________________
२६
. नन्दनवनकल्पतरुः २...
सर्वाऽपि व्यवस्था कीदृग्रूपेण करिष्यथ ? आकर्ण्यतद्गुरुवचनं श्रावकैरपि सोत्साहं प्रत्युत्तरितम् - 'भगवन् ! अचिन्त्यप्रभावकाणां भवादृशामुपस्थितौ किमशक्यमस्माकम् ? भवत्कृपालोः प्रभावेणाऽशक्यमपि सर्वं शक्यं भविष्यतीति वयं निःशङ्कं श्रद्दध्महे । अतो विज्ञप्तिं स्वीकृत्याऽस्मान् कृतार्थयत । '
।
श्रावकाणामियत्प्रमाणमुत्साहं श्रद्धाभरप्लावितं चित्तं च निरीक्ष्य गुरुभगवद्भिः सम्मतिः प्रदत्ता । सम्मतिं प्राप्य श्रावका आनन्दमहोदधौ निमना इवाभवन् । द्वादशदिवसीयो महोत्सवो निर्णीतः । वैक्रमीयबाण - ऋषि-निधिविधु (१९७५) मिते वर्षे माघशुक्लपञ्चमी बिम्बप्रतिष्ठार्थं निश्चिता । चामुण्डादेव्या भैरवदेवस्य च स्थलान्तरमपि चर्चितं सर्वैः किन्तु न तत्कार्यं कृतं केनाऽपि । एतस्मिन्कार्ये स्वीयामुपस्थितिमनुचितां ज्ञात्वा पूज्यपादा अपि बिलाडाग्रामे एव स्थिताः । अत्रान्तरे च चामुण्डादेवीमूर्त्तिस्तु साहसिक्यमवलम्ब्य पन्नालालश्रावकेणाऽन्यस्थलं प्रापिता । पश्चाद् गुरुभगवतामागमनमभूत् । प्रतिष्ठामहोत्सवार्थं पूर्वभूमिकाऽऽदृता । कार्येणैतेन जाटलोकानां रोषोऽप्यवर्धित एव । तत्कार्ये विघ्नकरणार्थं शस्त्राणि गृहीत्वेतस्ततो बभ्रमुः । सङ्कटं गतेष्वपि प्राणेषु पूज्यपादास्तु निर्भया इवाऽस्थुः । नियतकाले महोत्सवः प्रारब्धः । प्रवर्त्तमाने महोत्सवे पूजनादिमङ्गलविधौ च विधीयमानेऽपि भैरवदेवसमक्षमेको ग्रामीणः स्वपुत्रस्य क्षुरकर्मार्थमागतः । तादृशीं तस्य प्रवृत्तिं दृष्ट्वा गुरुभगवन्तो व्याहरन्-‘वयमुपस्थिताः सन्ति, एतादृशानि च विशुद्धान्यनुष्ठानान्यपि प्रवर्त्तन्ते, तथाऽपि यद्येवमेवाऽऽशातना क्रियते चेदेतैर्लो कैस्तर्हि महोत्सवानन्तरं किं किं न भविष्यति ? ।'
आकण्यैतद् गुरुवचनं गुरुभक्तेन श्रीविजयोदयसूरिनामकेन शिष्येण ससाहसं भैरवमूर्त्तिस्तत उत्थाप्य, उपाश्रये स्थापिता । एतद् दृष्ट्वा जाटलोकानां रोषो द्विगुणतोऽभूत् । किन्त्वकञ्चित्करा इव किमपि कर्त्तुं न तेऽपारयन् । बृहत्शान्तिस्नात्रसाधर्मिक वात्सल्य-कुम्भादिविसर्जनप्रमुखकार्यपुरस्सरं प्रतिष्ठादिकार्यं चारुतया समाप्तिमगात् । लोका अपि स्वस्वस्थानं प्रति प्रस्थानं कृतवन्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org