________________
.....नन्दनवनकल्पतरुः २......
-
वास्माकम् । यत्र विवेकस्तत्र समाधिर्यत्र चाऽविवेकस्तत्राऽसमाधिः ।
विवेकस्तु सर्वत्राऽऽवश्यकः, साधनामार्गे तु विशेषण । अन्यथा प्राप्तव्यं विस्मृत्य विचाले एव भ्रमणं भवति।
सामान्यतः साधना न काऽपि सर्वथा निष्फला भवति । द्विविधं फलं तस्याः - एकं भौतिकमपरं चाऽऽध्यात्मिकम् । इच्छाधीनं पुण्यं तु भौतिकं फलम्, निरीहभावेन च सकलकर्ममलक्षयेण स्वरूपावस्थानं त्वाध्यात्मिकं फलम्।। ____सामान्यतः साधनाकर्तारं पुण्यप्राप्तिस्तु स्वाभाविक्येवाऽस्ति। किन्तु य इच्छापूर्वक पुण्यमुपार्जयति तं तत्पुण्यं तज्जन्येषु बाह्यार्थेषु रागं वा द्वेषं वा जनयति । अत एव तादृशं पुण्यं भौतिकं विचाले भ्रमणवच्च फलमस्तिः तच्चाऽसमाधिरूपमेव । यत इच्छाजन्येन पुण्येनेच्छापूर्ती सत्यां या शान्तिः प्रसन्नता वाऽनुभूयते सा साधाराऽस्ति। अपरं च कमप्यवलम्ब्य यदि प्रसन्नता स्यात्तर्हि छद्यरूपेण तत्र विषादोऽपि विद्यत एव । अतस्तादृशी प्रसन्नता शान्तिर्वाऽसमाधिरूपैव ।
यस्तु लक्ष्यमनुलक्ष्यैव साधनां करोति, सोऽपि पुण्यं, पुण्यानुभावाच्च सर्वान् बाह्यार्थान् लभते एव । किन्तु न तस्य पुण्य तं तज्जन्येषु बाह्यार्थेषु बाह्योपलब्धिषु च रागं वा द्वेषं वा जनयति, अपि तु लक्ष्यं प्रत्यधिकं प्रेरयति । अतस्तदस्त्याध्यात्मिकं समाधिरूपं च फलम् । यतस्तत्राऽस्ति साहजिकी निष्कारणा च प्रसन्नता । सा च समाधिरूपैव। ___ अत्यन्तं सूक्ष्मविषया वर्तते समाधिः । सा तु ज्ञातुमपि दुःशक्या तर्हि तत्प्राप्तिस्तु कीयूपा स्यात् । असमाधेः समीचीनं ज्ञानं विना तत्त्वतः समाधिप्राप्तिस्तु दुर्लभैव । कर्मजन्यायां कस्यामपि स्थितौ स्वकीया रुचिररुचिर्वाऽसमाधिरेवेति तु निश्चितम् । अतः स्वकीयां रुचिमरुचिं वोपेक्ष्य निरीहभावेनैव केवलं स्वबद्धं लक्ष्यमेव योऽनुसरति स एव समाधिभाग् भवति, लक्ष्यमपि च प्राप्नोति, स्वकीयं मोक्षपुरुषार्थं सफलयत्यपि
च।
लक्ष्यं यस्य शृङ्गं न स मध्यवर्त्तिषु दृक्सुन्दरेष्वपि विश्रान्तिस्थानतुल्यस्थानेषु
-
-
-
-
-
- %3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org