्म यत् स्वस्याऽधिकारसमये ते स्वकीयेऽवतरणपुस्तके स्वानुभवान् लिखन्ति स्म । ये जनास्तेषां विरोधिनो वर्तेरन् तेषां नामानि कार्याणि चैकस्मिन्पुस्तके लिखेयुः, ये च राज्योपयोगिनो जनास्तेषां नामानि कार्याणि चाऽन्यस्मिन् पुस्तकेऽवतरेयुः। एकदा कपडवणजग्रामस्य शामलदासश्रेष्ठिनः सचिवो वल्लभदासभाई, यश्च गोसलियामहोदयस्य मित्रमासीत्, स तत्पार्श्वे गतः । प्रवर्त्तमाने वार्तालापे विचाले एव स गोसलियामहोदयः पप्रच्छ - 'युष्माकं जैनसमाजे एष नेमिसूरीश्वरः कोऽस्ति?' तेनोक्तम् - ‘स चाऽस्माकं जैनानां सर्वोच्चस्थानीयः परमप्रभावको धर्मगुरुरस्ति। किन्तु भवन्मनसि किमर्थमेतत्प्रश्न उद्भूतः?' सोऽचीकथत् - प्राट्महोदयेनैतस्मिन् श्वेतपुस्तके लिखितं यद् -'श्रीनेमिसूरीश्वरेण तुल्यं प्रचण्डमूर्जस्वि प्रभावशालि च व्यक्तित्वं न मया कदापि दृष्टमस्ति।' Page #41 -------------------------------------------------------------------------- ________________ ३४ ......नन्दनवनकल्पतरुः २.... 'सर्वदिग्गामुकं यशः' इति त्वत्र सार्थकं प्रतिभासते । एतादृक्षः सर्वतोमुखिनः सर्वग्राह्यस्य सर्वमान्यस्य च व्यक्तित्वस्य मूलं तु तेषां नैष्ठिकं ब्रह्मचर्यमासीत् । 'शासनसम्राट्' इति सङ्घमान्यस्य शासनमान्यस्य च बिरुदस्य सार्थक्यं तेषां प्रत्येकं प्रसङ्गेषु दृश्यमानमासीत् । गुणनिष्पन्नमपि जीवनमन्ततोगत्वाऽऽयुरधीनमेव वर्त्तते। किन्त्वायुषा शरीरं क्षीयते न तु प्रतिभा। अत्र प्रतिभापूर्ण शासनस्य सङ्घस्य च हितकार्येष्वेवाऽखण्डं प्रवर्त्तमानं तेषां जीवनमपि वार्धक्यं पस्पर्श। तथापि संघास्तु तेषांपूज्यानामेव निश्रां सततं प्रतीक्षन्ते स्म । तेऽपि सर्वत्र यथाशक्यं स्वीयोपस्थित्या संघान् सन्तोषयन्ति स्म । वेदशून्यगगनयुग (२००४) मितवर्षस्य चतुर्मास्याः पश्चाद् बोटादनगरसङ्घस्य विज्ञप्त्या, तेषामुपदेशानिर्मितजिनालये जिनबिम्बानामञ्जनशलाकाप्रतिष्ठामहोत्सवार्थं गताः । तत्र त्रिभूमिको जिनप्रासादोऽन्यश्च श्रीमहावीरस्वामि जिनालयो निर्मितिं प्राप्तः । त्रिभूमिकप्रासादे भूमिगृहे तेषामनन्यभक्ते न श्रीसलोतफुलचन्दछगनलालश्रावकेण कारिताऽऽसीत् श्रीनेमिनाथप्रतिमा । तत्श्रावक स्याऽऽग्रहवशात्तद्विम्बस्याऽञ्जनार्थं भक्तिप्रेरिताः स्वयमेव तत्र गत्वाऽञ्जनविधानं स्वहस्तेनैव कृतम् । एतत्तु अन्तिमं तैः कृतमञ्जनविधानमासीत् । - अहो! योगदाता प्रभो! क्षेमदाता...॥ एते पवित्रचेतसोऽनुपमसत्त्वा ब्रह्मसमाधिभाजो गुरुभगवन्तो विहरन्तः सन्तः श्रीकदम्बगिरितीर्थे प्रवेशं कृतवन्तः। चित्ताह्लादकारिणि च वातावरणे ‘चतुर्मास्यर्थ मत्रैव स्थातव्य' मिति मनोरथो जातस्तेषाम् । विनेयैरपि तेषां तादृशी भावना सानन्दं वर्धापिता। श्रावकवर्गोऽपि तद्गुरुभगवतां पुण्यनिश्रायां चतुर्मासीं स्थातुमुत्सुकोऽभवत्। सर्वत्रैष वृत्तान्तः प्रथितः। आकर्येतादृशं गुरुभगवतां निर्णयं मधुमती(महुवा) सत्कः श्रीसङ्घः शीघ्रमेवा Page #42 -------------------------------------------------------------------------- ________________ .नन्दनवनकल्पतरुः २...... ऽऽगतः । नगरश्रेष्ठि श्रीहरिभाईमहोदयेन विज्ञप्तिः कृता यद् - 'भवतां सदुपदेशेन प्रसादेन च जैनसङ्घद्वाराऽऽराब्धं नूतनजिनालयद्वयस्य कार्यमल्पेनैव कालेन पूर्णता-माप्स्यति । तत्प्रतिष्ठाऽपि भवत्पूज्यानां स्वहस्तेनैव भवतु' इत्यस्माकं सर्वेषां मति-र्भावना चाऽस्ति । अतः कृपया चतुर्मास्यर्थं मधुमतीनगरमेव पवित्रयन्तु भवन्तः ।' अत्याग्रहेणाऽनिच्छयाऽपि तैः स्वीकृतं तद्वचनम् । उक्तं च - 'तत्प्रतिष्ठा न मम हस्तेन शक्या । तथाऽपि यद्येतावानस्ति युष्माकमाग्रहः, अत आगमिष्यामि ।' ३५ एतादृशेन प्रत्युत्तरेण सर्वैः साश्चर्यं परस्परं विलोकितम् । किन्तु न किञ्चिद् विचारितमन्यत् । पूज्यपादा अपि शिष्यैः परिवृता यथाक्रमं विहृत्य मधुमतीनगरं प्राप्ताः । नगरप्रवेशे चाऽखिलं नगरमुपस्थितमासीत् । विजयनेमिसूरिज्ञानशालायामधो भागे विराजमाना अभवन् पूज्यपादाः । चतुर्मास्याः प्रारम्भे धर्माराधनादिषु दिवसा व्यतीभवन्ति स्म । पर्वाधिराज - श्रीपर्युषणापर्वाऽऽगतम् । चतुर्थदिने किञ्चिन्नावीन्यं दृष्टम् । मध्याह्नसमयो व्यतीतः । सूर्योऽपि पश्चिमाशां प्रति गमनप्रवृत्तोऽभवत् । तस्मिन् समये सहसैव सूर्यस्य सर्वपार्श्वे एकः परिवेशः समुद्भूतः । ज्योतिःशास्त्र कथनानुसारेण - 'एष सूर्यपरिवेशो दुर्भिक्षं सृजत्युत जगत्याः कस्याऽपि महापुरुषस्य वियोगो जनयति ।' पर्युषणापर्वणोऽन्तिमे दिवसे आराधनार्थं सर्वे आराधका महाजनस्य 'वंडो ' इत्यभिधे स्थाने गताः । तत्रैको विशालो वृक्ष आसीत् । तस्याऽधश्चाऽन्येषां प्रतीक्षमाणाः . सर्वे उपविष्टाः । सर्वे गुरुभगवन्तोऽन्ये च सर्वे आगता, अतः सर्वे तत उत्थाय प्रतिक्रमणस्थले आगताः । यावच्च सामायिकक्रियामारभेरन् तावदेको बृहच्छब्दोऽभवत् । बहिर्गत्वा च यावत् पश्यन्ति तावदेका तद्वृक्षस्यैव महती शाखाऽकस्मादेव विना कारणमेव पतिताऽऽसीत्। एषोऽपि कश्चित्सङ्केत एव किन्तु न केनाऽपि किञ्चिज्ज्ञातम् । पूर्णे पर्युषणापर्वणि सङ्घो जिनालये प्रतिष्ठाया विचारणे प्रवृत्तो बभूव । सततं नद्याः प्रवाह इव प्रवहति समयः । भाद्रपदमासस्याऽमावास्यादिवस आगतः । तत्र दिनेऽप्येका घटना घटिता । निशायां नववादने आकाशादहत्परिमाण एकस्तारकः क्षरितः । अत्यन्तं तेजस्वी च स आसीत् । पश्चिमायाः पूर्वं प्रति तस्य गतिरासीत् । Page #43 -------------------------------------------------------------------------- ________________ ३६ .......नन्दनवनकल्पतरुः २..... तस्य क्षरणेन सार्द्धमेव भयानकः शब्दोऽप्युदभवत् । शास्त्रे एतादृशः शब्दो 'निर्घात' इति नाम्ना निरुपितोऽस्ति । आसन्नकाल एव कस्यचिदपि महापुरुषस्य चिरवियोगस्य संसूचकोऽयं शब्दो भवति। ____ एकदा स्थण्डिलशुद्धिं कृत्वा प्रत्यागच्छन्तस्ते पूज्याः गतिस्खलनात् पतिताः । पश्चाच्न श्लेष्म-कासादिरोगा अपि जाताः । सर्वं किन्तु समभावपूर्वकमेव ते सहन्ते स्म । न कदापि कस्यचिदप्यग्रे शारीरिकी प्रतिकूलतामभिव्यञ्जन्ति स्म । सकलोऽपि सङ्घः सेवनार्थमनवरतमुपस्थित एवाऽऽसीत् । राजनगरादि भिन्नभिन्नस्थलेभ्यो भक्तश्रावका अपि कुशलपृच्छार्थं गमनागमनं कुर्वन्ति स्म। अश्विनकृष्णस्य दशम्या दिवसे शरीरे ज्वर उद्भूतः । व्याधिस्तु सततं ववृधे । तत्सार्द्ध तु तेषां समभाव आत्मजागृतिः सहिष्णुताऽपि वर्द्धमाना एवाऽऽसन् । स्वल्पाऽपि व्याकुलता तेषां मुखे वचने वा न कदापि दृष्टा । शरीरमात्मनो भिन्नमिवाऽनुभवन्तः पश्यन्तश्च समाधिस्था इव प्रतिभान्ति स्म । धनत्रयोदश्या दिवसे ज्वरव्याधिः किञ्चिन्यूनोऽभवत्। प्रातःकाले पूज्यपादान्तिके उपविशन् श्रीनन्दनसूरिमहाराजोऽकथयत् - 'भगवन् ! परेद्यवि दीपालिकापर्वाऽस्ति, तदनन्तरं च भवत्पूज्यानां जन्मदिनमप्यस्ति'। तातपादैरुक्तम् - 'अहं क्व दीपालिका पर्व द्रक्ष्यामि?' __आकर्यैतद्गुरुवचनं श्रीनन्दनसूरिमहाराजः साश्रुलोचनेनाऽऽस्वरेण चाऽवदत् - 'भगवन्! किमर्थमेतादृशं वदन्ति तत्रभवन्तः?' परित उपविष्टाः सर्वेऽपि ग्लानिमनुबभूवुः। ___मध्याह्नकाले श्रीनन्दनसूरिमहाराजः पूज्यैराहूतः - 'नन्दन ! मत्पार्श्वे त्वमुपविश।' पश्चात् शनैः शनैरुचितकर्त्तव्यानि निर्दिष्टानि, संघ-शासनार्थमपि यथायोग्यं संसूचितम् । सर्ववचनानि च पूज्यपादानां श्रीनन्दनसूरिमहाराजेनाऽपि तथा इति' इतिकृत्वा सावधानमङ्गीकृतानि। पश्चादुपचारार्थमाझ्लवेद्य आगतः । जम्बीररसपानार्थं तेन विज्ञप्तम् । तच्छ्रुत्वा पूज्यैर्मन्दस्वरेण कथितम् - ‘अद्यपर्यन्तं न मया कदापि फलादय उपयुक्ताः । अतः - Page #44 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... ३७ - किमर्थमधुना तदर्थमाग्रहं कुरुथ? ।' एषाऽऽसीत्तेषामात्मजागृतिश्चारित्रपरिणतिश्च । एष नाऽभिव्यक्तिविषयः, अपि त्वनुभूतिविषयोऽस्ति। वैद्यैनाऽपि निषिद्धं तत् । सायंकाले प्रतिक्रमणादितो निवृत्य पूज्यैरुक्तम् अद्य प्रतिक्रमणमत्यन्तं चारुतया भूतम् । अथाऽमावास्या प्राप्ता। नन्दन ! कः समयः सूर्योदयस्य ? भगवन् ! ६.३७ वादने सूर्य उदेति। 'अद्य जलादन्यन्न किमपि भोक्तुमहमिच्छामि' - इति पूज्योऽवक् । सर्वैः शिष्यैरपि तत्स्वीकृतम् । यतः सर्वेऽपि तेषामिच्छाधीना एव वर्तमाना आसन्। पूज्यापादानां मुखेऽपूर्वं तेजो विलसति स्म, परमा समाधिः समत्वमुपशमभावश्च दृश्यमाना आसन्। जीवनपर्यन्तमाराधितायाश्चारित्रजीवनस्य निर्मलतमाया आराधनाया एवैष प्रभाव आसीत् । अकल्पनीयाऽनिर्वचनीयाऽऽसीत्तेषां ब्रह्मनिष्ठा। कर्तृत्वाभिमानान्मुक्तः सन्नेव यः शासनस्य संघस्य च कार्याणि करोति स एवैतादृशीमपूर्वां समाधिं भजति । मध्याह्नकालपश्चात् पुनर्वैद्य आगतः। सूचिवेधप्रयोगो निर्दिष्टस्तेन । श्रीनन्दनसूरिभगवता पृष्टम् - कीदृशं वर्त्ततेऽधुना गुरुभगवतां स्वास्थ्यम् ? वैद्यः- अत्यर्थं चिन्ताप्रेरकं दृश्यते तत् । श्रीनन्दनसूरिमहाराजः- पूज्यैर्निजजीवने न कदापि सूचिवेधः प्रयुक्तः । अतो नोचितोऽधुनाऽप्येषः। तत्प्रयोगेण यदि भवेदायुर्वृद्धिस्तर्हि विचारयेम । तत्त्वशक्यप्राय एव, अतोऽलमेतेन । इदानीं न तेषां समाधौ स्खलनमुचितम् । श्रुत्वैतत् सयुक्तिकं वचनं वैद्यनाऽपि सम्मतिर्दर्शिता। ....... विशालो मानवसमूह उपस्थित आसीत् । सायंकालो जातः। शिष्यैः प्रतिक्रमणक्रिया कारिता । संस्तारक पौरुषी विधिरपि कारिता । सर्वैः साधुभिः सधैश्च सार्द्ध 'क्षमायाचनां कृत्वा तातपादाः सर्वथा संसारान्निर्लेपा अभवन् । Page #45 -------------------------------------------------------------------------- ________________ ...नन्दनवनकल्पतरू: २... चतुर्विधः श्रीसङ्घ एकत्र सम्मीलितः। पञ्चमहाव्रतानामुच्चारणपूर्वकं श्रीनमस्कारमहामन्त्रचतुःशरणादिपाठोऽपि श्रावितः । चतुर्विधश्रीसङ्घस्य मङ्गलोच्चारेण मधुरध्वनिमयं सञ्जातं वातावरणम् । पूज्यपादा अपि सर्वमेतन्मङ्गलस्वरूपं समाधिकारकं च प्रसन्नवदनेन शृण्वन्ति स्म । तदा देहभावादूर्ध्वं भूत्वा परमनिरीहभावेन ध्यानमग्ना इव, 'भिक्षुरेकः सुखी लोके ज्ञानतृप्तो निरञ्जनः' इति च वचनं चरितार्थयन्त इव ते बभासिरे। सप्तवादनसमयो जातः। तदैव वेदनारहितैः शममग्नैःशुभध्यानलग्नः जागृतिपूर्वकमेव तातपादैः विनश्वरमिदं शरीरं त्यक्तम् । दिवं गता अभवन् । सर्वत्र शोकः प्रसृतः। सर्वत्राऽश्रुपात एव दृश्यते स्म । ये च शिष्याः स्वकीयज्ञानपद-प्रतिष्ठादिसर्वमुपसर्जनीकृत्य केवलं गुरुभगवतां चरणसक्ताः सेवारक्ताश्चैवाऽद्यपर्यन्तं स्थितास्तेऽप्यनया घटनया व्यथिता इव बभूवुः । तेषामश्रुपातेनाऽपि वातावरणे शोको व्याप्तः । कः कं निवारयेत् ? श्रीसङ्घस्य विज्ञप्त्या श्रीविजयोदयसूरिमहाराजादिगुरुभगवद्भिर्बलात् शोकं संरुध्य व्युत्सर्जनादिविधिः कृता । सर्वत्र च सन्देशा अपि प्रेषिताः। सर्वतो लोकानां समूहा तातपादानामन्तिमदर्शनार्थं धावन्त इवाऽऽगन्तुं प्रवृत्ताः । शिष्याश्च सर्वे गुरुभगवतां वियोगात्, गतेव नेत्राभ्यां दृष्टिः, पद्भयां गतिः, शरीराच्चेष्टा, हृदयाद् स्पन्दनमिव बभूवुः । हृतसर्वस्वा इव किंकर्तव्यविमूढा इव ते तेषां पार्थिवदेहस्योऽग्रे तस्थुः । एवमेव बालवदाक्रन्दतः श्रीनन्दनसूरिभगवतो मुखात् सहसैव भक्तिप्रवाहेव स्तुति - निःसृता - अहो ! योगदाता प्रभो ! क्षेमदाता...। कार्तिकशुक्लप्रतिपदि दिवसे प्रातर्नववादने शिबिकायां स्थापितस्तातपादानां देहः श्रावकवर्गेण । 'जय जय नन्दा जय जय भद्दे' ति गगनभेदिनादेन सहाऽन्तिमयात्रा प्रवृत्ता । ग्रामस्य बहिर्भागे बालाश्रमस्य भूमावुत्तरस्यां दिशि शिबिका स्थापिता । अग्निदाहोऽपि तत्रैव कृतः । अग्निदाहकाले सा एव ग्रह-नक्षत्रस्थितिरासीद् या तेषां जन्मकाले आसीत्। यत्र जन्म तत्रैव मृत्युरपि । यत्र तेषां जन्माऽभूत् तत्रास्ति जिनमन्दिरं यत्र चाऽग्निदाहस्तत्राऽपि विराजते जिनमन्दिरम् । महापुरुषाणां सर्वमपूर्वमेव भवति । - - Page #46 -------------------------------------------------------------------------- ________________ .......नन्दनवनकल्पतरुः २...... - काल उदितमस्तङ्गमयति, अस्तगतं च उदायति किन्तु अस्तित्वं परावर्त्तयितुं न स शक्तोऽस्ति । शासनसम्राजस्तु न केवलं व्यक्तित्वं किन्तु कालजयि अस्तित्वमपि। व्यक्तित्वं विलीयते कालेन, अस्तित्वं तु शाश्वतमवतिष्ठते। जिनशासनस्य प्राणतुल्यानां तेषां भगवतामस्तित्वं नैकरूपेण विलसदनुभूयते वर्तमानकालेऽपि । तदेव चाधुना जैनशासने दृश्यमानाया उन्नत्या अप्याधाररूपमस्ति। ____ जगद्वन्द्यानामेतेषां महापुरुषाणामेतत्स्वर्गारोहणार्द्धशताब्दीवर्ष प्रवर्त्तते । एतस्मिन्नवसरे च तेषां पूज्यपादानामुपकारान् संस्मृत्य तद्दर्शितपथं चाऽनुसृत्य हार्दिकी भावाञ्जलिं समर्पयेम। प्रान्ते - कालजयिनामेतेषां महापुरुषाणां सर्वाङ्गसम्पूर्ण गुणसङ्कीर्तनं न मादृशैरज्ञैः शक्यम् । केवलं तेषामचिन्त्यमहिमशालिनां साधुतायाः परमोपासकानां चरणमभिवन्द्य तेषां कृपाप्रसादेन मय्यपि साधुतायाः प्रादुर्भावो भूयादिति प्रार्थयामि । इति शम्। शान्ता महान्तो निवसन्ति सन्तो वसन्तवद् लोकहितं चरन्तः । तीर्णाः स्वयं भीमभवार्णवं जनानहेतुनान्यानपि तारयन्तः॥ महात्मनां कीर्तनं हि श्रेयो निःश्रेयसास्पदम् ।। " हैमवचनामृतम्' - Page #47 -------------------------------------------------------------------------- ________________ ४० ......नन्दनवनकल्पतरुः २..... - प्रचण्ड तेजोमूर्तिः श्रीतातपादः। - मुनिधर्मकीर्तिविजयः वर्तमानकालीनं सुघटितं व्यवस्थितं च जैनसमाजं तथा संयमसाधनायाः प्रतिकूलकालेऽपि श्रमण-श्रमणीसमुदायानां सानुकूलं जीवनं निरीक्ष्य चेतश्चिन्तयति, “किं निदानमस्य?''। तदा निर्मलमानसपटलोपरि विपुलतेजोन्वितललाट-गाम्भीर्यखचितवदनप्रसन्नरसनिमग्ननेत्र-प्रचण्डतेजोमूर्तिः श्रीतातपादः स्मृतिगोचरीभवति । शासनसम्राजः श्रीतातपादस्य स्वर्गारोहणार्धशताब्दी वर्षमस्ति । अस्मिन्नवसरे परमोपकारिणः सकलसङ्घमान्यस्य पूज्यपादस्य गुणगानं न गायेयं तर्हि कृतघ्नोऽहं भवेयम् । ततो यथामति गुणस्तुतिं कर्तुमुद्यतोऽहम् । यस्मिन् कालेऽध्ययन-अध्यापनप्रवृत्तिः मन्दीभूताऽऽसीत् । यस्मिन् काले श्रीपूज्यानां फ्रबलप्रभावोऽस्मिन् शासने प्रावर्त्तत । यस्मिन् काले योगोद्वहनस्य प्रणालिकाऽस्तंगताऽभवत् । यस्मिन् काले अञ्जनशलाकादिविधिविधानं लुप्तप्रायमासीत् । यस्मिन् काले संवेगमार्गिमुनयोऽल्पतरा एव व्यराजन्त । यस्मिन् काले राजकीयक्षेत्रे जैनसाधूनां प्रभावोऽकिञ्चित्करोऽभूत् । तस्मिन् विषमकाले प्रवर्तमाने सति वैक्रमीये नन्दनेत्रनिधिचन्द्रमिते (१९२९) वर्षे मधुरमुख-वाञ्छितफलद-अनन्तलब्धिनिधानश्रीगौतमगुरोः केवलज्ञानप्राप्तिदिने श्रीमधुपुर्या घोरान्धकारनाशको भास्कर इवाज्ञानतिमिरतिरस्कारकः प्रचण्डतेजोमूर्तिः श्रीतातपादोऽवातरत् । स प्रचण्डतेजोमूर्तिः श्रीतातपादस्तु परमगुरु-आबालब्रह्मचारि-अनेकतीर्थोद्धारक-सर्वतन्त्रस्वतन्त्र-सूरिचक्र चक्रवर्ति तपोगच्छाधिपति-शासनसम्राट् - Page #48 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरु: २...... - पूज्यपादश्रीविजयनेमिसूरिपुरंदरमहाराजः । अस्य श्रीतातपादस्य पितरौ धर्मप्रेमिणौ अभवताम् । तत एव धर्मसंस्काराः रक्तगताः आसन् । श्रीतातपादस्य शुभनिमितालम्बनत्वात् प्राक्तनशुभसंस्कारा उदभवन् । विशेषतो गतजन्मनोऽपूर्णसाधनां साधयितुमनन्यमनोरथः प्रादुर्भूतः । मनः श्रीतातपादस्य दीक्षा ग्रहीतुमुत्कण्ठितमभूत् । ___ एतत्तु निश्चितमेव, यत्पूर्वभवे संयमाङ्गीकारभावनया यस्य मानसं रञ्जितं भवेत्, तस्यैवास्मिन् जनुषि तथाभूताध्यवसाय उत्पद्यते, नान्यस्य । ___ एतन्मनोरथं पूरयितुकामेन तेन श्रीतातपादेन नैके प्रयत्ना आदृताः, किन्तु सर्वे निष्फलाः । तथापि स्वकीयाप्रतिमधैर्येणावर्णनीयसाहसिक्येन च गृहानंष्टवा स्वयमेव भावनगरबन्दिरे गतः । वैक्र मीये बाणवेदनन्दमेरु(१९४५)वर्षे तत्रस्थित-श्रीवृद्धिचन्द्रभगवतः पादपद्मे समर्पितोऽभूत् । दीक्षायाः पश्चादल्पकालेनैवादम्योत्साहत्वात्तीवमेधावित्वाच्चावश्यकः शास्त्राभ्यासः श्रीतातपादेन पूर्णः कृतः । ___ अयं तेजोमूर्तिः श्रीतातपादो निर्भयता-साहसिक्य-धैर्य- नैर्मल्यादिगुणानामाकर आसीत् । ततो न तेन कस्याः प्रवृत्या अपि पश्चाद्वलनं कृतम् । तथैव क्रियारुचि-स्वाध्यायमग्नता-चारित्रनिष्ठा-विनय-भक्ति-गुणानुरागितादिगुणानामपि विकासः प्रारभत । एवं बाह्यगुणैः साकमात्मिकगुणप्रकर्षेभ्यस्स जगत्प्रसिद्धोऽभूत् । ___ अद्यपर्यन्तं जगद्गुरोः श्रीहीरसूरीश्वरभगवतः पश्चात् राजकीयक्षेत्रे आत्मीय निर्मलब्रह्मचर्येण एतेन श्रीतातपादेन विना न कोऽपि प्रभावको महापुरुषोऽभूत् । श्रीहीरसूरिमहाराजवत् श्रीतातपादेनापि भिन्न-भिन्ननगराणामधिपतीन् ठक्कुराँश्च प्रतिबोध्याऽस्य श्रीजिनशासनस्यानुपमा प्रभावनाऽकारि।। श्रीजिनराजमतस्यैकमपि क्षेत्रं नास्ति, यस्मिन् क्षेत्रेऽस्योपकारो न भवेत् । Page #49 -------------------------------------------------------------------------- ________________ ४२ ..नन्दनवनकल्पतरुः २...... तीर्थरक्षा-शासनरक्षा-विधिविधानशुद्धि-चित्कोषस्थापना-गोशालास्थापनादिप्रत्येकक्षेत्राणामयं महापुरुषः श्रीतातपादो योगक्षेममवहत् । गुणाकरोऽयं तेजोमूर्तिः श्रीतातपाद आसीत् । तत्रापि तस्य पूज्यस्य निरीहता परमविशुद्धनैष्ठिकब्रह्मचर्यं चेति गुणयुग्मं मे मानसमतीव प्रीणयति । नैकवसुन्धरास्वामिनो मन्त्रिणः श्रेष्ठिनश्चैतं त्यागिनं श्रीतातपादं नन्नमितुमागच्छन् । तथापि तस्य पूज्यस्य निरीहता तु हिमालयशृङ्गसमाऽऽसीत्। तत्रागत्य ते श्रेष्ठिनः पूज्यस्य महत्तां सन्मानं चाकुर्वन् । तथापि निर्दभताविनम्रतादिगुणौघैः पवित्रकायेण श्रीतातपादेन कदापि सन्मानादयो नोररीकृताः । तन्निरीहतायाः दर्शनं कारयन् प्रसंग एकः स्मृतिपथमायाति । एकदा श्रेष्ठिना श्रीमहासुखलालेन पृष्टम् - भो पूज्य ! तीर्थसंरक्षणार्थं कदाचित् राजकोटनगरं प्रति गमनं भवेत्, तर्हि कदा तत्र भवानुपस्थातुं शक्तिमान् भवेत् । श्रीतातपादेन कथितं - श्रेष्ठिन् ! पादविहारेण पञ्चदशसु दिनेष्वहं सौख्येन तत्स्थानं प्राप्नुयाम् । तद्वचनं श्रुत्वा श्रेष्ठी आह - प्रभो ! किं शासनरक्षादिषु प्रसङ्गेषु शिबिकाया अपवादमार्गेणोपयोगो न क्रियते? | पूर्वकाले तु पूर्वाचार्यैः शासनहितार्थं शिबिकाया उपयोगः कृतः श्रूयते । भवानपि करोतु । ___ तदा विनम्रतया श्रीतातपादेनोक्तम्- 'श्रेष्ठिन्! ते तु महान्तः पुरुषा आसन् , अहं तु तेषां चरणरजोनिभोऽस्मि । न मादृशस्य तेषामनुकरणं शोभते' । __अस्मिन् प्रसङ्गे श्रीतातपादस्याहङ्कारस्य संपूर्णतः शून्यभावो दृश्यते, तथा साधुजीवनस्य पालनार्थमुत्कण्ठैव ज्ञायते । ____ अनेन महापुरुषेण कदापि स्वकीयप्रसिद्ध्यर्थं न प्रयत्नः कृतो न कारितश्चाऽपि । य आत्मविख्यात्यर्थमुद्यच्छते, स महापुरुषत्वेन कथमभिधीयते? । - - - Page #50 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... - - अधुना तु सर्वतः स्वप्रसिद्धिनामको महाव्याधिरुदपद्यत । ईदृग्महाव्याधिना श्रस्ता जनाः स्वविनाशं तु कुर्वन्ति, किन्तु पतनमन्येषामपि कुर्वन्ते । नायं श्रीतातपाद एतेन व्याधिना पीडित आसीत् । ततश्चैवाऽयं महापुरुषः ‘शासनसम्राट्' इत्येवं विश्वविश्रुतिं प्राप्ताः ।। अस्य श्रीतातपादस्य नैष्ठिक ब्रह्मचर्यमप्यनन्यमेवासीत् । अस्मिन् जिनशासनेऽन्तिमवर्षेषु पूज्यनिभो ब्रह्मचर्यपालकः साधुः नाजनि । अहं तु मन्ये, यद् ब्रह्मचर्यस्य शक्तिरप्रतिमास्ति । ब्रह्मचारिणः सत्पुरुषस्य पवित्रदेहादतिप्रचण्डस्तेजोपुञ्जो निर्गच्छति, एतत्तेजःपुञ्ज कोऽपि विशुद्धात्मैव सहते । यावती ब्रह्मचर्यविशुद्धिः तावती तेज:पुञ्जस्य प्रमाणमर्यादा । अस्यां प्रमाणमर्यादायां न केऽपि दृष्टवासनावासितदेवाः तथाऽशुभवृत्तयश्च प्रवेष्टु समर्थाः । कदाचित्कोऽपि मलिनदेवः समीपमागच्छेत् तर्हि तस्य दुष्टवृत्तिस्तु विलीयेत एव, यतो ब्रह्मचारिण एवमेव वर्तते सामर्थ्यम् । ___ तथैवैतादृशो महापुरुषस्य वचनमपि मन्त्रायते । तन्मुखात् निर्गच्छन् शब्दोऽपि ब्रह्मवाक्यं भवति । तत्प्रभावात् देवा अपि स्वयमेव प्रत्यक्षीभूयन्ते । नैष्ठिक ब्रह्मचर्यस्य परमां शक्तिं निरूपयन्नेकः प्रसंगः । वैक्रमीयदर्शनाङ्गनन्दसर्वंसहावर्षे (१९८६) श्रीबोटादनगरे समवासरत् चातुस्यिर्थं श्रीतातपादः । तत्रैव नगरे प्रसिद्धो ‘महम्मदछेल' नामकौतूहल्युवास । स कौतूहली श्रीतातपादस्य विश्वख्यातिं श्रुत्वा तं श्रीतातपादं नन्तुमागतः । __ पूज्यं वन्दित्वा तेन कस्या अपि विद्यायाः प्रयोगेण स्वात्मा प्रसिद्धीकृतः । किन्तु न श्रीतातपादो विस्मयीभूतः। पूज्यमुखात् सहसैव गीः प्रसृता, ‘छेल ! कदाचिदपि विद्ययतया साधूनां वा सत्पुरुषाणां नावहेलनं करिष्यसि ।। ___ ततः श्रीतातपादेन त्वरितमेव पीठत्रिकमानीतम् । ते पीठका एकस्योपर्युपरि स्थापिताः। तत्रोपरि स्वयं श्रीतातपाद आसीनः । पश्चात् श्रीतातपादेन छेलः कथितः, मध्यस्थितं पीठकमाकर्ष । कुतूहलप्रेमिणा छेलेन शनैः स पीठक Page #51 -------------------------------------------------------------------------- ________________ ४४ ......नन्दनवनकल्पतरुः २...... - आकृष्टः । किन्त्वाश्चर्यमभूत्, यदाधारविहीनपीठकस्योपरि निश्चलभावेन प्रसन्नवदनः श्रीतातपाद आसांबभूव । अन्ते छेलः पूज्यपादचरणेऽनमत् । नैष्ठिकब्रह्मचर्यस्य का शक्तिः सा एतेन प्रसंगेन ज्ञायते । प्रान्ते - आस्तां नैष्ठिकब्रह्मचर्यस्य कथा, ब्रह्मचर्यस्य यथार्थपालनमपि दुर्लभमस्ति । साम्प्रतं तु ब्रह्मचर्यव्याजेन विशेषतो मोहचेष्टादयो विक्रिया: प्रवर्तन्ते । एतादृक्कालेऽपि नैष्ठिकब्रह्मचर्यपालकस्य पूर्वर्षीणां विशुद्धसंयम जीवनस्यानुभावकस्य च सर्वतोमुखीप्रतिभासंपन्नयुगपुरुषस्य शासनसम्राट् श्रीनेमिसूरीश्वरभगवतः पादाम्बुजयोः मे कोटिशो वन्दनावलयः । सहस्रधा हि फलति व्यवसायो महात्मनाम् । " हैमवचनामृतम्" - - Page #52 -------------------------------------------------------------------------- ________________ .नन्दनवनकल्पतरु: २..... ते हि नो दिवसा रम्याः। -पूज्याचार्यश्रीमद्विजयदेवसूरीश्वर चरणाब्जचञ्चरीको विजयहेमचन्द्रसूरिः ___समयः स आसीद् विक्रमीयविंशत्यधिकद्विसहस्रमितसंवत्सरस्य मार्गशीर्षमासः । स्थानं च निजाप्रतिमप्रभावतः प्रतिकङ्करमनन्तानन्तात्मपरमपदप्रापकतीर्थाधिराजश्रीशत्रुञ्जयगिरिराजस्य सजीवनशृङ्ग(ट्रॅक)रूपानाद्यनन्तसंसारपारावारयानपात्रायमाण श्रीकदम्बगिरिमहातीर्थः । यत्राऽतीतोत्सर्पिण्यां श्रीसम्प्रतिनामकप्रभोः प्रथमगणभृत् श्रीकदम्बनामा योगिप्रवरः कोटिमुनिपरिवारेण सह निहत्य कर्माष्टकजालजम्बालं सम्प्राप्तवान् परमान्दपदं मोक्षम् ।। पुराऽस्य गिरेः सर्वोच्चश्रृङ्गे श्रीकदम्बगणधरस्यैका लघ्वी देवकुलिकैवाऽऽसीत् । शासनसम्राट्तपागच्छाधिपति-सूरिचक्र चक्रवर्तिपूज्यश्रीमद्विजयनेमिसूरीश्वराः सपरिवाराः ग्रामानुग्रामं विहरन्तोऽत्र पादाववधारितवन्तः । तदा तेषां मनसि तीर्थस्यास्य समुद्धार कृते विचारः समुत्पन्नः । तदनन्तरम् तदमोघोपदेशामृतवर्षणपरिप्लावितान्तःकरणनानादेशीयश्रद्धासम्पन्नौदार्यादिगुणगरिष्ठधनाढ्यश्राद्धवितीर्णभूरिद्रव्यव्ययेनास्य समुद्धारः सञ्जातः । ___जातञ्च तेन स्थानमिदं किल नन्दनवनोपमम् । गिरेरुपरि गगनोत्तुङ्गान् प्रासादान् विशालप्रमाणाः प्रतिमाश्च बह्वधिकसंख्यायां निरीक्ष्य विस्फारितनयनारविन्दाश्चारूचमक्तृतचेतोवृत्तयो जनाः विचारयन्ति स्म, यदेताहक्समुन्नतस्थले एवंविधानेकप्रासादानां निर्माणे तथा चैतादृशमहाकायप्रतिमानामिहानयने च का शक्तिः निमित्तभूता जाता भविष्यति तन्नास्मदीयप्रज्ञायां किञ्चित् प्रतिभाति तथापि एतत्तु सुनिश्चितमेव यत् केनाऽप्यत्र दिव्यप्रभावेण निमित्ततया भवितव्यमेव । नहि तं विनैतत् कथमपि शक्यम् । यतो नासीत्तदाद्यतनीययान्त्रिक साधनसद्भावः । तथाप्यतज्जातं तन्महाश्चर्यकारकम् । अत्र च यात्रार्थमागता आबालवृद्धयुवानो विधायास्य तीर्थस्य स्पर्शनां - - - Page #53 -------------------------------------------------------------------------- ________________ ४६ ......नन्दनवनकल्पतरुः २...... - कृत्वा च दर्शनपूजनं तत्तत्परमाहलादक भव्यप्रभूततर जिनबिम्बानां भवन्त्यवश्य-मानन्दसुधासागरनिमज्जिताः । अपरञ्च अवस्थितोपाश्रय-ज्ञानशाला-धर्मशाला-भोजनशालादीनां रचनापि विस्मयकारिण्येव ।। पूज्य शासनसम्राज: कतिकृत्व: वार्ताप्रसंगे कदम्बगिरितीर्थे चातुर्मासीस्थितीकरणाय मनोभावं प्रदर्शितवन्तः । किन्तु तथाविधभवितव्यतावशात् तेषां स विचारा नैव कार्यरूपेण परिणतः । किन्तु तं कृतार्थी कर्तुकाम एव तेषामनन्यपादपद्मसेविसद्धान्तवाचस्पति-न्यायविशारदपूज्याचार्यश्रीमद्विजयउदयसूरीश्वराः तत्र चातुर्मासीमकुर्वन् । श्रीक्दम्बगिरितीर्थसमीपवर्तिचोक-मोरचुपणा-भण्डारीया-जेसरप्रभृतिग्रामवासिनो जनाः प्रमुदितमानसास्तत्रागत्य भूरिभक्त्या व्याख्यानश्रवण-सामायिकप्रतिक्रमण-पौषधादिचातुर्मासिकाराधनां विहितवन्तः । चातुर्मास्यनन्तरं पञ्चमङ्गलमहाश्रुतस्कन्धादिश्रुतोपचाररूपोपधानतपसः आराधनाऽपि तेषां पूज्यपादसूरीश्वराणां पुण्यनिश्रायां प्रारब्धा । तथाविधपरमशान्त-पवित्र-प्रसन्नवातावरणे आराधकैः कृता खलु साऽऽराधना परमतोषकरी चिरकालसंस्मरणीया च जाता । तस्य मालारोपणमहोत्सवप्रसङ्गे वयं भावनगरतो विहृत्य पूज्याचार्यश्रीविजयमे रुप्रभसूरीश्वराऽस्मद् गुरुवर्यैः सह तत्र समागताः। कुशाग्रमतिवैभवविभूषिताः सिद्धान्तमार्तण्डपूज्याचार्यश्रीमद्विजयनन्दनसूरीश्वरमहोदया अपि पादलिप्तपुरतो विहृत्य तत्प्रसङ्गे समुपस्थिताः । कदम्बगिरिसदृशे नीरवशान्तस्थले भूरिसङ्ख्याकमुनिवराणां सहावस्थानमतीवाऽऽनन्ददायक जातम् । __ अधस्तनप्रदेशे द्वासप्ततिदेवकुलिकासमेतश्रीमहावीरस्वामिचैत्यमतीव मनोहरं विद्यते, बहिर्भागे उभयपार्श्वस्थितौ गजराजौ विलोक्य के चन तौ Page #54 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः २.... सत्यावेव मन्यन्ते । अग्रेतनीय प्राङ्गणे प्रत्यहं प्रातःकाले प्रक्षिप्तान् धान्यकणान् चरितुं मयूरपारापतादयः विहगाः झटिति झटिति तत्रागच्छन्ति स्म, तन्मध्ये केचनविहङ्गमास्तु हस्तमध्यादपि धान्यं चरन्ति स्म । कीदृग् मनोहरं तद् दृश्यम्, तद्दर्शनान्नैव चक्षुषी व्यरमेताम् । तत्र विराजमानानां पूज्याचार्यमहाराजश्रीविजयनन्दनसूरीश्वराणां सविधे तदा श्रीनन्दिसूत्रस्य वाचना प्रारब्धा । तस्य प्रारम्भकालीनः कतिचिद्भागः तर्कप्रचुरत्वेन सामान्यतया न सर्वेषां सुगमः । पूज्यसूरीश्वरैस्तु तद्विवेचनमेवं विशदरीत्या विहितं यच्छ्रुत्वा वयं भृशमानन्दभरभाजनाः समभूम । अस्मज्जीवनस्य स किल सुवर्णकालः समासीत् । एतावति व्यतीतेऽपि सुदीर्घकालऽद्यापि तत्संस्मरणं प्रत्यग्रमेव विद्यते । तदा वयं ये केचन मुनयः आस्म, ते सर्वेऽपि भिन्नभिन्नप्रकारेण शास्त्राध्ययनाध्यापनलेखनचिन्तनादौ एवं व्यापृताः आसन्, यन्न कस्यापि केनाऽपि सार्द्धं निष्कारणवार्तालापकरणावकाशः । तदा तत्रत्यैर्मुनिभिः शास्त्रनिर्दिष्टं 'गयं पि कालं न जाणंति' इति वचनं स्वजीवनेऽनुभूयमानमवगतम् । ४७ अद्यापि तत्समयसंस्मरणं चेतसि कामपि वचनातीतविषयामानन्दानुभूतिं जनयति । ततश्च अनायासमेव वदनान्निःसरति । 'ते हि नो दिवसा रम्याः ॥ सर्वंसहा महान्तो हि सदा सर्वंसहोपमाः ।। " हैमवचनामृतम् 91 Page #55 -------------------------------------------------------------------------- ________________ ४८ ......नन्दनवनकल्पतरुः २...... SALA COR M OUSANDER ढिावचारान्वित चन्तनाया K S (अनूदितः) -मुनिविमलकीर्तिविजयः ॥ भगवनिष्ठा भक्तिः ... ॥१॥ योगो निर्विचारस्थितिः ... ॥२॥ मूर्छारहितो निर्ग्रन्थः ... ॥३॥ विषयासक्तो न साधकः ... ॥४॥ स्वानुभूतिः शून्यतायामेव भवति ... ॥५॥ शास्त्राध्ययनस्य लक्ष्य अनुभवरसप्राप्तिरस्ति ... ।।६।। आत्मशुद्धावस्था मोक्षोऽस्ति, अशुद्धावस्था संसारोऽस्ति ... ॥७|| आत्मरतसाधकान् परमात्मा स्वयमेव रक्षति ... ॥८॥ मुक्तेरमात्मज्ञानमस्ति, तद् ध्यानसाध्यमस्ति ... ।।९।। शुद्धात्मनोऽजसमनुसंधानं परमात्मसमापत्तेः कारणमस्ति ... ॥१०॥ आत्मध्यानेन आत्मस्वरूपमनुभूयते ... ॥११।। योगरहस्यं साधनया प्रकटति ... ॥१२॥ तत्त्वदर्शनं चेतसः प्रशान्तावस्थायां लभते ... ॥१३॥ श्रद्धा साधननिष्ठाऽस्ति, भक्तिः साध्यनिष्ठाऽस्ति ... ।।१४।। प्रभोरनुग्रहेणैव आत्मज्ञान-सत्क्रिया-सच्छ्रद्धादय उत्पद्यन्ते ... ॥१५।। निर्विकल्पवीतरागसमाधिरेव केवलज्ञानस्य बीजमस्ति ... ॥१६।। आत्मतृप्तेः साधनं आत्मनः साक्षाद् दर्शनमस्ति ... ॥१७।। 'अहम्' इत्यस्य विसर्जनं तदेव ‘अर्हम्' इत्यस्य सर्जनमस्ति ... ॥१८॥ भक्त्या कृपा वर्धते, कृपया भक्तिर्वर्धते ... ।।१९।। Page #56 -------------------------------------------------------------------------- ________________ ...नन्दनवनकल्पतरुः २...... ४९ धर्माराधनाया लक्ष्यं पूर्णतायाः परिपूर्णप्राप्तिरेव अस्ति ... ॥२०॥ यदा विचारो विरमति तदा मौनं सिध्यति ... ॥२१॥ तपस आराधनायै इच्छानिरोधस्य आवश्यकता अस्ति ... ।।२२।। अध्यात्मशास्त्रस्य चिन्तनेन-परिशीलनेन आत्मनः साक्षात्कारो भवति ... ॥२३॥ यथा यथा दयाभावो वर्धते तथा तथा वैराग्यभावो वर्धते ... ॥२४॥ आगमेन आत्माज्ञानं ट्वलति, मूर्त्या आत्मज्ञानं मिलति ... ॥२५।। रागरहितं हार्दं तदेव अहिंसाया अनुभूतिरस्ति ... ॥२६॥ अभ्यासोऽध्यवसाये परिणमेत्, वैराग्यमक्ये परिणमेत् ... ॥२७॥ ज्ञानेन शमादिगुणा राजन्ते शमादिगुणैर्ज्ञानं राजति ... ॥२८॥ यत्र निर्विचारावस्थाऽस्ति तत्र निजानन्दस्वरूपात्मा अस्त्येव ... ॥२९॥ ज्ञानेन चारित्रस्य वृद्धिर्भवति, चारित्रेण ज्ञानस्य वृद्धिर्भवति ... ॥३०॥ आत्मनि नित्यत्वं भयं हरति, शुद्धत्वं द्वेषं हरति, बुद्धत्वं खेदं हरति ... ॥३१॥ आत्मज्ञानामृतस्य अन्तिमसाधनं ध्यानमस्ति ... ॥३२॥ परप्रकाशता सहजोपचरिताऽस्ति, स्वप्रकाशता निरुपचरिताऽस्ति ... ॥३३॥ मोहहासाय स्वरूपानुसंधानं प्रबलशस्त्रमस्ति ... ॥३४॥ जीवने यमनियमसंयमोपेक्षा आत्मवञ्चनाया एकपदी अस्ति, न आत्मविकासस्य ... ॥३५॥ ज्ञानदशायां ज्ञानस्य प्रधानता अस्ति, व्यवहारदशायां क्रियाया मुख्यताऽस्ति ... ॥३६॥ तपसा वर्मशुद्धिर्भवति, जपेन हृत्शुद्धिर्भवति, त एव संयमस्य फलं स्तः ... ॥३७॥ आत्मा ज्ञानेन ज्ञायते, दर्शनेन दृश्यते, चारित्रेण निगृह्यते ... ॥३८॥ - - - Page #57 -------------------------------------------------------------------------- ________________ .नन्दनवनकल्पतरुः २...... हठयोगे क्रियाया मुख्यताऽस्ति, राजयोगे आत्मोपभोगस्य मुख्यताऽस्ति ... ॥३९॥ परमात्मनः साकारमुद्रा मूर्तिरस्ति, साकारेण निराकारस्य बोधो भवति ... ॥४०॥ आत्मा प्रदेशार्थनयेन देहव्यापी अस्ति, ज्ञानार्थनयेन विश्वव्यापी अस्ति ... ॥४१॥ बाह्यतपः आभ्यन्तरतपसे सहायकं भवति तदेव मुक्तिसाधनाङ्ग भवति ... ॥४२॥ अस्मिन् देहे आत्मभावना देहान्तरगते/जमस्ति, आत्मनि आत्मभावना विदेहनिष्पतेर्बीजमस्ति ... ॥४३॥ यस्य आन्तरिकभावो विशुद्धोऽस्ति, रागद्वेषमोहाऽविद्यारहितोऽस्ति स मोक्षाधिकारी अस्ति ... ॥४४॥ धारणाध्यानसमाधयो योगस्याऽन्तरङ्गसाधनानि सन्ति, व्रतपूजास्वाध्यायादीनि बहिरङ्गसाधनानि सन्ति ... ॥४५।। हे आत्मन् ! यदि त्वं प्राज्ञः असि तर्हि तमेव गुरुं सेवस्व, तान्येव शास्त्राण्यधीष्व, तदेव तत्त्वं परिभावय यैः समतापीयूषोपभोगो भवेत् ... ॥४६।। ज्ञानिनः साधनारम्भे एकत्व-अन्यत्वादिभावनाभ्यासः सूचितः, एकत्वअन्यत्वादिभावनाभ्यासेन अंतर्मुखता प्रकटति ... ॥४७॥ यथा विहायः सर्वभावानामाधारोऽस्ति तथा सामायिकं सर्वगुणानामाधारोऽस्ति ... |॥४८॥ यादृक् विचार: तादृश एव आचारः, यादृक्ष आचारः तादृक् एव विचारः, सः तात्त्विकपरिणामोऽस्ति ... ॥४९।। अध्यात्मयोगात् निर्मलता, ध्यानयोगात् स्थिरता, समतायोगात् तन्मयता ।। प्राप्यते ... ॥५०॥ आत्मा निश्चयेन एकोऽस्ति, व्यवहारेण अनेकोऽस्ति, निश्चयेन पूर्णोऽस्ति, व्यवहारेण सावरणोऽस्ति ... ॥५१।। - Page #58 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... - निश्चयस्य विचारः ज्ञानगुणं विकासयति, व्यवहारस्य विचारश्चारित्रगुणं विकासयति ... ॥५२।। स्वस्य विचार आर्तध्यानस्य हेतुरस्ति, सर्वस्य विचारो धर्मध्यानस्य कारणमस्ति, आत्मद्रव्यस्य विचारः शुक्लध्यानस्य बीजमस्ति ... ॥५३॥ दुष्कृते हेयबुद्धिः सुकृते उपादेयबुद्धिः सम्यग्दर्शनस्य लक्षणमस्ति ... ॥५४।। दानवृत्तेर्मूलं त्यागवृत्तिरस्ति, त्यागवृत्तेर्मूलं कृतज्ञभावोऽस्ति, कृतज्ञभावस्य मूलं परोपकारिताऽस्ति ... ॥५५।। यत् सत्यमस्ति शिवमस्ति सुन्दरमस्ति तद् निर्विचारावस्थायामेव प्राव्यते ... ॥५६॥ य एकजीवस्य रक्षा करोति स विश्वस्य सर्वजीवानां रक्षां करोति, य एकजीवं हन्ति स विश्वस्य सर्वजीवान् हन्ति ... ॥५७।। सत्यमेकमस्ति विचारोऽनेकोऽस्ति, सत्यसाक्षात्कारस्य द्वारं निर्वचारावस्थाऽस्ति ... ॥५८॥ योऽर्हद्भगवन्तं तस्य शुद्धात्मद्रव्येण शुद्धकेवलज्ञानगुणेन शुद्धस्वभावपरिणमनस्वरूपपर्यायेण जानाति स एव निश्चयेन आत्मानं जानाति ... ॥५९।। आत्मज्ञानाय नमस्काराभ्यास आवश्यकोऽस्ति, निष्कामकर्मणे सामायिकाभ्यास आवश्यकोऽस्ति ... ॥६०॥ यावत्कालपर्यन्तं मनः क्रियाशीलमस्ति तावत्कालपर्यन्तं सत्यस्य प्राप्तिर्न भवति, यदा मनः शान्तं भवति तदा सत्यस्य अनुभूतिर्भवति ... ॥६१॥ अभ्यासवैराग्याभ्यां चित्तस्य या सात्त्विकैकाग्रध्येयाकारवृत्तिः सैव योगाभ्यास:, योगाभ्यासस्य मुख्यविषय आत्मसाक्षात्कारोऽस्ति ... ॥६२॥ आत्मा सूक्ष्मतमोऽस्ति अतः स्थूलात् सूक्ष्मे, सूक्ष्मात् सूक्ष्मतरे, सूक्ष्मतरात् सूक्ष्मतमे गम्यते ... ॥६३।। Page #59 -------------------------------------------------------------------------- ________________ ५२ .नन्दनवनकल्पतरुः २...... करुणायाः स्थायिभावोऽनुग्रहोऽस्ति, उपेक्षायाः स्थायिभावो निग्रहोऽस्ति ... ॥६४॥ आत्माऽज्ञानस्य प्रधानलक्षणं अहमस्ति, आत्मज्ञानस्य प्रधानलक्षणं प्रेमाऽस्ति ... ॥६५॥ पिण्डस्थध्यानात् निर्मलता आयाति, पदस्थध्यानात् स्थिरता आयाति, ख्यातीतध्यानात् तन्मयता आयाति ... ॥६६॥ श्रुतज्ञानात् स्थिरता आगच्छति, चिन्ताज्ञानाद् निर्मलता आगच्छति, भावनाज्ञानात् तन्मयता आगच्छति ... ॥६७।। अध्यात्मयोगाद् निर्मलता प्राप्यते, ध्यानयोगात् स्थिरता प्राप्यते, समतायोगात् तन्मयता प्राप्यते ... ॥६८|| अंहिसायाः पालनार्थं क्रोधनिग्रहस्य आवश्यकताऽस्ति, संयमस्य पालनार्थं इन्द्रियाणां निग्रहस्य आवश्यकताऽस्ति, तपः आराद्धं इच्छानिरोधस्य आवश्यकताऽस्ति ... ॥६९।। आचारस्य समताया नाम अहिंसा अस्ति, विचारस्य समताया नाम अनेकान्तोऽस्ति, भाषायाः समताया नाम स्याद्वादोऽस्ति, सामायिकस्य समताया नाम अपरिग्रहोऽस्ति ... ॥७॥ दुष्कृतवर्जनेन शान्तिर्भवति, सुकृतसेवनेन तुष्टिर्भवति, शरणगमनेन पुष्टिर्भवति ... ॥७१॥ समतया जीवे जीवत्वस्य चिन्तनं भवति, कर्मणि कर्मत्वस्य चिन्तनं भवति, गुणेषु गुणत्वस्य चिन्तनं भवति ... ||७२।। 'करेमि सामाइयं' पापवर्जनस्य प्रतिज्ञा अस्ति, ‘अप्पाणं वोसिरामि' सुकृतसेवनस्य प्रतिज्ञा अस्ति ... ।।७३।। मोक्षोपायस्य ज्ञानं 'ज्ञानम्' सम्यग्ज्ञानाद् निर्णीतमोक्षोपायेषु श्रद्धा ‘दर्शनम्', सम्यग्ज्ञान - सम्यग्दर्शनाभ्यां निर्णीतमोक्षोपायाणां यथाशक्ति जीवने आचरणं 'चारित्रम्' ... ॥७४॥ - Page #60 -------------------------------------------------------------------------- ________________ .नन्दनवनकल्पतरु: २...... - देवतत्त्वस्य आधारे गुरुतत्त्वमस्ति, गुरुतत्त्वस्य आधारे धर्मतत्त्वमस्ति, उत्पत्तिक्रमे देवो वरेण्योऽस्ति, साधनाक्रमे धर्मः प्रवर्होऽस्ति ... ॥७६।। यदा आत्मनि सचित्आनन्दस्वरूपस्य ध्यानं क्रियते तदा अभय अद्वेष - अखेदादयो गुण: स्वयमेव प्रकटन्ति ... ॥७७॥ अर्हतोऽकारोऽभयसूचकोऽस्ति, रकारोऽद्वेषसूचकोऽस्ति, हकारोऽखेदसूचकोऽस्ति ... ॥७८॥ शब्दानुसंधानादर्थानुसंधानं भवति, अर्थानुसंधानात् तत्त्वानुसंधानं भवति, तत्त्वानुसंधानात् स्वरूपानुसंधानं भवति ... ॥७९॥ मन्त्रेषु वर्णस्य प्रवेकताऽस्ति, मूर्तिष्वाकारस्य अनवरायंताऽस्ति, ताभ्यां परमतत्त्वोपासना भवति ... ॥८०॥ साक्षात् श्रीजिनेश्वरदेवस्य दर्शन-वंदन-पूजन-स्तवन-ध्यानदिभिर्यत् फलं मिलति तदेव फलं श्रीजिनप्रतिमाया दर्शन-वंदन-पूजन-स्तवनध्यानादिभिर्मिलति ... ॥८१॥ आज्ञाविचये देवाधिदेवस्य आज्ञा ध्येयाऽस्ति, अपायविचये कष्टमयसंसारो ध्ये योऽस्ति, विपाक विचये कर्मफलं ध्येयमस्ति, संस्थानविचये चतुर्दशराजलोकस्वरूपं ध्येयमस्ति ... ॥८२।। औपवस्तस्य त्रयः प्रकाराः सन्ति । गिर औपवस्तम् मनस औपवस्तम् विग्रहस्यौपवस्तम् । गिर औपवस्तात् प्राणविजयो भवति, मनस औपवस्ताद् मनोनिग्रहो भवति, आहारस्य(वर्मणः) औपवस्तादिन्द्रियजयो भवति ... ||८३॥ मैत्रीभावनायां जीवस्य जीवत्वं ध्येयमस्ति, प्रमोदभावनायां गुणाधिकता ध्येयाऽस्ति, कारुण्यभावनायां दुःखाधिकत्वं ध्येयमस्ति, माध्यस्थ्यमावनायां पापाधिकत्वं ध्येयमस्ति ... ॥८४।। पिण्डस्थध्याने प्रभोर्वार्ता ध्येयाऽस्ति, पदस्थध्याने प्रभो म ध्येयमस्ति, Page #61 -------------------------------------------------------------------------- ________________ ५४ .नन्दनवनकल्पतरुः २ रूपस्थध्याने प्रभोराकृतिर्थ्येयाऽस्ति, रूपातीतध्याने प्रभोः शुद्धात्मा - ध्येयोऽस्ति ॥८५॥ परमात्मध्यानं मूर्त्यां स्थाप्यसंबंधेन भवति, मन्त्रे वाच्यस्मरणेन भवति, आज्ञापालने आज्ञाकारक संबंधेन भवति ॥८६॥ वर्णस्य संबंधः प्राणेन सह, प्राणस्य संबंधो मनसा सह, मनसः संबंध आत्मना सह, आत्मनः संबंधोऽन्तरात्मना सह, अन्तरात्मनः संबंधः परमात्मना सह अस्ति ॥८७॥ देहदृष्ट्या पश्यन्नहं दासोऽस्मि, जीवदृष्ट्या पश्यन्नाहमात्मास्मि, आत्मदृष्ट्या पश्यन्नहं परमात्माऽस्मि ॥८८॥ मन्त्रेण मननपरिणामः सम्यग्ज्ञाने आयाति मूर्त्या दर्शनपरिणामः सम्यग्दर्शने आयाति, आगमेन अनुसरणपरिणामः सम्यक् चारित्रे आि ॥८९॥ अयमात्मा देहवान्नास्ति किन्तु देही अस्ति, शरीरवान्नास्ति किन्तु शरीरी अस्ति ॥९०॥ आत्मद्रव्यं यथा यथा विशुद्धं भवति तथा तथा आत्मद्रव्यस्य अन्तरङ्गसाहजिकशक्तिर्विकसति, विशुद्धात्मद्रव्यस्य विकस्यमाना शक्तिः सदा जगते उपकारका एव भवति ॥९१॥ आज्ञापालनं विना मोक्षो नास्ति इति श्रद्धा कथयति, आज्ञाकारकस्य ध्यानं विना आज्ञापालनं नास्ति इति भक्तिः कथयति ॥९२॥ क्रियाया मूलं श्रद्धाऽस्ति, श्रद्धाया मूलं भक्तिरस्ति, भगवतोऽचिन्त्यसामर्थ्यस्य ज्ञानमस्ति, ज्ञानस्य मूलमात्मद्रव्यमस्ति आज्ञापालकस्य अनुरागेण तथा आज्ञाकारकस्य अनुग्रहेण मोक्षमार्गो भवति 118811 साध्यस्य श्रेष्ठताया ज्ञानं भक्तिवर्धकमस्ति साधनस्य श्रेष्ठताया ज्ञानं श्रद्धावर्धकमस्ति ॥९५॥ " भक्तेर्मूलं 118311 Page #62 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... - - श्रवणवाचनानन्तरं तदुपरि चिन्तनं भवेत्, चिन्तनेन ज्ञानं वर्धते, तेन माध्यस्थ्यभावो जायते ... ||९६।। ज्ञानं यथा यथा आत्मसाद्भवति तथा तथा स्वार्थवृत्तेः स्थाने परार्थवृत्तिर्विकसति ... ||९७॥ जिनशासनं परजीवानां वात्सल्याद् भृतमस्ति, परजीवानां वात्सल्याद् जातमस्ति, परजीवानां वात्सल्येन भृतहृदयादुद्धृतमस्ति ... ॥९८॥ अर्हद्भगवद्भिः प्ररूपितं श्रुतं सप्तनयस्वरूपमस्ति, स्वानुभवादुद्धृतमस्ति, केवल्यवस्थायामुपदिष्टमस्ति ... ॥९९।। उपवास-षष्ठभक्त-अष्टभक्तादितपोभिर्लक्षशतभवेषु यावती कर्मनिर्जरा न भवति तावती कर्मनिर्जरा आत्मज्ञानसंपन्नसाधक एकस्मिन् क्षणे करोति ... ॥१०॥ अध्यात्मध्यानयोगः सर्वशास्त्राणां नवनीतमस्ति, परमसंवररूपमस्ति, यथा यथा आत्मसात् भवति तथा तथा साधकः साम्यसुखस्य अनुभवं करोति, अत्रैव च अपवर्गसुखमास्वादयति ... ॥१०१।। यथा दीपदर्शनार्थमन्यदीपस्य आवश्यकता न भवति किन्तु तेनैव दीपप्रकाशेन दीपो दृश्यते, तथा आत्मदर्शनार्थमन्यज्ञानप्रकाशस्य आवश्यकता नास्ति, किन्तु अन्तःस्थितेन ज्ञानप्रकाशेनैव आत्मो दृश्यते ... ॥१०२॥ आर्हन्त्यं सकलार्हत्सु स्थितमस्ति, सिद्धानामधिष्ठानमस्ति, आचार्योपाध्यायसाधूनां ध्येयमस्ति, नामाकृतिद्रव्यभावैः तस्य प्रणिधानं क्रमशः पापनाशस्य पुण्यलाभस्य आत्मज्ञानस्य आत्मध्यानस्य च कारणं भवति । ... ॥१०३।। वाचकपदस्य ज्ञानं वाच्यस्य स्मरणं कारयति, वाच्यपदार्थस्य ज्ञानं वाचकपदस्य स्मरणं कारयति इति न्यायेन अर्हत्पदस्य ज्ञानमहत्परमात्मनः स्मरणं कारयति, अर्हत्परमात्मनः स्मरणं शुद्धात्मस्वरूपस्य च स्मरणं कारयति ... ॥१०४|| - - - Page #63 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरु: २...... जीवो यदा 'सम' परिणामवान् भवति तदा प्रतिक्षणं प्रत्यग्रान् नूत्नान् ज्ञानदर्शन-चारित्रपर्यायान् प्राप्नोति, ज्ञानदर्शनचारित्रपर्याया निरुपमसुखस्य हेतवः सन्ति, तस्मात् ते शास्त्रेषु कामधेनोरपि प्रभावशालिनः कथिताः ... ॥१०५।। तनुरन्तवान् अस्ति, आत्मा अनन्तोऽस्ति । संहननं मूर्तमस्ति, आत्मा अमूर्तोऽस्ति । देहो दृश्योऽस्ति, आत्मा द्रष्टाऽस्ति । तनूर्विनाशी अस्ति, आत्मा अविनाशी अस्ति । देहः कर्मजातोऽस्ति, आत्मा अजातोऽस्ति । मूल् 'मम' बुद्धिर्भवति, आत्मनि 'अहं' बुद्धिर्भवति ... ॥१०६।। शास्त्रस्य मर्म साधनया मिलति, केवलं ग्रन्थाध्ययनाज्ज्ञानस्य पूर्णता न प्राप्यते ... ॥१०७।। मुक्तिमार्गे प्रगतिं चिकीर्षुः साधकः निश्चयव्यवहारौ द्वौ आद्रियेत, द्वाभ्यां कस्यापि एकस्य ग्रहणाद् गतिर्भवति, न प्रगतिः ... ॥१०८।। नमस्कारमहामन्त्रेण चित्तस्य या विशुद्धिर्भवति सैव द्वादशाङ्ग्या भवति, द्वादशाङ्ग्या या विशुद्धिर्भवति नमस्कारमहामन्त्रेण भवति, तस्माच्चतुर्दशपूर्वधरमहात्मापि दिष्टान्तसमये यदि चतुर्दशपूर्वस्य स्वाध्यायकरणाय असमर्थो भवेत् तदा श्रीनमस्कारमहामन्त्रस्य ध्याने लीनो भवति तेन च आत्मविशुद्धि करोति ... ॥१०९।। यत्र क्रोधादिकाषायिकभावानां प्रक्षालनस्य-रोधनस्य लक्ष्यं च नास्ति ताहा औपवस्तादितपः तपो न किन्तु लङ्घनमस्ति ... ॥११०।। भगवद्वाचामावश्यकादिक्रियायाश्चनुरागः स्वर्गसुखानि ददाति, न निःश्रेयसम् ... ||१११|| अष्टाङ्गयोगस्य सारः समता अस्ति, यम-नियम-आसन-प्राणायाम-प्रत्याहारधारणा-ध्यान-समाधिस्वरूपाणि अष्टाङ्गानि समताया उपलब्ध्यै एव सन्ति ... ।।११२॥ यथा दधिसाराय दधिमन्थः क्रियते तथा समतास्वरूपसारस्य प्राप्त्यर्थमेव अनूनकयोगाभ्यासोऽस्ति ... ।।११३।। - Page #64 -------------------------------------------------------------------------- ________________ .नन्दनवनकल्पतरुः २.. अर्हत्परमात्मनः अष्टमहाप्रातिहार्याणि उत्कृष्टतमस्वभावस्य उत्कृष्टानि प्रतीकानि सन्ति ॥११४॥ प्रयत्नः फलदायकोऽस्ति तत्प्रकारको विश्वासः स एव श्रद्धा उच्यते, कृपा फलदायी अस्ति तत्प्रकारको विश्वास स एव भक्तिः कथ्यते ॥११५॥ उपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मण्डलः । मृगारिः शरमुत्प्रेक्ष्य शरक्षेप्तारमृच्छति ॥ (आत्मध्यानादिविचारान्वितचिन्तनीयसूक्तिसङ्ग्रहः “आत्मउत्थाननो पायो" (भंद्रकरविजयजी महाराज) इति “आत्मज्ञान अने साधनापथ" ( अमरेन्द्रविजयजी महाराज ) इति पुस्तकाच्चाऽनूदितः । ) ... ... " हैमवचनामृतम्' ५७ Page #65 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... - । आस्वादः ] चिन्तनधारा -मुनिरत्नकीर्तिविजयः योगस्य हेतुर्मनसः समाधिः, परं निदानं तपसश्च योगः। तपश्च मूलं शिववर्त्मवल्लया, मनःसमाधिं भज तत्कथञ्चित् ।। (अध्यात्मकल्पद्रुम ९-१५) व्याख्या-शिववर्त्मवल्लयाः - शिववर्त्म - मोक्षमार्गस्तस्य वल्ली-लता तस्या मूलं तपः, अस्तीति सर्वत्राऽध्याहारः । तपसो निदानं-कारणं कीदृशम् ? परम्-श्रेष्ठम् योग: - ज्ञान-श्रद्धान-चरित्ररूपोऽस्ति । योगस्य हेतुः - मनसः समाधिः - समाधानं समता वाऽस्ति । तत् - तस्मात् कारणात् कथञ्चित् - केनाऽपि प्रकारेण मनःसमाधि - सर्वस्याऽऽधारभूतां भज - सेवस्व ॥ ___ विरिणम्- महापुरुषाणां करुणयैवाऽद्यपर्यन्तमस्मिन्जगत्याध्यात्मिको मार्ग उद्घटितस्तिष्ठति । तादृशीं तेषां करुणामनुभवितुं न काऽपि साधनाऽनिवार्या । शास्त्ररूपेणैव सा जगत्यां विलसत्येव । शास्त्रेण चाऽस्मादृशां दीयमानं मार्गदर्शनमेव तेषां करुणाऽस्ति । तदनुभवे त्वस्माकं दृष्टिरेवोपयोगिनी। ____ सत्यं यो गवेषयति तस्य मार्गदर्शनार्थं तु शास्त्ररूपेण महापुरुषाः सर्वदोपस्थिता एव सन्ति । किन्तु न ते कमपि हस्तं गृहीत्वा चालयन्ति, केवलमुपदिशन्त्येव । सूर्यो न पथदर्शनार्थमधोऽवतरति स तु केवलं प्रकाशं प्रथयति । स प्रकाश एवाऽस्माकीनी स्थितिं मागं च स्पष्टयति । पश्चात्तु पथिकस्य विवेक एव प्रमाणं भवति । तद्वदेव ज्ञानिनो महापुरुषा अपि लक्ष्यप्राप्तेः स्वानुभवप्रकाशं शास्त्रद्वारा जगत्समक्षं विस्तारयन्ति । स शास्त्रप्रकाश एव सर्वेषां स्थितिं मागं च प्रकाशयति । तन्मार्गे च स्वकीयां स्थितिं ज्ञात्वा प्रत्येकमात्मानः स्वस्वानुरूपया योग्यतया विकासं साध्नुवन्ति । तत्प्रकाशमवलम्ब्य विकासं साधयन्नात्मा यदा स्वीयस्वरूपावस्थानरूपं परमं चरमं Page #66 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... ५० च लक्ष्यं सञ्जानीते तत्प्राप्त्यर्थं च यं पुरुषार्थमादरति तमेव मोक्षपुरुषार्थ इत्यमिदधति शास्त्राणि। श्लोकेनतेन श्रीमुनिसुन्दरसूरिभगवन्तो मोक्षार्थं पुरुषार्थयन्तं साधकमुद्दिश्य तस्य पुरुषार्थस्य साफल्ये हेतुं दर्शयन्ति। यत् - तपःपूर्वको योगमार्गो निश्चयेन लक्ष्यं प्रापयति, किन्तु यदि स समाधिमूलो भवेत्तदैव । समाधिस्तु मोक्षमार्गस्याऽऽधारोऽस्ति । समाधिरहितः समग्रः पुरुषार्थस्तु निष्फलप्राय एव । मूलरहितं भवनं दृश्यते कदाचित् सुन्दरं किन्तु न स स्थायिभावं भजते । समाधिस्तु मूलं वर्तते साधनायाः । साधनाजीवनस्य प्रत्येकमवस्था, प्रवृत्यात्मिका वा निवृत्यात्मिका वा, तु साधनात्वेन तदैवाऽभिधीयते यदा सा समाधिसहमूला स्यात् । समाधानं समाधिः । जीवनस्य वास्तविक आनन्दः समाधाने एव वर्त्तते। अभीष्टं प्रत्यनभीष्टं वा प्रति स्वस्य सदसदाग्रहो न कदापि लाभाय सौख्याय वा जायते । यतः किमप्यभीष्टमनभीष्टं वा बाह्यार्थमपेक्ष्यैव वर्त्तते । यः स्वीयं स्वरूपं प्राप्तुं प्रवृत्तः स न कदापि बाह्यार्थे मुह्यति । तस्य कृते तु स्वरूपावस्थानमेवेष्टं, तद्भिन्नं तु सर्वमनिष्टमेव । यावत्कालं बाह्यार्थस्याऽपेक्षा वर्त्तते तावदसमाधिरेव प्रवर्त्तते । अवेक्खा अणाणंदे' अपेक्षा नाम अनानन्दः । अनानन्दस्त्वसमाधिरेव। मोक्षो नाम स्वरूपेऽवस्थानम्, स्वरूपाभासे रुचिश्च संसार एव स्वरूपप्राप्त्यर्थं तु संसारोऽवश्यमेव त्याज्यः । असमाधिस्तु संसारस्य पर्यायरूपैवाऽस्ति । यदंशेन संसारान्मुक्ति स्तदंशेनैव समाधिर्लभ्यते । स्वरूपसहस्रेण वर्त्ततेऽयं संसारः । अपेक्षारूपेण, एषणारूपेण, अस्थैर्यरूपेणेत्याद्यनेकरूपेण। नास्ति किञ्चिन्नियतं स्वरूपं तस्य । समासतो यावन्तः कर्मणो भेदास्तावन्तो भेदाः संसारस्याऽपि सन्ति । कदा केन स्वरूपेण स अस्मासु वर्त्तते लत्वत्यर्थं सावधानं च चिन्तनीयमस्ति। संसारस्य परिज्ञानं विना न तस्मान्मुक्तिः शक्या नाऽपि च समाधेः प्रादुर्भावः शक्यः । वर्त्ततेऽस्माकं वृत्तिषु संसारः, न परिस्थितिषु नाऽपि च पदार्थसार्थे । ते तु जडप्राया एव । तेषु ममत्वरूपेणाऽस्मदीया स्वकीयत्वभावरूपाऽविवेकितैवाऽसमाधेः कारणम् । अविवेको यावन्न भिद्यते न तावत्संसारः परिहीयते । तावच्च समाधिरपि दुर्लभै - Page #67 -------------------------------------------------------------------------- ________________ .....नन्दनवनकल्पतरुः २...... - वास्माकम् । यत्र विवेकस्तत्र समाधिर्यत्र चाऽविवेकस्तत्राऽसमाधिः । विवेकस्तु सर्वत्राऽऽवश्यकः, साधनामार्गे तु विशेषण । अन्यथा प्राप्तव्यं विस्मृत्य विचाले एव भ्रमणं भवति। सामान्यतः साधना न काऽपि सर्वथा निष्फला भवति । द्विविधं फलं तस्याः - एकं भौतिकमपरं चाऽऽध्यात्मिकम् । इच्छाधीनं पुण्यं तु भौतिकं फलम्, निरीहभावेन च सकलकर्ममलक्षयेण स्वरूपावस्थानं त्वाध्यात्मिकं फलम्।। ____सामान्यतः साधनाकर्तारं पुण्यप्राप्तिस्तु स्वाभाविक्येवाऽस्ति। किन्तु य इच्छापूर्वक पुण्यमुपार्जयति तं तत्पुण्यं तज्जन्येषु बाह्यार्थेषु रागं वा द्वेषं वा जनयति । अत एव तादृशं पुण्यं भौतिकं विचाले भ्रमणवच्च फलमस्तिः तच्चाऽसमाधिरूपमेव । यत इच्छाजन्येन पुण्येनेच्छापूर्ती सत्यां या शान्तिः प्रसन्नता वाऽनुभूयते सा साधाराऽस्ति। अपरं च कमप्यवलम्ब्य यदि प्रसन्नता स्यात्तर्हि छद्यरूपेण तत्र विषादोऽपि विद्यत एव । अतस्तादृशी प्रसन्नता शान्तिर्वाऽसमाधिरूपैव । यस्तु लक्ष्यमनुलक्ष्यैव साधनां करोति, सोऽपि पुण्यं, पुण्यानुभावाच्च सर्वान् बाह्यार्थान् लभते एव । किन्तु न तस्य पुण्य तं तज्जन्येषु बाह्यार्थेषु बाह्योपलब्धिषु च रागं वा द्वेषं वा जनयति, अपि तु लक्ष्यं प्रत्यधिकं प्रेरयति । अतस्तदस्त्याध्यात्मिकं समाधिरूपं च फलम् । यतस्तत्राऽस्ति साहजिकी निष्कारणा च प्रसन्नता । सा च समाधिरूपैव। ___ अत्यन्तं सूक्ष्मविषया वर्तते समाधिः । सा तु ज्ञातुमपि दुःशक्या तर्हि तत्प्राप्तिस्तु कीयूपा स्यात् । असमाधेः समीचीनं ज्ञानं विना तत्त्वतः समाधिप्राप्तिस्तु दुर्लभैव । कर्मजन्यायां कस्यामपि स्थितौ स्वकीया रुचिररुचिर्वाऽसमाधिरेवेति तु निश्चितम् । अतः स्वकीयां रुचिमरुचिं वोपेक्ष्य निरीहभावेनैव केवलं स्वबद्धं लक्ष्यमेव योऽनुसरति स एव समाधिभाग् भवति, लक्ष्यमपि च प्राप्नोति, स्वकीयं मोक्षपुरुषार्थं सफलयत्यपि च। लक्ष्यं यस्य शृङ्गं न स मध्यवर्त्तिषु दृक्सुन्दरेष्वपि विश्रान्तिस्थानतुल्यस्थानेषु - - - - - - %3 Page #68 -------------------------------------------------------------------------- ________________ .नन्दनवनकल्पतरु: २...... ६१ - - मुह्यति । एवमेव स्वरूपावस्थानरूपो मोक्षो यस्य लक्ष्यं न स पुण्यप्राप्तासु बाह्योपलब्धिषु मनागपि मुह्यति । यतः सर्वत्र सर्वथा सर्वदा च रागद्वेषाभाव एव समाधिरिति तस्य मतिः स्यात्। इत्थमत्र निश्चितं यद् न मीयते साधना काऽपि कदाऽपि कस्यचिदपि बाह्योपलब्धिना फलत्वेन । किन्तु तत्काले कीदृशी तस्य मनःस्थितिरित्यनेनैव मीयते । ___ अन्ततो गत्वा सर्वोत्कृष्टामपि बाह्योपलब्धिं स्वसाध्यममन्वानस्तत्र च रागादिभावमकुर्वाणः सन्नेव यः स्वीयां समाधि रक्षति स एव योगमार्गेण सिद्धिरूपमन्तं प्राप्नोति। अत्र लक्ष्यं मोक्षः, तन्साधनार्थ ज्ञान-श्रद्धान-चारित्ररूपो योगस्तु मार्गः । किन्तु न केवलं लक्ष्यनिश्चयो मार्गस्य च ज्ञानं लक्ष्य प्रापयतः, तत्र गतिरप्यनिवार्यैव । अतः का नाम गतिः ? सा अस्मिन् श्लोके - ‘मनः समाधिं भज तत्कथञ्चित्' इत्यनेन दर्शिता यत्-समाधिस्तु गतिः । मार्गो गतिश्च, न कोऽप्येकः किन्तूभेऽपि सम्मीलिते एव लक्ष्यं प्रापयतः। ‘गतिं विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम्'। अतः श्रीमुनिसुन्दरसूरिभगवन्तः कथयन्ति यद् - भो आत्मन् । यदि त्वं मोक्षं साधयसि तर्हि मनसः समाधिं भज ॥ इति शम् ॥ | पित्ताग्निः शर्कराशम्य: पयसा किं न शाम्यति ? ॥ “हेमवचनामृतम्" - - - - - Page #69 -------------------------------------------------------------------------- ________________ ..नन्दनवनकल्पतरुः २...... - दृष्टि: - मुनिकल्याणकीर्ति विजयः इह किल बहवोऽर्था दृष्टिशब्दस्य यथा नेत्रं, ज्ञानं, दर्शनं, अवलोकनं, मतमित्यादि । किन्त्वामविकासाध्वनि तस्या अन्य एव कश्चिदर्थो भवति यः स्वानुभवेनैव स्वचित्ते स्फुरति । शब्दैस्तदनुवादः कर्तुमशक्य एव । तथाऽपि विविधा विचारास्तदर्थलेशमवगन्तुमत्र प्रस्तुताः । ___सामान्यतो दृष्टौ पर्यन्तौ स्तः । एको मिथ्यादृष्टिरपरश्च सम्यग्दृष्टिः । नैतौ तस्या भेदौ । सा त्वेकैव । किन्तु यथा एकस्या एव रज्ज्वा द्वे पर्यवसाने तथैवैतो तस्या द्वौ पर्यन्तौ । यदाऽस्माकं चित्तं सङ्कुचित्या, जडरूढिभिः, कदाग्र है:, असच्चिन्तनैः, परदोषदर्शनैः, स्वगुणप्रकर्षेः, क्रोधादिदोषैश्च परिपूर्णं ततश्च क्षुद्रं भवति तदाऽस्माकं दृष्टिर्मिथ्यादृष्टि र्भवति । सैवाऽसदृष्टिरभिधीयते । अयमेव दृष्टेरेकं पर्यवसानम् । यदैव चाऽस्माकं चित्तं उदारतया, अनाग्रहेण, सत्यपरतया, स्वदोषदर्शनेन, परगुणानुमोदनैः, क्षमादिगुणैश्च शनैः शनैर्मिथ्यादृष्टिं विसृज्य निर्मलीभवति तदा नो दृष्टिः सम्यग्दृष्टिर्भवति । अयं च द्वितीयः पर्यन्तस्तस्याः । - यथा जलं शीतीभूय हिमं भवति, उष्णीकृतं च बाष्पीभवतिः यथा वोष्णतामापकयन्त्रे (थर्मो मीटर) उष्णतावृद्धौ पारद ऊर्ध्वं गच्छति तद्धानौ चाऽधो गच्छति, तथैव गुणादिवृद्धौ दृष्टिर्निर्मलीभूय सम्यग्दृष्टिर्भवति विपर्यये च मिथ्यादृष्टिर्भवति । किन्त्वेतत् सर्वमनुभवितुं स्वां दृष्टिं चोद्घाटयितुं विकासयितुं च तत्परता, उत्साहः, सङ्कल्पो, दृढनिश्चय इत्यादिसम्पत्तिरावश्यकी। प्रत्येकघटनायां सर्वत्रैव वा सृष्टौ दृष्टेरुद्घाटकं विकाशकं च तत्त्वं भवत्येव, तद्ग्रहणपरा दृष्टिर्यद्यस्मासु स्यात् । अतः सर्वदा विस्मयमुग्धया विशालया सरलया जिज्ञासितया च | दृष्ट्याऽवलोकनं कर्तव्यम् । एष एव दृष्टे रुद्घाटकानां विकाशकानां च om HAMAR - - - Page #70 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २..... - मार्गाणामन्यतमो मार्गः। वस्तुतस्तु दृष्टेरुद्घटनं तथा विकास एव चित्तोर्वीकरणस्य सन्मार्गः । यथा यथा तद्विकसनं भवति यथा च वयं तन्मार्ग अग्रेसरीभवामस्तथा तथा स्वयमेव चित्तशुद्धिर्वर्धतेऽशुद्धयश्च संसन्ते । पुनस्ता अशुद्धीरूरीकर्तुमवकाशो नैव भवितव्यः। यद्यपि कठिन एष मार्गः। अत्र च कदाचित् - 'नाऽयमस्मादृशां सामर्थ्यगोचरो मार्गः' इति विप्रतिपत्तिरपि भवेत् चित्ते । किन्तु तदा स्वध्येयं लक्ष्यीकृत्य धैर्य चाऽवलम्ब्य तन्मार्गममुञ्चता सर्वा विप्रतिपत्तयो निराकरणीयाः। ___ एवं विघ्नानुपशमय्य यथा यथा पुरःसरामो वयमेतदध्वनि तथा तथा नः स्वलघुताः प्रत्यक्षीभवन्ति । यथा कश्चित् पर्वतारोही कञ्चित् पर्वतमारो, तलहट्टिकयाऽऽरभते । स यथा यथोपर्यारोहति तथा तथा तस्याऽधः स्थितं सर्वमपि वस्तु यथायोग्यं प्रत्यक्षीभवति । तथैव यदा वयं निजां दृष्टिमुद्घाट्य तद्विकासमार्गं प्राप्याऽग्रेसरा भवामस्तदा दोषादिकृतं स्वलाघवं सुतरामस्माकं प्रत्यक्षीभवति । यथा नो विकासोऽधिकस्तथा दोषा अपि अधिकतराः प्रत्यक्षीभवन्ति । तत्कृता लघुता अपि साक्षात् प्रतिभासन्ते । ___यदा वयमनेन मार्गेण निजलघुता निजदोषांश्चाऽवगच्छामस्तदा तन्नाशनोपाया अपि स्वयमेव स्फुरन्ति चित्ते । एतैरुपायैर्यदा वयं दोषान् दूरीकुर्मस्तदा गुणाः स्वयमेव प्रकटीभवन्त्यात्मनि । दोषनाशनमेव गुणोद्भावनस्य महानुपायः । किञ्चाऽस्मिन् जगति सर्वमेव वस्तु सर्वदैव स्वीयार्थक्रियायां स्वस्थतया प्रवर्तत एव । न किञ्चिदपि दुःस्थमस्ति । किन्तु यदाऽस्माकं दृष्टिः स्वस्था, विकसिता, समीचीना च भवति, यदा च वयं सर्वत्र यथार्थं द्रष्टुं स्वं प्रगुणीकुर्मस्तदैवऽस्माकं सर्वत्र यथार्थं सुस्थं च प्रतिभाति । यद्यस्माकं दृष्टिरेवाऽस्वस्था, अविकसिता, असमर्था च यथार्थतयाऽव - Page #71 -------------------------------------------------------------------------- ________________ ६४ .नन्दनवनकल्पतरुः २.. लोकितुं तदा नो जगति सर्वमेवाऽयथार्थं दुःस्थं च प्रतिभाति । एतदर्थपरैवैषा सूक्तिः 'यथा दृष्टिस्तथा सृष्टि: ।' अतः सर्वदा स्वदृष्टिं विकाशयितुं चित्तं चोर्ध्वकर्तुं प्रयत्नशीलैर्भाव्यम् । एवं कुर्वाणाः शनैः शनैर्विकासं प्राप्य दोषान् विनाश्य गुणांश्च प्रकटीकृत्य सम्यग्दृष्टेः परां काष्ठां समवाप्नुवन्ति स्वयमेव च दृष्टिरूपा सम्भूय सर्वजगतः प्रेरणास्रोतं भवन्ति । अविमृश्य विधातारो भवन्ति विपदां पदम् ॥ प्रायो विचारचञ्चूनां कोपः सुप्रशमः खलु ॥ 66 ' हैमवचनामृतम् ” Page #72 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः २...... ६५ - - - - विज्ञापनम् - - - निःशुल्कम् निःशुल्कम् निःशुल्कम् कस्तूर्या सह सुगन्धो निःशुल्कः लशुनेन सह दुर्गन्धो निःशुल्कः पिशुनेन सह कपटं निशुःल्कम् कर्मणा सह वेतनं निःशुल्कम् धनेन सह चिन्ता निःशुल्का व्यसनैः सह रोगा निःशुल्काः रोगैः सह औषधं निःशुल्कम् भोजनेन सह तृप्ति निःशुल्का कदलीफलेन सह छल्लिनिःशुल्का शर्करया सह मधुरता निःशुल्का वृक्षैः सह प्राणवायुनिःशुल्कः क्रोधेन सह गालिनि:शुल्का विस्मयेन सह मुग्धता निःशुल्का स्मयेन सह दग्धता निःशुल्का दृष्कृ तैः सह पापं निःशुल्कम् सुकृतैः सह पुण्यं निःशुल्कम् नन्दनवनकल्पतरुणा सह हास्यं निःशुल्कम् - - - - Page #73 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... रङ्गमञ्चः | पण्डितत्रिकम् । पात्राणि त्रयः पण्डिताः १. वैयाकरणः २. तार्किकः ३. कविः भिक्षुकः सद्गृहस्थः - मूलेषु हि विशुष्केषु शुष्क एव महीरुहः॥ हेमवचनामृतम्' | - - Page #74 -------------------------------------------------------------------------- ________________ ...नन्दनवनकल्पतरुः २...... ६७ भूमिका- एकस्माद् ग्रामान्मिथः सुहृदस्त्रयो ब्राह्मणा अध्ययनं कर्तुं काशीमगच्छन् । ब्राह्मणोपरि सरस्वती सदा प्रसन्ना' इत्युक्तिं सत्यापयद्भिस्तैरल्पेनैव कालेन बहूनि शास्त्राण्यधीतानि, स्वस्वविषये च पारङ्गता अभवन् । तत्रैको वैयाकरणोऽन्यस्तार्कि कोऽपरश्च कविः सञ्जातः । किन्तु व्यवहारानभिज्ञत्वाद् अभिमानितत्वाच्च त्रयोऽपि पुस्तकपण्डिता एवाऽभवन् ।। ___अध्ययनं समाप्य यदा ते निजग्रामं प्रतिनिवृत्तास्तदा ग्रामवासिभिर्जनैस्तेषां स्वागतं सम्मानं च कृतम् । एतेन तेषामभिमानं सुवृद्धिमाप - ‘यदस्मादृशो ज्ञानिनोऽस्मिन् जगति नैव विद्यन्ते' इति । अनेन ते स्वेतरान् जनान् तुच्छतया मन्येरन्। तत्राऽपि वैयाकरणो येन केनाऽपि सह भाषमाणस्तस्य भाषास्खलनामेव शोधयति स्म । तार्किकस्तु सर्वत्र शङ्कां कुर्वाणः सर्वं वस्तु प्रमाणेनैव स्वीकर्तुमाग्रहयति स्म । कविस्तु स्वीयाऽस्खलितवाणीप्रवाहे हतप्रभमन्यं जनं निमज्जयति स्म । एवमेव दिनानि गमयतां तेषां एकदा किमभूत् तत् पश्यामः प्रथमं दृश्यम् (दिनत्रयेणाऽलब्धभिक्षत्वादतीव बुभुक्षुः कश्चिद् भिक्षुको गृहाद् गृहं भ्रमन् वैयाकरणगृहं प्राप्य-) भिक्षुकः पण्डितराज! भोः पण्डितराज! किमपि खाद्यं देहि भिक्षुकाय मे । दिनत्रयेण न किमपि खादितं मया । अतीव भुक्खा लगिता । पश्येदं खड्डे मे पोट्टे । कृपयैकां रोटिकां देहि । गिरधारी भगवान् त्वां सुखीकरिष्यति। वैयाकरण: (द्वारि आगत्य) रे भिक्षुक ! किमेवमसमञ्जसं रारटटीषि ? सम्यग् वक्तु मपि न जानासि? 'भुक्खा लगिता' इति न समीचीन: प्रयोगोऽस्ति । 'मां क्षुधा बाधते' एवं वद । अपि च पोट्टं खड्डं च मा वादीः। ‘पश्य ममोदरे इमां गर्ताम्' इति कथय । भिक्षुकः (लज्जितः) क्षम्यतां महाराज! मां खधा बाधे । पश्य मम उन्दरम् । वैयाकरण: (क्रुद्धः सन्) भोः ! किमपि बुध्यसे न वा ? किमिदमालजालं वक्षि ? इदं सम्यक्तया शृणु। 'क्षुधा मां बाधते, पश्य मम उदरम्' इति । - Page #75 -------------------------------------------------------------------------- ________________ ६८ .... नन्दनवनकल्पतरुः २...... - भिक्षुकः अधुना मामनुवद। प्रभो ! प्रथमं मे रोटिकां देहि । भृते सति पोट्टे पश्चान्मां खधा-गधादि शिक्षय। वैयाकरण: रे वत्स ! किमिति रोटिका-रोटिकेति रटन् मुह्यसि ? शब्दब्रह्मण उपासनां सेवनं स्तवनं च कुरु । शब्देष्वेव प्राणा विद्यन्ते । शब्दा एव जीवनम् । शक्तिः सामर्थ्यं च तैरेव वर्धते । तव क्षुधाऽपि तैर्विनक्ष्यति। भिक्षुकः किन्तु प्रभो ! प्रथमं मे किञ्चिद्... वैयाकरण: (मध्य एव) रोटिकया किमपि न भवति बाल ! त्वं शब्दब्रह्मण एव सेवनं कुरु । तव सर्वदुःखाणि विलीनीभविष्यन्ति । (एतच्छ्रुत्वा खिन्नो दीनवदनो भिक्षुर्निराशीभूय ततो निर्गच्छति, अन्यत्र च गन्तुं प्रक्रमते । तं गच्छन्तं विलोक्य) वैयाकरण: (स्वगतम्) अहह ! कीदृग् मे वाचः सामर्थ्यम् ।? अस्य वराकस्य क्षुधाऽपि मम वाणीप्रवाहे विलीना। द्वितीयं दृश्यम् (भिक्षुकः समीपस्थं तार्किकगृहं गच्छति) भिक्षुकः पण्डितराज ! भो पण्डितराज! दिनत्रयेण बुभुक्षितोऽस्मि। दयां कृत्वा मे किमपि खादितुं देहि । भगवान् त्वां सुखीकरिष्यति। तार्किकः भो भिक्षुक ! तव बुभुक्षितत्वे किं प्रमाणमस्ति? अपि च ‘दयां कुरु' इत्येतत् कथयितुंममाऽधिकारोन तव । किञ्च भगवति किं प्रमाणम् ? सोऽपि तव वचसा मां सुखीकरष्यितीति कथं विश्वसिमि ? भिक्षुकः प्रभो ! मम बुभुक्षितत्वे इदं मे पोट्टमेव प्रमाणमस्ति । (उदरं दर्शयन्) पश्याऽत्र खड्डम् । अपि च भगवांस्तु सर्वत्र विद्यते । योऽप्यन्योपरि दयां करोति तं स सुखीकरोति। - Page #76 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... ६९ - - तार्किकः भिक्षुकः तार्किकः भिक्षुकः तार्किकः भिक्षुकः भो वत्स ! तव पोट्टं बुभुक्षयैव रिक्तमित्यत्र न किमणि प्रमाणमस्ति । रिक्तता तु प्राणायामेनाऽपि भवेत् । (भयद्रुतः सन्-) पूज्य ! नाऽहं कमपि पानाराम-बानारामादिकं जाने। इदं रिक्तत्वं तु दिनत्रय बुभुक्षयैवाऽभवत् । न किमपि भुक्तं मया दिनत्रयात् । मम त्वयि शङ्का भवति। कृपया मयि विश्वासं कुरु। (क्रुद्ध इव-) रे बाल! न्यायसूत्रकारं विहाय नाऽन्यं कमपि विश्वसिमि । किञ्च त्वं प्रत्यक्षेणैव सर्वाङ्गसम्पूर्णः पुष्टश्च दृश्यसे तथाऽपि बुभुक्षितोऽस्मीति वदसि । तर्हि कोऽत्र हेतुः किञ्चाऽनुमानम् ? यद्येतत् सर्वमुपयुज्य त्वमनुमानप्रमाणेन प्रमाणीकरोषि चेत् तदैव त्वामहं विश्वसिमि। प्रभो ! नाऽहं कमपि हनुमानं जानामि । कृपया मे किमपि खादितुं देहि। भो वत्स! त्वं बालकोऽसि । न्यायशास्त्रमतीव गहनमस्ति । प्रमाणेन विना चाऽहं किमपि कर्तुं न शक्नोमि । (एतच्छ्रुत्वा निर्विण्णो भिक्षुको विलक्षीभूय ततो निर्गच्छति।) तृतीयं दृश्यम् (ततो भिक्षुकोः कवेर्गृहं गच्छति।) पण्डितराज ! भोः कविराज ! (रघुवंश-काव्यकलशादिपुस्तकानि गृहीत्वा काव्यानि पठन् बहिरागतः) हे नर ! त्वं केनाऽलङ्कारेण वदसि ? कं च रसमनुभवसि ? (रुदन्) प्रभो ! दिनत्रयेणाऽशनायितोऽस्मि । बहुनाऽपि भ्रमणेन न किमपि लब्धं भिक्षायां मयाऽद्य । कृपया किञ्चिद् भुक्तावशिष्टमपि तार्किकः भिक्षुकः कविः भिक्षुकः Page #77 -------------------------------------------------------------------------- ________________ कविः भिक्षुकः कविः नन्दनवनकल्पतरुः २..... देहि । अहो ! त्वमन्नरसाभावमनुभवसि ? न काऽपि हानिः । अधुना त्वं काव्यरसपानं कुरु । आकण्ठं तत्सेवनेन तव सर्वाण्यपि दुःखोपाधिव्याध्यादीनि नङ्क्ष्यन्ति । त्वं दिव्यसुखान्यनुभविष्यसि । (श्लोकान् पठति) दयां कुरु पूज्यवर्य ! बुभुक्षया म्रियेऽहम् । वत्स ! किमिति दुःखीभवसि ? काव्यानन्दसुधाकुण्डे निमज्ज । काव्यसुधारसपानेनाऽऽनन्दमनुभव | काव्यरसं विहाय नाऽस्मिन् जगति किमपि सौख्यप्रदमस्ति । काव्यरसं सेवस्व । ( उच्चैः श्लोकान् पठति ।) (एतच्छ्रुत्वा नष्टचेतनो भिक्षुको मत्त इव प्रलपन् ततो निर्गच्छति ।) - अनुवर्तते ॥ सुप्रयुक्तस्य दम्भस्य ब्रह्माऽप्यन्तं न गच्छति ॥ (6 हैमवचनामृतम् Page #78 -------------------------------------------------------------------------- ________________ . नन्दनवनकल्पतरुः २...... कथय....रे... कोऽहम - (रम्यरेणुः) साध्वीश्रीदिव्यगुणाश्रीजी (१) घातायोत्थापिता या मुष्टिः, कृता तयैव कचाकृष्टिः ... । (२) कुर्वता मया सन्नृत्तम्, पश्यता सुसाधुवृत्तम्, प्राप्तं च पदममृतम् । (३) गच्छन् वीरसमवसृतिम्, मार्गे लेभेऽहं च मृतिम्, प्रपेदे स्वः सुराकृतिम् ... । (४) श्रुत्वाऽहं निजश्यालकहासम्, कुर्वे स्म श्रामण्ये विलासम् ... । (५) लक्ष्यं विधाय ज्वलद्दीपवर्त्तिम्, कायोत्सर्गश्चक्रे सफलां रात्रिम्...। (६) आभीरभवे आर्पयं क्षीरम्, लेभेऽचिरं भवोदधितीरम् । (७) दर्शितो राज्ञ्या दिव्यदूतः, प्रणाशितो मया भवभूतः । (८) मा भूद् *वि-निर्यातनम्, ततश्चक्रे देहनिपातनम् ...। ( ९ ) संकल्पेन नष्टं रोगवेदनम्, तदैव कृतं संसारच्छेदनम् ...। (१०) मूर्धनि सोढा दण्डप्रहारा, लब्धा मया स्व - संपदपारा ...। (११) यत्स्थानादायातोऽहम् तत्रैव यातो नु सत्वरम् ...। (१२) भङ्क्तुं गतो मानसभ्रमम्, भग्नं च मे भवक्रमम् ...। (१३) दहन् दग्धः कर्मदारु, दीप्तं तु निजज्योतिश्चारु ...। (१४) भगिनीवचसा कृत उपवासः, संप्राप्तो मया स्वर्वासः । (१५) महापर्वणि जेमन् कूरम्, वादितं मे कैवल्यतूरम्...। (१६) मा गमद् बहु - प्राणिप्राणम्, खादित्वा शाकं कृतं तत्त्राणम्... । (१७) सेहेऽलाभपरीषहो विना दैन्यम्, प्रहतं लघु घातिकर्म सैन्यम्...। (१८) आसीन्मे यत्समराङ्गणम्, कृतं तदेव श्रामण्याङ्गणम्...। (१९) यद्यपि भगवदाज्ञा भग्ना तदपि भूता शिववधूर्मना...। 'विः पक्षी । ७१ Page #79 -------------------------------------------------------------------------- ________________ ७२ ......नन्दनवनकल्पतरुः २...... (२०) दृष्टं हृष्टगोर्जर्जरितगात्रम्, जगृहे चारित्रं मुक्तिपात्रम्...। (२१) वन्दितं भावेन मुनिमण्डलम्, चक्रे मया नरकखण्डनम्...। (२२) सुपात्रेऽदां प्रथमं दानम्, विदधे प्रभुणा मत्सन्मानम्...। (२३) श्रुत्वा केवलशब्दत्रिकम् , लेभे विरति-वाहित्रकम्...। (२४) यत्र श्रयेन्नित्यं कामः, तत्रैव श्रितो मे आत्मरामः...। (२५) मातुः सविधेऽकार्षं भृशं रोदनम्, लब्धं शर्मदं रजोहरणम्...। (२६) प्राप्तुं गतोऽल्पचामीकरम्, प्राप्नोत्तत्रैव श्रामण्यवरम्.... (२७) क्रियमाणं मया भरतनाटकम्, प्राप्यत चापवर्गहाटकम् ...। आस्तामत्र सतां सङ्गः परलोकेऽपि शर्मणे॥ "हैमवचनामृतम् * उपशम विवेक-संवरात्मकम्। * हाटकम् - सुवर्णम्। - - Page #80 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरु: २. (पथिकः कोऽपि गच्छति मार्गे । तत्पादेिकं त्रिचक्रकं लघुयानं प्रसरति । ___ तं संरुध्य) पथिकः (चालकं प्रति) - भो ! अग्नियानस्थलं जिगमिषुरहम् । चालक: आम् । उपविश। पथिकः कियन्मूल्यं तेऽभिप्रेतमिति कथय । चालकः रूप्यकचतुष्कम् ।। पथिकः इयत्? रूप्यकद्वयमेवोचितम् । चालकः न न । को नयेत् रूप्यकद्वयेनैव । पथिकः अहो ! अलं प्रश्नेनैतेन । त्वमुपविश, अहं नेष्यामि । जनः (कार्यरहित एको जनः कार्यार्थमितस्ततो भ्रमति । कार्यं च मृगयते । एकस्यां विपणौ गत्वा-) (स्वामिनं प्रति) अस्ति किमपि मदुचितं कार्यं तव विपणौ ? यदि स्यात्तर्हि देहि मे स्थानम् । स्वामी आम्, अस्ति । श्वस्त आगन्तव्यं त्वया। जनः किं वेतनं दास्यति भवान् । स्वामी षण्मासपर्यन्तं द्विसहस्रं रूप्यकाणि । पश्चाच्च चतुःसहस्रम् । जनः यद्येवमस्ति तर्हि अहं षण्मासात्पश्चादेवाऽऽगमिष्यामि । सार्द्धचतुरः अहं राष्ट्रस्य सेवां कर्तुमिच्छामि । देहि मे मार्गदर्शनम् । चतुरः मार्गस्य प्रस्तरो मा भूयाः-इत्येव त्वया महती सेवा कृता स्यात् । - मुनिरत्नकीर्तिविजयः Page #81 -------------------------------------------------------------------------- ________________ ७४ ......नन्दनवनकल्पतरुः २...... येन मुधा न लभे। कोऽपि जनो यवान् क्रीणन्ति । अन्य आह - किमर्थं यवान् क्रीणासि ? तदा तेन कथितं - येन मुधा न लभे । मध्ये पतन्ति तानि कथम् ? एकस्मिन् देवकुले पथिका मिलिता भणन्ति, केन किमपि दृष्टम् ? तदैको भणति - मया दृष्टं, किन्तु यद्यत्र कोऽपि श्रावको न भवेत् तर्हि कथयामि। सर्वैः कथितम् - नास्ति । तदा स भणति - पूर्वं मया समुद्रतीरे महन्महालयो वृक्षो दृष्टः, तस्य शाखाः समुद्रं स्थलं च प्राप्ताः । तासां यानि पत्राणि जले पतन्ति तानि जलचराणि भवन्ति, स्थले स्थलचराणि। वादिनो भणन्ति - अहो ! देवस्य विभूतिः। तदा तत्रस्थित एकः श्रावको भणति - यानि मध्ये पतन्ति तानि कथम् ? (श्रीदशवैकालिकसूत्र-चूर्णितः)।। स्वच्छताया एव पञ्च गुणाः श्रेयसः - प्रतीक ! परीक्षायां गणितविषये कियन्तो गुणाः प्राप्ताः ? प्रतीकः - पञ्च गुणाः । श्रेयसः - कथं पञ्चैव ? प्रतीकः - मया तूत्तरपत्रं यथातथमेव प्रत्यर्पितम्, अत एव परीक्षकेण स्वच्छताया एव पञ्च गुणा दत्ताः। Page #82 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरु: २...... - गर्दभास्तु श्वेता एव वैदेशिकः - यूयं सर्वे भारतीयजनाः भिन्न-भिन्नवर्णाः सन्ति । केचित् श्यामाः, केचन श्वेताः तथा गोधूमवर्णवन्तः, इत्येवं यूयं भिन्नवर्णाः सन्ति । वयं तु सर्वे समानवर्णाः श्वेता एव स्मः । भारतीयः - मूर्खशेखर ! शृणु - घोटका एव भिन्नवर्णाः, गर्दभास्तु समानवर्णाः श्वेता एव भवन्ति । -मुनिधर्मकीर्तिविजयः लोलेन्द्रिये यौवने हि यत्तपस्तत्तपो ननु।। दारुणास्त्रे रणे हि शूरः शूरः स उच्यते॥ “हैमवचनामृतम्" Page #83 -------------------------------------------------------------------------- ________________ ७६ .......नन्दनवनकल्पतरुः २...... वैद्यः तेनैव प्रथमं फूत्कृतम् (शामजीकुम्भकारस्य गर्दभ एकदा ग्लानोऽभवत् । अतः कुम्भकारस्तं पशुवैद्यसमीपमनयत्।) कुम्भकारः वैद्यराज! ममाऽतीव प्रियोऽयं गर्दभोऽद्य ग्लानीभूतोऽस्ति । कृपया तं सम्यग् निरूप्य तद्रोगानुरूपमौषधं देहि । वैद्यः अरे कुम्भकार ! कुत्राऽस्ति तव गर्दभः ? पश्यामि तावत् तम् । (तस्य मुख-नेत्र-जिह्वादिकं पश्यति) हुम् । गभोऽयं ज्वरग्रस्तोऽस्ति । गृहाणेमां गुटिकाम् । (एकां महतीं गुटिकां तस्मै ददाति ।) अनया गुटिकया स क्रीडामात्रेण सज्जीभविष्यति । कुम्भकारः किन्तु वैद्यराज! कथमहमेतस्मा इदमौषधं दद्याम् । भो जन! न काऽपि चिन्ता कार्या । सरल उपायोऽस्त्यत्र। भवानिदं ससुषिरं वंशखण्डं गृह्णातु । गृहं गत्वा प्रथममिदं वंशखण्डं तन्मुखे प्रक्षिप । तदनु गुटिकां सुषिरे स्थापयित्वोच्चैः फूत्कुरु । तथाकरणेनेयं गुटिका तन्मुखे प्रवेक्ष्यति । तस्याः परिणमनेन च तस्य रोगो नक्ष्यति । श्वोऽत्राऽऽगत्य मे दर्शयाऽमुम् । कुम्भकारः उपकृतोऽस्मि । (द्वितीय दिने) कुम्भकार : वैद्यराज ! अरे वैद्यराज ! मृतोऽहम् । अहो कुम्भकार ! आगतस्त्वम् ? अपि कुशली ते गर्दभः? (तं दृष्ट्वा) अरे ! किमिति तव शरीरे इमे शोफाः । किमिति च वारं वारं कण्डूयसे? किमभवत् तव ? कुम्भकारः (आकुलः सन्) किं कथयामि वैद्यराज ! भवदादशमनुसरता मया ससुषिरो वंशखडो गर्दभस्य मुखे प्रक्षिप्तस्तस्मिंश्च भवद्दत्ता गुटिका - वैद्यः । Page #84 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरु: २...... ७७ - - - - - - - - ऽपि मुक्ता। किन्तु यादवहं तत्र मुखेन फूत्कर्तुं गतस्तावत्तेनैव प्रथमं फूत्कृतम् । गुटिका तु मन्मुखे प्रविष्टा । तदनु इमा मे परिस्थितिः। अधुना यदौषधं कर्तव्यं तन्ममैव कुरु । बुद्धारा (रथ्यायां शस्त्रधारोसेजको मच्छति ।) उसेवकः शातयात भो जमाः ! शस्त्रधारां, छुरिकाधारां, कर्तरीधारां शातयत । कौतुकी ‘भो उत्तेजक । किं त्वं बुद्धेर्धारामपि उत्तेजयसि? उत्तेजकः अवश्यम् । यदि विद्यते । -मुनिकल्याणकीर्तिविजयः - - - प्रियाः ब्राह्मणा भोजनप्रियाः द्विजा विद्याप्रियाः साधवस्तपःप्रियाः कवयः कल्पनप्रियाः भिक्षुका याञ्चाप्रियाः शूकरा गर्ताप्रियाः श्वानो भषणप्रियाः भक्ता भजनप्रियाः वणिजोऽविद्याप्रियाः विद्यार्थिन उपाधि(डिग्री)प्रियाः वाग्मिनो जल्पनप्रियाः भ्रष्टाचारिणो लञ्चाप्रियाः कथाकारा वार्ताप्रियाः नेतारो भाषणप्रियाः - - Page #85 -------------------------------------------------------------------------- ________________ ७८ | कथय रे ! कोऽहम् - इत्येषामुत्तराणि (१) श्रीबाहुबली श्रीइलाचिकुमारः (२) (३) (४) (५) (६) (७) (८) (९) (१०) (११) .नन्दनवनकल्पतरुः २...... मण्डूकः ( श्रीनन्दमणिकारात्मा) श्रीवज्रबाहुकुमारः श्रीचन्द्रावतंसकनृपः संगमः (श्री शालिभद्रात्मा) श्रीसोमचन्द्रभूपालः (प्रसन्नचन्द्रस्य पिता) श्रीमेतार्यमुनिवरः श्री अनाथिमुनिः (संसारावस्थायाम्) श्रीचण्डरुद्राचार्यस्य नूतनशिष्यः श्रीअवन्तिसुकुमारः (१२) श्रीशिवराजर्षिः (१३) श्रीगजसुकुमालमुनिः (१४) श्रीढंढणमुनिः (१५) श्रीकूरगडुमुनिवरः श्रीधर्मरुचिमुनिः श्रीढंढणमुनिः श्रीवालिभूपालः, अजितसेनावनीपतिश्च (श्रीपालस्य पितृव्यः) श्रीसर्वानुभूतिमुनिः श्रीसुनक्षत्रमुनिवरश्च (१६) (१७) (१८) (१९) (२०) श्रीकरकण्डुनृपः (२१) श्रीकृष्णवासुदेवः (२२) श्रीश्रेयांसकुमारः (२३) श्रीचिलातीपुत्रः (२४) श्रीस्थूलभद्रः (२५) श्रीवजस्वामी श्रीकपिलद्विजः (२६) (२७) श्री अषाढाभूतिः Page #86 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरु: २...... ७२ - श्रीमधुमती(महुवा)नगरे “शासनसम्रट्-सुवर्णचन्द्रक"-प्रदानसमारम्भः प्रवर्तमानो वैक्रमीयः शरेन्द्रियशून्ययुग(२०५५)मितः संवत्सर श्रीजिनशासननभोऽङ्गणमणीनां तपोगच्छाधिपतीनां परमगुरुभगवतां शासनसम्राजां तातपादानां श्रीविजयनेमिसूरीश्वराणां स्वर्गारोहणार्धशताब्दीवत्सरोऽस्ति । तत्पूज्यानां जन्मभूमिरप्येषाऽस्ति तथा स्वर्गारोहणमपि तेषामस्यामेव भूमौ वैक्रमीयशरशून्यगगनयुग(२००५)मितवर्षे बभूव । तेषां महोपकारि-सत्पथप्रदर्शकगुरुभगवतां संस्मरणप्रेरितः श्रीमधुमतीनगरसत्को जैनसङ्घो विविधानि चिरस्मरणीयानि च कार्याणि शासनप्रभावकपूज्याऽऽचार्यश्रीविजयसूर्योदयसूरीश्वरपट्टधरपूज्याऽऽचार्यश्रीविजयशीलचन्द्रसूरीश्वराणां मार्गदर्शनेन प्रेरणया चकुर्वन्नस्ति। वैक्रमीये विधुशरव्योमयुग(२०५२)वर्षे, शासनसम्राड्गुरुभगवद्भिः स्थापिताया जैनधार्मिकपाठशालाया वर्षशतस्य पूर्णाहुतिप्रसंगे उपर्युक्ताऽऽचार्यद्वयस्य प्रेरणया 'शासनसम्राट्सुवर्णचन्द्रक'प्रदानयोजनाऽपि अत्रस्थेन श्रीसद्धेन कारिताऽऽसीत् । तदनुसन्धानेनैवैष प्रसङ्गोऽधुनोपस्थितोऽभूत् । समारम्भ एष पूज्याचार्यश्रीविजय-शीलचन्द्रसूरीश्वरभगवतां तथा साध्वीजीश्रीशशिप्रभाश्रीमहोदयानां च शुभनिश्रायां वैक्रमीये शरभूतगगनयुग (२०५५)वर्षे श्रावणशुक्लैकादशीदिने ऐसवीये २२-८-१९९९ तमे दिने सम्पन्नोऽभूत्। पण्डितवर्यश्रीछबीलदास-केसरीचन्द-संघवीमहोदय(सूरत)-पण्डितवर्यश्रीकपूरचन्द-रणछेडदास-वारैयामहोदय(भावनगर) इत्यनयोः पण्डितवर्ययोर्ज्ञानक्षेत्रे श्रीजैनसङ्के महानुपकारोऽस्ति । नैकशतजैनसाधु-साध्वीमहाराजैः श्रावकश्राविकाभिश्च तयोः सान्निध्ये संस्कृत-प्राकृतभाषाव्याकरण-संस्कृतप्राकृतग्रन्थधार्मिकसूत्राणामभ्यासः कृतोऽस्ति । अपि च वृद्धावस्थायामपि तौ स्वस्वास्थ्यमवगणय्याऽधुनाऽप्यध्यापयतः । जैनशासनस्य धुरीणा आचार्यवर्या अपि Page #87 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... विविधप्रश्नेषु पण्कितवर्ययोरनयोरभिप्रायमयेक्षन्ते । ज्ञानगम्भीरयोरेतयोर्बहुमानप्रसङ्गे पण्डितवर्यश्रीवसन्तभाईमहोदयो मुख्यातिथिरूपेणोपस्थितोऽभूत् । स्वकीये वक्तव्ये च तैरस्याः प्रवृत्या अनुमोदनं कृतमासीत् । ‘एषा प्रवृत्तिरादर्शत्वेन सर्वत्र ग्राह्या' इति चोक्त्वा वर्तमानकाले पाठशालानां शैथिल्यं प्रदर्शितम्, तदूरीकरणार्थं च सर्वे प्रेरिता अपि । ___पण्डितमहोदययोः चन्द्रक-प्रशस्तिपत्र-कम्बलिकाप्रदानादिबहुमानविधिः श्रीमधुमतीजैनसङ्घस्य मुख्यैः सभ्यैः कृताऽऽसीत् । चन्द्रकप्रदानादिना सार्द्धमेवैकादशसहस्ररूप्यकाणां पृथक् पृथग् निधिरपि उभयोः पण्डितवर्ययोः समर्पितः । किन्तु न ताभ्यां स स्वीकृतः । अतः पूज्यार्यवर्याणां सत्प्रेरणया पञ्चविंशतिसहस्ररूप्यकप्रमाणः स निधिः सर्वत्र जैनपाठशालायाः सहायिकायै 'श्रीजैनतत्त्वज्ञानप्रचारकपरिषद्' इत्याख्यसंस्थायै श्रीमधुपुरीजैनसङ्घन समर्पितः । तत्पश्चादत्यन्तनम्रभावेन स्ववक्तव्ये पण्डितवर्याभ्यां कथितं यद् “नाऽऽवामस्मै बहुमानाय योग्यौ। किन्तु सा महेसाणासत्कश्रीयशोविजयजीसंस्कृतप्राकृतपाठशाला ते चाऽध्यापका गुरुभगवन्तश्चैव बहुमानार्हाः, येरावामध्यापितौ । आवयोः श्रावकश्राविकाश्च सादरं स्मरावः । अस्यामेव भूमौ जगन्मान्या जगद्वन्द्याः शासनसम्राटप्रमुखविभूतयो जाताः सन्ति । अत्र धार्मिकाभ्यासार्थं पाठशाला प्रचलतीति तु शोभनमेव किन्तु तत्सञ्चालनमेवं कर्त्तव्यमस्ति येन विदुषामविच्छिन्ना परम्परा सततं प्रवर्तेत । लघुवयस्कानां पाठशाला यथा प्रवर्तमानाऽस्ति तथा प्रौढवयस्कानामभ्यासार्थमप्यायोजनमनिवार्यमधुनाऽस्ति । अतस्तदपि यथाशीघ्रं कर्त्तव्यमू"। ____समारम्भस्य परिसमाप्तौ मङ्गलप्रवचनं तु पूज्याचार्यश्रीविजयशीलचन्द्रसूरिभगवद्भिः कृतम् । ज्ञानस्य महिमा तस्य च जीवनेऽनिवार्यताऽपि तैः प्ररूपिता। अत्यन्तं संवेदनपूर्णहृदयेन चोभयोः पण्डितवर्ययोर्जीवनमपि वर्णितं यद्“प्रभूतेष्वपि विकटसंयोगषु ताभ्यां न ज्ञानस्येदं क्षेत्रं कदापि त्यक्तम् । 'परिस्थितीनां कर्माधीनत्वेन नात्र शोक: कर्त्तव्यः, ज्ञानमेव सन्मार्ग' इत्येवं विचार Page #88 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... ८१ - - पुरस्सरं ताभ्यां समग्रजीवने प्रवृतिः कृताऽस्ति । स्वकीयेनाऽनुभवपरिपक्वज्ञानगुणेन शासनधुरीणां गुरुभगवतामपि तौ मान्यौ भूतौ स्तः । अतो न्याय्य एवैष बहुमानः'। भारतवर्षे सुवर्णचन्द्रकप्रदानपुरस्सरं जैनविद्वत्पण्डितवर्याणां बहुमानं सर्वप्रथमेवाऽत्र मधुमतीनगर्यामायोजितमस्ति । ‘एवंभूतान् सन्मानावसरान् वयं भविष्यत्कालेऽप्यायोक्ष्याम इत्यपि प्रतिज्ञातमत्रत्येन श्रीजैनसधेन । ____ समग्रस्याऽपि समारम्भस्य सञ्चालनं श्रीसञ्जयभाई ठार(भावनगर)द्वारा कृतमासीत् । विशालजनसमुदायस्योपस्थितावयं समारम्भः सोत्साह पूर्णतामितः॥ कर्माण्यवश्यं सर्वस्य फलन्त्येव चिरादपि। | आपुरन्दरमाकीटं संसारस्थितिरीदृशी॥ “हैमवचनामृतम्" - - - Page #89 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २. - - m - e प्राकृतविभाग:। । - - Page #90 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २..... | धम्मो - मुनिकल्याणकीर्तिविजयः अम्हाण देणियकज्जेसु सामन्नेसु य आलावेसु अम्हे अणेय संदब्भेसु बहुवारं धम्मसदं पउंजामो । किं तु न याणिमो जं धम्मसद्दो केत्तियेसु अत्थेसु वावारिज्जइ। एत्थ किर जिणसासणे लोगिगेसु वि समएसु धम्मसद्दो अणेयअत्थेसु वावारिओ अत्थि । तेहिंतो केई अत्था एत्थ संगहिआ। ___ * धम्मसद्दस्स सव्वसाहारणा वुप्पत्ती एसा - धारेइ लोगं ति धम्मो, अहवा, दुग्गइ पंडंत जीवं धारेइ त्ति धम्मो, अहवा संसारदुक्खे पडिए जीवे जो उत्तिमे सुहे धारेई सो धम्मो । * वत्थुसहावो धम्मो - कस्स वि वत्थुणो जो सहावो लक्खणं वा सो धम्मो कहिज्जइ । जहा जीवाण पुग्गलाण य चलणे साहेज्जदाणं चिय सहावो धम्मत्थिकायस्स । कहियं च 'चलणसहावो धम्मो'त्ति । अवि य धम्मत्थिकायो वि धम्मसद्देण अवलक्खिज्जइ। एवं अधम्मत्थिकायस्स ठिइसाहेज, आगासस्स अवगासदाणं कालस्स वत्तणाई, पुग्गलाण पूरण-गलणं, जीवाण य नाण-दसणसरूवो उवओगो सहावो । अवि य घडस्स जलभरणं जलाहरणं च, पत्थरस्स कढिणत्तं, जलस्स सीयलत्तं इच्चाइयं । * सदगुट्ठाणं पि धम्मसद्देण भणीअइ -- जहा जिणपूयणं सामाइयाइआवस्सयकरणं अन्नं च सव्वं सदणुट्ठाणं धम्मो। तं च आयरंतो सावओ धम्मिओ त्ति लोए पसिद्धइ। * आयारो धम्मसद्दवच्चो - जहा साहूण पंचमहव्वय-राइभोयणवेरमणछट्टव्वयपालणं, सावयाण सम्मत्तमूलबारसवयपालणं, रायाण पयावालणं नायतोलणं च, वणियाण य नीईए वावारकरणं एवमाइ सव्वं धम्मो। Page #91 -------------------------------------------------------------------------- ________________ * पुण्णं - सुकयमवि धम्मसद्दस्स अत्थवित्थरे समागच्छइ जहा दाणं, तवो, साहम्मियभत्ती, वेयावच्चं अन्नं वा जं किं पि पुण्णसाहगं किच्चं तं सव्वं धम्मो । * .नन्दनवनकल्पतरुः २...... धम्मसद्देण मज्जाया वि लक्खिज्जइ । हा समुद्दो कइया विमज्जायारूवं नियधम्मं न लंघेइ । कीडासु वि के इ नियमा मज्जायाभिहाणा संति । को वि खेलओ ते न लंघेइ । जइ कह वि ते नियमे लंघेइ ता तस्स दंडो होइ । * गुणोवि धम्मसद्देण मुणिज्जेज्ज । जहा सूरस्स धीरं वीरस्स खंती, साहूण विणओ, कावुरिसस्स भयं, मायाविणो कवडं इच्चाइयं । * ८४ जाओ व धम्मसद्द कहणीओ जहा सुवण्णस्स हार- कडयाई पज्जाओ तस्स धम्मो कहीअइ । एवं जीवस्स मणुयत्त - देवत्ताई पजाओ तद्धम्मो | - दरिस वि धम्मसद्दो जुज्जइ - * एत्थ संसारे बहूणि दरिसणारं विज्जंति । जहा सुगयदंसणं, नायदंसणं, वेसे सियदंसणं, मीमंसादंसणं, वेयंतदंसणं, संखदरिसणं, नत्थियदंसणं, अम्हाण य जइदरिसणं । एयाई सव्वाई दंसणाई धम्मसद्देण जंपिज्जंति । जहा सुगयदंसणेण बोद्धधम्मो, जइणदरिसणेण य जइणधम्मो इच्चाइयं । अवि य जमराओ वि धम्मसद्दवच्चो | * एवं धम्मसद्दस्स अणेय अत्थेहिंतो केई अत्था एत्थ जहामइ कहिया । एत्थ खलियं विसोहणीयं सहियएहिं विउसगणेहिं ति । Page #92 -------------------------------------------------------------------------- ________________ ....नन्दनवनकल्पतरु: २...... - de20085200 (संवेगमंजरीकुलय -मुनिकल्याणकीर्तिविजयः कुलयकारो पढमसिलोगेण मंगलं करेइ - सद्देसणमलयानिलमंजरिअविसुद्धभावसहयारो। जयइ जयाणंदयरो वसंतसमउ व्व जिणवीरो ॥१॥ अन्वयः सद्देसणमलयानिलमंजरिअविसुद्धभावसहयारो जयाणंदयरो जिणवीरो वसंतसमउ व्व जयइ। भावार्थ : जहा मलयपव्वयाओ निग्गएण अणिलेण सव्वे वि सहयार रुक्खे मंजरिए काऊण सव्वजयस्स आणंदयारी वसंतसमओ एत्थ भुवर्णमि जयइ, तहेव नियमुहरूवमलयायलाओ नीहरिएणं सद्देसणानिलेण जीवाण विसुद्धभाव-सरूव-सहयारे णवणवेहिं भावेहिं मंजरिए काउण तिण्हं पि भुवणाण आणंदयरो सिरिवीरजिणिंदो सया जयइ । सिलोगजुयलेण सयमेव नियजीवस्स उवएसमाह - संसारसायरं दुत्तरं पि लीलाइ किल समुत्तिण्णा । संवेगपवहणगया सप्पुरिसा भरहमाईया ॥२॥ तारे जीव! तुमं पिलहिउं मणुअत्तणाइसामग्गिं । संवेगपवहणगओ भवजलहिं कीस न तरेसि? ॥३॥ अन्वयः भरहमाईया सप्पुरिसा संवेगपवहणगया दुत्तरं पि संसारसायरं किल लीलाइ समुत्तिण्णा। ता रे जीव! तुमं पि मणुअत्तणाइसामग्गिं लहिउं संवेग पवहणगओ कीस भवजलहिं न तरेसि ?। भावार्थ : रे जीव! एत्थेव भरह-पसन्नचंदाइणो बहुणो सप्पुरिसा मुक्खाहि लाससरूवसंवेगपवहणमारोहिऊण, दुत्तरं पि संसारसायरं, चुलुयं पिव मन्नंता, कीडं करंता व्व अप्पेण पयत्तेण तरिउं मोक्खं पत्ता । ता तुमं पि मणुअत्तण-आरिअदेस-सुकुलजम्म-जिणधम्मसंपत्ति-सवण-सद्धा - Page #93 -------------------------------------------------------------------------- ________________ .नन्दनवनकल्पतरुः २...... विरइमाई सव्वं पि सामग्गिं लद्धुं संवेगपवहणमारोहिऊण कीस भवसायरं न तरेसि ? सामग्गीए दुल्लहत्तणं कहेइ न पुणो पुणो वि एअं तुह संभावेमि जीव ! सामग्गिं । तारे ! हारेसि कहं पमायमइराइ उम्मत्तो ? ॥८॥ ➖➖➖ अन्वयः जीव ! पुणो पुणो वि एअं सामग्गिं तुह न संभावेमि, ता रे (जीव)! पमायमइराइ उम्मत्तो कहं (एयं) हारेसि ? | I भावार्थ : रे जीव ! जइ तं एयाए सामग्गीए निययकज्जं न साहेसि ता अन्नेसु जम्मेसु पुणो पुणो वि एसा सामग्गी तुह लब्भिहिइ इइ न संभावेमि । तारे जीव ! तं पमायमइरापाणेण उम्मत्तो होऊण कहमेयं सामग्गिं हारेसि ? पमायं मोत्तूणं एयाए सामग्गीए सम्मं उवओगं काऊण निययकज्जं साहेसु इइ ' भावो ८६ देवा विसयपसत्ता नेरइया विविहदुक्खसंत्तता । तिरिआ विवेगविगला मणुआणं धम्मसामग्गी ॥ 1 (क्रमशः) Page #94 -------------------------------------------------------------------------- ________________ • ८७ .नन्दनवनकल्पतरुः २... पत्रम मुनि कल्याणकीर्तिविजयः सोत्थि सिरिसंखेसरमंडणसिरिपासजिणिदं पणिहाय परमगुरु सिरिविजयमिसूरिभगवंतं च पणमिऊण आणंदस्स धम्मलाहो कहीअइ कल्लाणकित्तिणा । सिरिआणंद ! पुज्जगुरु भगवंताण पुण्णनिस्साए अम्हे सव्वे वि सुहेण वट्टामो । सव्वेसिं आरुग्गं सुंदरं अस्थि । तंपि कुसली हवेज्ज । तुह पत्तं लद्धं । तए पाइयभासा सिक्खिअ त्ति जाणिऊण हरिसो जाओ । तं जिणसासणस्स केइ पयत्थे पढिउं इच्छेसि त्ति तए जाणाविअं अओ किंचि लिहेमि । एत्थ किर जिणसासणे देवतत्तं पहाणं । तेण विणा न किंचि धम्माणुट्ठाणं सुज्झइ । अओ पढमं देवतत्तं णायव्वं । तत्थ केरिसो देवो अम्हेहिं पूयणिज्जो आराहणिज्जो य इइ पण्हो उठेइ । ता पुव्वमहरिसिविरइयगंथेहिंतो किंचि देवसरूवं जाणावेमि । - 'जो जीवप्पा सयमेव साहणं आराहणं च काऊण विसुद्धचरणेण तिव्वतवेण य नियसव्वकम्मंसे खविऊण संकिलेसजणयं रागं, पसमवणदवाणलं दोसं, सन्नाणपयासपिहाणं च मोहं विणासेइ, जो वीयरागो भवइ, सव्व देस - कालत्थे सव्वपयत्थे जाणेइ पासेइ य, जो सासयसुहं माणेइ, जो किलिङकम्माण रेहं पि विणासेइ, जो सव्वदेवाण पूयणिज्जो देवाहिदेवो, जो सव्वजोईण झायव्वो, जो सव्वनीईण कारओ देसओ य, जस्स य महिमा तिलोए पसिद्धो एरिसो सव्वदेवाणं पूयणिज्जो देवाहिदेवो च्चिय अम्हाण देवो ।' एत्थ 'नणु यस्स पूया आराहणा य कहं कायव्वा ? जओ सो वीयरागत्तणेण अम्ह पूयाईहिं पसन्नो न होइ । जइ सो पसन्नो न होइ ता पूयाईहिं किं लाहो ?' इइ संका हवेज्ज । सा एवं निराकरणिज्जा Page #95 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... - ८८ ___ एवंविहस्स देवस्स जा आणा तस्सब्भासो चिअ तस्साराहणा । जो को वि तं आणं जहासत्तिं पालेइ तस्स तयणुरूवं फलं अवस्सं लब्भइ । जहा कोइ रोगी पुरिसो आरुग्गं पाविउकामो सुवेज्जसमीवं गच्छइ निययं वाहिं च तं दंसेइ । तया सो वेज्जो तस्स आउरस्स ओसहाई देइ पत्थं च पालेउं कहेइ । सो आउरो जेत्तियं तव्वयणं पालेइ ओसहाई च गहेइ तेत्तियं तस्स रोगो णस्सइ । जइ संपुण्णं पालेइ ता तस्स सव्वाओ वि वाहीओ विणस्संति सो य नीरोगो भवइ । जइ न पालेइ ता न भवइ। ___एमेव तस्स देवस्स आणा जेण जेण रूवेण पालेज तेण तेण रूवेण धुवं संसारक्खओ भवइ । जइ संपुण्णं पालेज ता निच्छएण मोक्खो पाविज्जइ । जइ न पालेज ता न। ___ जं च 'जइ सो पसन्नो न हवइ ता पूयाईहिं किं लाहो ?' इइ संकियं तत्थ - जहा चिंतामणिरयणं अचेयणं तहा अपसन्नमवि फलइ, तहेव वीयरागो देवो जइ वि पसन्नो न हवइ तह वि तस्स पूयाईण फलं लब्भइ। तो, तस्स देवस्स आणा का ? तेण के रिसो धम्मो भासिओ ? तस्स पूया केण केण कहं च कायव्वा? इच्चाइयं अन्नत्थ पत्तंमि लेहिस्सं ति सं। -- - -- - पेच्छति जहा सचक्खू पुरिसो दीवेण अंधकारे वि। जिणसासणदीवेण उ पासति एवं णरो मतिमं ।। m men - - - -- Page #96 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २..... - - । कहा [परदुहभंजणो 'देपाणदे' राया -मुनिधर्मकीर्तिविजयः आसि उम्मत्तीभूआ आसाढमासस्स पढमवुटिंछ पाविअ पुढवी । निरसखित्तेसु करिसओहिं ववणस्स आरंभो कओ। एगया 'गोहिलवाड'पएसस्स 'देपाणदे'नामओ अहिवई अप्पपयं पेच्छिऊण करिसआणं समीवं गओ। आकिण्णीभूआ पंकेहिं सव्वा धरणी। अईव दुहं सहिअ खित्तं एगं तेण रण्णा पत्तं । तेण तया अच्छेरं दिळें । एगेणं किसीवलेण हलं वहिअं। तम्मि हले एगेण रिसहेण सह एगा इत्थी जुत्ता अहेसि । एअं विइत्तं कजं दरिसिअ दयालुराईणो हिययं दुहेण भरिअं । सो चिंतेइ - मह पआअ एरिसी ठिई ? एतस्स समीवं नत्थि अन्नो रिसहो वि। झगिति राया तस्स करिसअस्स आसण्णं गओ। तेण रण्णा सो किसीवलो आहूयो । न तेण करिसएण सुअं, सो तु वपणं कुव्वन्तो रिसहं इत्थिं च ताडन्तो अहेसि। ___ समीवं आगमिअ रण्णा कहिअं - मित्त ! खणं चिढेज, अहुणा चिअ आगच्छइ अन्नो रिसहो। करिसओण वुत्तं - अहुणा नत्थि मह समओ, मज्झ वपणकज्जं विलंबीअइ। पुणरवि रण्णा उत्तं - मित्त ! चिठेज । जया गव्विळेण करिसओण कहिअं - को तुमं ? तुवं कज्जरहिओ, अहं तु कजररत्तो। अम्ह हलं तु एअमेअ चलिहिइ। तस्स कठोरं वचनं सोऊण राया गिलाणीभूओ। तहावि साहसत्तणेण रण्णा पुच्छिअं - को तुं? का जाई तुह ? तया रुक्खसरेण किसीवलेणं जम्पिअं - अहं चारणो म्हि, अम्हो एअं खित्तमत्थि, एअं हलमवि मह अत्थि, तत्तो हलं तु एअमेअ चलिहिइ । जइ तुमं कलिजुगस्स परदुहभंजणो विक्कमो राया भवेज तो एअं हलं गेण्हेज, अन्नहा अन्नत्थ गच्छेज्ज । Page #97 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरु: २...... - - % 3D - अवमाणजणअं वयणं सोऊण 'गोहिलवाड' पएसस्स सागरवरगंभीरेण तेण रण्णा इत्थीइ समीवं गमिअ वजरिअं - बहिणि ! तुमं विस्सामेज्जसु, अहं एअं हलं गहामि । तओ हले सयमेअ राया जुत्तो हविओ। पुणो वि हलं चलिअं। अह चारणइत्थीअ चक्खूहिन्तो अस्सुहारा वहिआ। मह भाया दिघाउसो भवउ, एअं मंगलवयणं कहि। खणेण राईणो सेवआ अन्नं रिसहं नेऊण आगआ । तओ हलेण सह सो रिसहो जुत्तो। तत्थ दो हिंतो को वि न वदइ । राया तु अप्पाणं गओ । पच्छा करिसओण जाणिअं - न अन्नो को वि एसो पुरिसो, णवरं एसो तु 'गोहिलवाड' पएसस्स अहिवई ‘देपाणदे' नामओ अम्ह सामी अहेसि । जुग्गसमये धने हिं खितं भरिअं । तत्थ एगं अच्छरिअं भूअं । जम्मि जम्मि ठाणे राया गमिओ तम्मि तम्मि ठाणे मुत्ताफलाई उप्पन्नाइं । झटिति रायस्स सहामज्झे गओ मुत्ताफलाण थालं भरिऊण करिसओ । थालं धरिऊण तेण किसीवलेण साहिअं- ‘महाराय ! जइ अहं जाणेज तया सव्वम्मि खित्ते तुमं चलावेज्जसु' । ___अईव आणन्देण रण्णा बोल्लिअं - भो ! तुह खित्ते एआणि मुत्ताफलाइं जायाइं । तेसु तुम्ह च्चिअ अहिगारोऽत्थि । तत्तो तुमं चेअ एआणि मुत्ताफलाई नेज्जसु, अहं मंगलत्थं एगं मुत्ताफलं गहामि । सारो- सव्वया सज्जणा जणाणं सुकज्जं च्चेअ करेन्ति अन्नेसिं दुहं दूरीकुणेन्ति, दुहीणं अस्सूई लुंछन्ति, तहा तेसिं दुहिजणाणं संतत्तं हिययं सीअलीकुणेइरे । दुजणा - निगुणजणा तु के सिमवि सुकजं न करेन्ते, णवरं अन्नेसिं चित्तेणावि सुहं न अहिकंखेंति। नाणं नियमग्गहणं नवकारो नयरुई य निट्ठा य। पंच न-विभूसियाणं न दुल्लहा सुग्गई लोए ।। - - - Page #98 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरु: २...... सढे सढत्तणं '-मुनिकल्याणकीर्तिविजयः एगो कोइ कासओ नियछेत्ते उग्गयाहिं कक्कडीहिं सगडं भरिऊण ता विक्केउं नयराभिमुहं गच्छंतो नयरदारे चिअ एगेण धुत्तेण भणिओ रे सागडिआ ! जइ को वि एयाओ सव्वाओ कक्कडीओ खाएज तया तं तस्स किं दाही?'' तेण ‘को वि एत्तियाओ कक्कडीओ कया वि न खाएज' इइ चिंतिऊण जंपियं- “जो एया सव्वा वि खाएइ तस्साहं तं मोयंग दाहं जो एयाओ नगरदाराओ वि न णीसरइ।' तया धुत्तो भणइ “ रे ! अहं चिय तुह कक्कडीओ खाएमि, तुमए य मज्झ सो मोयगो दायव्वो जो नगरदाराओ वि न निग्गच्छइ।" ___ “एवं' ति कासएण अंगीकए धुत्तेण नगरजणा सक्खीकया। पच्छा सगडं आरोविऊण सव्वाओ वि कक्कडीओ ईसि ईसि चक्खिया । तओ सागडिअं भणइ “भो कासआ! मए तुह सव्वा वि कक्कडी खइया । अहुणा मं पुव्वुत्तं मोयगं देहि।" कुविएण कासएण भणिअं “अरे ! इमाओ कक्कडीओ एत्थेव चिट्ठति । न खाइया तुमए । कहं मोयगं देमि ? मं पयारेसि ?'' धुत्तो कहइ - “जइ न खइया ता विक्किणसु'। तो कासओ ता विक्केउं चउक्के आगओ । तं दद्दूण बहुणो जणा कक्कडीओ कइउं समागया। तं च भणंति - “किमेयाओ विक्किणसि ?'' ___“एवं'' ति तेण भणिए सव्वे वि समीवं गंतूण कक्कडीओ पासंति । पासिऊण भणियं तेहिं - “भो सागडिआ ! को मुरुक्खो अत्थि जो एयाओ खइयाओ कक्कडीओ किणइ ?'' एयं सोच्चा धुत्तेण भणियं “रे ! किं एण्हिं पि न खइय' त्ति भणसि?" - । - - Page #99 -------------------------------------------------------------------------- ________________ ......नन्दनवनकल्पतरुः २...... - तया सागडिएण भणियं “भो ! नायसालं गच्छामो । तत्थेव नाओ भविस्सई' धुत्तेण अब्भुवगए दो वि गया तत्थ । दोण्हं पि वित्तंतं सुणिऊण नायाहीसेण भणियं जं “धुत्तेण सव्वा वि कक्कडी खइय' त्ति । जिओ सागडिओ । अओ धुत्तो मोयगं मग्गेइ । तेण कासओ चिंताउलो जाओ। ____ एत्थंतरंमि तेण पुव्वपरिचिओ जुत्तिकारो दिट्ठो । तो सो तस्समीवं गंतुं विणएण नमिओ, तं च सेविउं लग्गो । तया तुट्टेण जुत्तिकारेण कजे पुढे एएण सव्वो वि कक्कडी-मोयगवुत्तंतो कहिओ । तं सुणित्ता जुत्तिकारेण सो कण्णंमि किं पि सिक्खाविऊण पेसिओ । ___तयणु सो आवणाओ एगं लहुं मोयगं किणित्ता धुत्तेण सहिओ नयरदारं गओ । तत्थ सक्खिणो आहूया । तओ धुत्तस्स पुरओ नयरदारमझे तं मोयगं ठवित्ता भणइ “रे रे मोयग ! जाहि जाहि । णीसर नगरदाराओ।" मोयगो न णीसरइ । तओ एएण सक्खिणो भणिया “मए तुम्ह समक्खमेव पइण्णा कया जं - जइ एसो मं जिणइ ता मए एयस्स सो मोयगो दायव्वो जो एयाओ नगरदाराओ न णीसरइ । एस मोयगो न णीसरइ । अओ एएण गहेयव्वो एसो मोयगो।" एयं सुणित्ता सव्वेहिं पि सक्खीहिं तं अंगीकयं । तओ धुत्तो वि विलक्खीहूओ तं मोयगं गहेऊण गओ। एसो वि सागडिओ तं जुत्तिकारं पसंसंतो नियगिहं गओ। - जह तुब्भे तह अम्हे तुब्भे वि य होहिहा जहा अम्हे। | अप्पाहेति पडतं पंडुयपत्तं किसलयाणं ।।(उत्तराध्ययननियुक्ति) - Page #100 -------------------------------------------------------------------------- ________________