________________
२
/
.नन्दनवनकल्पतरु: २......
-
अत्र पन्नालालश्रावकेणाऽपि पूर्वमेव चातुर्यमुपयुज्य जोधपुरराज्यस्य राज्ञः पुरो रक्षणार्थमेकेन जनेन सार्द्ध विज्ञप्तिः प्रेषिता आसीत् । अतः सशस्त्रसैनिका अपि तत्समय एवाऽऽगताः । तांश्च दृष्ट्वा सर्वे उपद्रवकारका जना अत्र तत्र नष्टाः । अल्पेनैव कालेन तत्र पूर्ववत् शान्तिः प्रवृत्ता, स्वल्पाऽपि हानिर्न तत्र जाता । अन्यस्मिन् दिने च द्वारोद्घाटनादिविधिरपि विहिता सोत्साहम्।
विघ्नशतेष्वपि भगवत्कृपया सर्वं शोभनं सम्पन्नं दृष्ट्वा पूज्यपादा आनन्दमन्वभूवन् । एकस्य महामहिमशालिनस्तीर्थस्य पुनरुद्धारो जातः।
एकदा केनाऽपि पूज्यपादाः पृष्टा आसन्-भगवन् ! शरीरं प्रति सर्वथा निर्मोहदशा कदाऽनुभूता भवता?।' एतस्य प्रत्युत्तरे पूज्यैर्व्याहृतम् - 'कापरडातीर्थस्योद्धारकाले तादृश्यवस्थाऽनुभूता । पश्चात्तु न कदापि शरीरे मोहः समुद्भूतः।'
शासनस्य हितार्थं निश्चितं च लक्ष्यं प्राप्तुं सर्वदा सर्वस्यां परिस्थितौ ते सन्नद्धा इव तिष्ठन्ति स्म । शासनस्य सङ्घस्य च कस्मिंश्चिदपि प्रश्ने प्रयोजने वा तेषां मार्गदर्शनं सदैव मुख्यत्वं महत्त्वं च भजते स्म । कथनमेतत्तु नगरश्रेष्ठिनस्तान् प्रति लिखितमेकं पत्रं सत्यापयति -
'तीर्थानां आणंदजीकल्याणजीसंस्थायाश्च भवन्त आधाराः। अतस्तदर्थं किमपि लेखनं नोचितं भवतः प्रति । यथाकालं यद् यदुचितं प्रतिभासेत तत्तत्सर्वं भवद्भिः कथयितव्यमेव।' ___ एतादृश्यासीत्तेषां प्रतिष्ठा समाजे, या च तेषां निर्दम्भवृत्या निष्पक्षवृत्याश्च परिणामरूपाऽऽसीत् । तत्पूज्यपादानां सान्निध्यमेव सततमभिलषन्ते स्म जनाः । कस्मिंश्चिदपि कार्ये यदि प्राप्ता तेषां निश्रा तर्हि साफल्यमेवास्माक' मिति प्रवर्तते स्म श्रद्धा समस्तजैनसमाजे।
श्रीमाणेकलाल-मनसुखभाई श्रेष्ठिनाऽऽयोजितः शत्रुञ्जयगिरिराजयात्रानिमित्तं सङ्घस्त्वेतदुपर्युक्तं कथनं द्रढयति।
स सङ्घ ऐतिहासिकोऽभूत् । सागरानन्दसूरिमहाराज-मोहनसूरिमहाराज - मेघसूरिमहाराजप्रमुखप्रभावकाचार्यवर्यैः सहितः पञ्चसप्तत्यधिकद्विशतानि साधवः,
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org