SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ....नन्दनवनकल्पतरुः २... २७ अत्रान्तरे ‘समीपवर्त्तिनि ग्रामे पञ्चशतमिता जाटलोका एकत्रीभूय शस्त्रैर्युक्ता आचिक्रमिषवोऽत्राऽऽगच्छन्ति' इति सन्देशः सम्प्राप्तः । एतेन सन्देशेन सार्द्धमेव सर्वं मण्डपिकाद्युत्थापितम् । कोट्टबहिः स्थिताः शेषाः सर्वे जनाः पूज्यचरणैः सहिताः सर्वे साधवश्चाऽन्त आगताः। पिहितानि द्वाराणि । पन्नालालनामकः श्रावकोऽपि पूज्यपादैः सहैवाऽतिष्ठत् । पूज्यपादा ऊचुः-भो रक्षणार्थंमत्र शस्त्राण्यावश्यकानि ।' 'भगवन् ! सर्वं सज्जितमेव' इति तेन कथितम् । रावणनामा गृहस्थोऽपि तत्क्षणमेवाऽऽगतः शस्त्रादिसामग्रीसहितः । कथं स गत आगतश्च, तत्तु स एव जानाति । ___कोट्टमारूढः पन्नालालः । कियत्कालेन जाटलोका आगताः । सन्ध्यासमय: प्रवर्त्तमान आसीदतोऽन्धकारोऽपि शनैःशनै र्व्याप्तः। सर्वे ते जनाः कोट्टं संरुध्योपाविशन् । पिहितानि द्वाराणि दृष्ट्वा क्रोधज्वालामालाकुलास्तेऽधिकं चुकुपुः । द्वाराण्युत्पाट्याऽन्तः प्रविविक्षवस्तेऽभवन् । अथ ‘कोट्टमुल्लङ्घयित्वा द्वाराणि त्रोटयित्वा वा यदि ते प्रवेशं कुर्युस्तर्हि पञ्चशतसङ्ख्याकास्ते किमप्यघटितं कर्तुं समर्था एव, तर्हि किमत्र कर्तव्य' मिति चिन्तयद्भिर्गुरुभगवद्भिः श्रीविजयोदयसूरिप्रमुखसर्वशिष्यानुद्दिश्य कथितं यद्-‘अधुनैते जना अतीवक्रोधाकुला इव सन्ति । किं ते चिकीर्षव इति तु स्पष्टमेव दृश्यते । अतो यद्यस्ति युष्माकं जिजीविषा तत्राऽस्त्येकं गुप्तं द्वारं तेन गच्छन्तु । अत्र तु प्राणसङ्कटं वर्तते ।' सर्वे विनेया अपृच्छन्-'भगवन् ! एतादृशि सङ्कटसमये भवतां किं चिकीर्षाऽस्ति?' __पूज्या:-'अहं तु ‘कार्यं साधयामि वा देहं पातयामी'ति दृढसन्धोऽस्मि । अतो जिनबिम्बस्य जिनालस्य च रक्षणार्थमत्रैव स्थास्यामि ।' शिष्याः - ‘भवादृशान् भवाब्धितारकान् मुक्त्वा नासीदस्माकं कदाचिदपि जिगमिषा जिजीविषा वा। अधुनाऽपि नास्त्येव । भवन्त एवाऽस्माकं जीवनम् । भवद्भिः रहितं जीवितमप्यस्माकं मरणतुल्यमेव । अतो यदि भवन्तो जिनबिम्बस्य जिनालयस्य च रक्षणार्थं दृढप्रतिज्ञास्तर्हि वयं भवत्पूज्यानां रक्षणे प्रवामः । विद्यन्ते यावत्कालमस्माकं देहेषु प्राणा न तावत्कोऽपि किमपि भवतामशुभं कर्तुं समर्थो भविष्यति । पश्चात्तु यद्भावि तद्भवतु।' एवं गुरुभगवद्भिरनुमताः सर्वे तत्रैव स्थिताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy