________________
.नन्दनवनकल्पतरु: २......
६१
-
-
मुह्यति । एवमेव स्वरूपावस्थानरूपो मोक्षो यस्य लक्ष्यं न स पुण्यप्राप्तासु बाह्योपलब्धिषु मनागपि मुह्यति । यतः सर्वत्र सर्वथा सर्वदा च रागद्वेषाभाव एव समाधिरिति तस्य मतिः स्यात्।
इत्थमत्र निश्चितं यद् न मीयते साधना काऽपि कदाऽपि कस्यचिदपि बाह्योपलब्धिना फलत्वेन । किन्तु तत्काले कीदृशी तस्य मनःस्थितिरित्यनेनैव मीयते । ___ अन्ततो गत्वा सर्वोत्कृष्टामपि बाह्योपलब्धिं स्वसाध्यममन्वानस्तत्र च रागादिभावमकुर्वाणः सन्नेव यः स्वीयां समाधि रक्षति स एव योगमार्गेण सिद्धिरूपमन्तं प्राप्नोति।
अत्र लक्ष्यं मोक्षः, तन्साधनार्थ ज्ञान-श्रद्धान-चारित्ररूपो योगस्तु मार्गः । किन्तु न केवलं लक्ष्यनिश्चयो मार्गस्य च ज्ञानं लक्ष्य प्रापयतः, तत्र गतिरप्यनिवार्यैव । अतः का नाम गतिः ? सा अस्मिन् श्लोके - ‘मनः समाधिं भज तत्कथञ्चित्' इत्यनेन दर्शिता यत्-समाधिस्तु गतिः । मार्गो गतिश्च, न कोऽप्येकः किन्तूभेऽपि सम्मीलिते एव लक्ष्यं प्रापयतः। ‘गतिं विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम्'।
अतः श्रीमुनिसुन्दरसूरिभगवन्तः कथयन्ति यद् - भो आत्मन् । यदि त्वं मोक्षं साधयसि तर्हि मनसः समाधिं भज ॥ इति शम् ॥
| पित्ताग्निः शर्कराशम्य: पयसा किं न शाम्यति ? ॥
“हेमवचनामृतम्"
-
-
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org