________________
......नन्दनवनकल्पतरुः २......
-
। आस्वादः ] चिन्तनधारा
-मुनिरत्नकीर्तिविजयः योगस्य हेतुर्मनसः समाधिः, परं निदानं तपसश्च योगः। तपश्च मूलं शिववर्त्मवल्लया, मनःसमाधिं भज तत्कथञ्चित् ।।
(अध्यात्मकल्पद्रुम ९-१५) व्याख्या-शिववर्त्मवल्लयाः - शिववर्त्म - मोक्षमार्गस्तस्य वल्ली-लता तस्या मूलं तपः, अस्तीति सर्वत्राऽध्याहारः । तपसो निदानं-कारणं कीदृशम् ? परम्-श्रेष्ठम् योग: - ज्ञान-श्रद्धान-चरित्ररूपोऽस्ति । योगस्य हेतुः - मनसः समाधिः - समाधानं समता वाऽस्ति । तत् - तस्मात् कारणात् कथञ्चित् - केनाऽपि प्रकारेण मनःसमाधि - सर्वस्याऽऽधारभूतां भज - सेवस्व ॥ ___ विरिणम्- महापुरुषाणां करुणयैवाऽद्यपर्यन्तमस्मिन्जगत्याध्यात्मिको मार्ग उद्घटितस्तिष्ठति । तादृशीं तेषां करुणामनुभवितुं न काऽपि साधनाऽनिवार्या । शास्त्ररूपेणैव सा जगत्यां विलसत्येव । शास्त्रेण चाऽस्मादृशां दीयमानं मार्गदर्शनमेव तेषां करुणाऽस्ति । तदनुभवे त्वस्माकं दृष्टिरेवोपयोगिनी। ____ सत्यं यो गवेषयति तस्य मार्गदर्शनार्थं तु शास्त्ररूपेण महापुरुषाः सर्वदोपस्थिता एव सन्ति । किन्तु न ते कमपि हस्तं गृहीत्वा चालयन्ति, केवलमुपदिशन्त्येव ।
सूर्यो न पथदर्शनार्थमधोऽवतरति स तु केवलं प्रकाशं प्रथयति । स प्रकाश एवाऽस्माकीनी स्थितिं मागं च स्पष्टयति । पश्चात्तु पथिकस्य विवेक एव प्रमाणं भवति । तद्वदेव ज्ञानिनो महापुरुषा अपि लक्ष्यप्राप्तेः स्वानुभवप्रकाशं शास्त्रद्वारा जगत्समक्षं विस्तारयन्ति । स शास्त्रप्रकाश एव सर्वेषां स्थितिं मागं च प्रकाशयति । तन्मार्गे च स्वकीयां स्थितिं ज्ञात्वा प्रत्येकमात्मानः स्वस्वानुरूपया योग्यतया विकासं साध्नुवन्ति । तत्प्रकाशमवलम्ब्य विकासं साधयन्नात्मा यदा स्वीयस्वरूपावस्थानरूपं परमं चरमं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org