________________
......नन्दनवनकल्पतरुः २......
५०
च लक्ष्यं सञ्जानीते तत्प्राप्त्यर्थं च यं पुरुषार्थमादरति तमेव मोक्षपुरुषार्थ इत्यमिदधति शास्त्राणि।
श्लोकेनतेन श्रीमुनिसुन्दरसूरिभगवन्तो मोक्षार्थं पुरुषार्थयन्तं साधकमुद्दिश्य तस्य पुरुषार्थस्य साफल्ये हेतुं दर्शयन्ति। यत् - तपःपूर्वको योगमार्गो निश्चयेन लक्ष्यं प्रापयति, किन्तु यदि स समाधिमूलो भवेत्तदैव । समाधिस्तु मोक्षमार्गस्याऽऽधारोऽस्ति । समाधिरहितः समग्रः पुरुषार्थस्तु निष्फलप्राय एव । मूलरहितं भवनं दृश्यते कदाचित् सुन्दरं किन्तु न स स्थायिभावं भजते । समाधिस्तु मूलं वर्तते साधनायाः । साधनाजीवनस्य प्रत्येकमवस्था, प्रवृत्यात्मिका वा निवृत्यात्मिका वा, तु साधनात्वेन तदैवाऽभिधीयते यदा सा समाधिसहमूला स्यात् ।
समाधानं समाधिः । जीवनस्य वास्तविक आनन्दः समाधाने एव वर्त्तते। अभीष्टं प्रत्यनभीष्टं वा प्रति स्वस्य सदसदाग्रहो न कदापि लाभाय सौख्याय वा जायते । यतः किमप्यभीष्टमनभीष्टं वा बाह्यार्थमपेक्ष्यैव वर्त्तते । यः स्वीयं स्वरूपं प्राप्तुं प्रवृत्तः स न कदापि बाह्यार्थे मुह्यति । तस्य कृते तु स्वरूपावस्थानमेवेष्टं, तद्भिन्नं तु सर्वमनिष्टमेव । यावत्कालं बाह्यार्थस्याऽपेक्षा वर्त्तते तावदसमाधिरेव प्रवर्त्तते । अवेक्खा अणाणंदे' अपेक्षा नाम अनानन्दः । अनानन्दस्त्वसमाधिरेव।
मोक्षो नाम स्वरूपेऽवस्थानम्, स्वरूपाभासे रुचिश्च संसार एव स्वरूपप्राप्त्यर्थं तु संसारोऽवश्यमेव त्याज्यः । असमाधिस्तु संसारस्य पर्यायरूपैवाऽस्ति । यदंशेन संसारान्मुक्ति स्तदंशेनैव समाधिर्लभ्यते । स्वरूपसहस्रेण वर्त्ततेऽयं संसारः । अपेक्षारूपेण, एषणारूपेण, अस्थैर्यरूपेणेत्याद्यनेकरूपेण। नास्ति किञ्चिन्नियतं स्वरूपं तस्य । समासतो यावन्तः कर्मणो भेदास्तावन्तो भेदाः संसारस्याऽपि सन्ति । कदा केन स्वरूपेण स अस्मासु वर्त्तते लत्वत्यर्थं सावधानं च चिन्तनीयमस्ति। संसारस्य परिज्ञानं विना न तस्मान्मुक्तिः शक्या नाऽपि च समाधेः प्रादुर्भावः शक्यः ।
वर्त्ततेऽस्माकं वृत्तिषु संसारः, न परिस्थितिषु नाऽपि च पदार्थसार्थे । ते तु जडप्राया एव । तेषु ममत्वरूपेणाऽस्मदीया स्वकीयत्वभावरूपाऽविवेकितैवाऽसमाधेः कारणम् । अविवेको यावन्न भिद्यते न तावत्संसारः परिहीयते । तावच्च समाधिरपि दुर्लभै
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org