________________
६४
.नन्दनवनकल्पतरुः २..
लोकितुं तदा नो जगति सर्वमेवाऽयथार्थं दुःस्थं च प्रतिभाति । एतदर्थपरैवैषा सूक्तिः 'यथा दृष्टिस्तथा सृष्टि: ।'
अतः सर्वदा स्वदृष्टिं विकाशयितुं चित्तं चोर्ध्वकर्तुं प्रयत्नशीलैर्भाव्यम् । एवं कुर्वाणाः शनैः शनैर्विकासं प्राप्य दोषान् विनाश्य गुणांश्च प्रकटीकृत्य सम्यग्दृष्टेः परां काष्ठां समवाप्नुवन्ति स्वयमेव च दृष्टिरूपा सम्भूय सर्वजगतः प्रेरणास्रोतं भवन्ति ।
अविमृश्य विधातारो भवन्ति विपदां पदम् ॥ प्रायो विचारचञ्चूनां कोपः सुप्रशमः खलु ॥
Jain Education International
66
' हैमवचनामृतम् ”
For Private & Personal Use Only
www.jainelibrary.org