________________
......नन्दनवनकल्पतरुः २.....
-
मार्गाणामन्यतमो मार्गः।
वस्तुतस्तु दृष्टेरुद्घटनं तथा विकास एव चित्तोर्वीकरणस्य सन्मार्गः । यथा यथा तद्विकसनं भवति यथा च वयं तन्मार्ग अग्रेसरीभवामस्तथा तथा स्वयमेव चित्तशुद्धिर्वर्धतेऽशुद्धयश्च संसन्ते । पुनस्ता अशुद्धीरूरीकर्तुमवकाशो नैव भवितव्यः।
यद्यपि कठिन एष मार्गः। अत्र च कदाचित् - 'नाऽयमस्मादृशां सामर्थ्यगोचरो मार्गः' इति विप्रतिपत्तिरपि भवेत् चित्ते । किन्तु तदा स्वध्येयं लक्ष्यीकृत्य धैर्य चाऽवलम्ब्य तन्मार्गममुञ्चता सर्वा विप्रतिपत्तयो निराकरणीयाः। ___ एवं विघ्नानुपशमय्य यथा यथा पुरःसरामो वयमेतदध्वनि तथा तथा नः स्वलघुताः प्रत्यक्षीभवन्ति । यथा कश्चित् पर्वतारोही कञ्चित् पर्वतमारो, तलहट्टिकयाऽऽरभते । स यथा यथोपर्यारोहति तथा तथा तस्याऽधः स्थितं सर्वमपि वस्तु यथायोग्यं प्रत्यक्षीभवति । तथैव यदा वयं निजां दृष्टिमुद्घाट्य तद्विकासमार्गं प्राप्याऽग्रेसरा भवामस्तदा दोषादिकृतं स्वलाघवं सुतरामस्माकं प्रत्यक्षीभवति । यथा नो विकासोऽधिकस्तथा दोषा अपि अधिकतराः प्रत्यक्षीभवन्ति । तत्कृता लघुता अपि साक्षात् प्रतिभासन्ते । ___यदा वयमनेन मार्गेण निजलघुता निजदोषांश्चाऽवगच्छामस्तदा तन्नाशनोपाया अपि स्वयमेव स्फुरन्ति चित्ते । एतैरुपायैर्यदा वयं दोषान् दूरीकुर्मस्तदा गुणाः स्वयमेव प्रकटीभवन्त्यात्मनि । दोषनाशनमेव गुणोद्भावनस्य महानुपायः ।
किञ्चाऽस्मिन् जगति सर्वमेव वस्तु सर्वदैव स्वीयार्थक्रियायां स्वस्थतया प्रवर्तत एव । न किञ्चिदपि दुःस्थमस्ति । किन्तु यदाऽस्माकं दृष्टिः स्वस्था, विकसिता, समीचीना च भवति, यदा च वयं सर्वत्र यथार्थं द्रष्टुं स्वं प्रगुणीकुर्मस्तदैवऽस्माकं सर्वत्र यथार्थं सुस्थं च प्रतिभाति ।
यद्यस्माकं दृष्टिरेवाऽस्वस्था, अविकसिता, असमर्था च यथार्थतयाऽव
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org