SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ..नन्दनवनकल्पतरुः २...... - दृष्टि: - मुनिकल्याणकीर्ति विजयः इह किल बहवोऽर्था दृष्टिशब्दस्य यथा नेत्रं, ज्ञानं, दर्शनं, अवलोकनं, मतमित्यादि । किन्त्वामविकासाध्वनि तस्या अन्य एव कश्चिदर्थो भवति यः स्वानुभवेनैव स्वचित्ते स्फुरति । शब्दैस्तदनुवादः कर्तुमशक्य एव । तथाऽपि विविधा विचारास्तदर्थलेशमवगन्तुमत्र प्रस्तुताः । ___सामान्यतो दृष्टौ पर्यन्तौ स्तः । एको मिथ्यादृष्टिरपरश्च सम्यग्दृष्टिः । नैतौ तस्या भेदौ । सा त्वेकैव । किन्तु यथा एकस्या एव रज्ज्वा द्वे पर्यवसाने तथैवैतो तस्या द्वौ पर्यन्तौ । यदाऽस्माकं चित्तं सङ्कुचित्या, जडरूढिभिः, कदाग्र है:, असच्चिन्तनैः, परदोषदर्शनैः, स्वगुणप्रकर्षेः, क्रोधादिदोषैश्च परिपूर्णं ततश्च क्षुद्रं भवति तदाऽस्माकं दृष्टिर्मिथ्यादृष्टि र्भवति । सैवाऽसदृष्टिरभिधीयते । अयमेव दृष्टेरेकं पर्यवसानम् । यदैव चाऽस्माकं चित्तं उदारतया, अनाग्रहेण, सत्यपरतया, स्वदोषदर्शनेन, परगुणानुमोदनैः, क्षमादिगुणैश्च शनैः शनैर्मिथ्यादृष्टिं विसृज्य निर्मलीभवति तदा नो दृष्टिः सम्यग्दृष्टिर्भवति । अयं च द्वितीयः पर्यन्तस्तस्याः । - यथा जलं शीतीभूय हिमं भवति, उष्णीकृतं च बाष्पीभवतिः यथा वोष्णतामापकयन्त्रे (थर्मो मीटर) उष्णतावृद्धौ पारद ऊर्ध्वं गच्छति तद्धानौ चाऽधो गच्छति, तथैव गुणादिवृद्धौ दृष्टिर्निर्मलीभूय सम्यग्दृष्टिर्भवति विपर्यये च मिथ्यादृष्टिर्भवति । किन्त्वेतत् सर्वमनुभवितुं स्वां दृष्टिं चोद्घाटयितुं विकासयितुं च तत्परता, उत्साहः, सङ्कल्पो, दृढनिश्चय इत्यादिसम्पत्तिरावश्यकी। प्रत्येकघटनायां सर्वत्रैव वा सृष्टौ दृष्टेरुद्घाटकं विकाशकं च तत्त्वं भवत्येव, तद्ग्रहणपरा दृष्टिर्यद्यस्मासु स्यात् । अतः सर्वदा विस्मयमुग्धया विशालया सरलया जिज्ञासितया च | दृष्ट्याऽवलोकनं कर्तव्यम् । एष एव दृष्टे रुद्घाटकानां विकाशकानां च om HAMAR - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy