________________
...नन्दनवनकल्पतरुः २....
-
तस्मिन्नपि नृपतेर्देशनेतुर्वाऽवर्णवादो विरोधो वा नैव कल्पते । केवलमस्मदीयधर्मसिद्धान्तेभ्यो विरुद्धेषु विचारेष्वेवाऽस्माकं विरोधो वर्त्तते । ततु स्वाभाविकमेव । किन्तु युष्माकमायत्तत्वं शोभनमतोऽस्माकं विरोधः' इति न सम्भवति ।
अधिकारी - यदि कोऽपि राजा नृशंसो धर्मनाशको वा भवेत् तमपि किं न भवान् विवर्णयेत् विरोधयेद्वा ?
पूज्यपादाः - यत्राऽस्त्युत्सर्गस्तत्राऽपवादस्तु भवत्येव । अपवादं विना नोत्सर्गः स्थातुमलम् । ___ एवं सयुक्तियुक्तं श्रुत्वा सोऽधिकार्यत्यन्तं प्रसन्नो बभूव । धर्मसम्बन्धिनी राजसम्बन्धिनी च चर्चाऽपि कृता तेन पूज्यैः सह । पूज्यचरणैरपि तीर्थाणां जैनायत्तत्वं स्पष्टीकृतं तस्याग्रे। जैनानां च राष्ट्रप्रति सन्निष्ठत्वं संदर्य कथितं यद् ‘तीर्थाणामस्माकं परम्परयाऽऽगतस्य स्वायत्तत्वस्य संरक्षणमपि राज्याधीनमेव, राज्यस्यैव तत्कार्यम्।' तेनाऽपि तत्सर्वं स्वीकृतम् । एवं सन्तुष्टः स ततो गतः । स्वल्पनैव समयेन स निवृत्तोऽभवत् । तस्य स्थाने च गोसलीया महोदयो नियुक्तः।
आङ्ग्लाधिकारिणां सर्वेषामेका पद्धतिर्वर्त्तते स्म यत् स्वस्याऽधिकारसमये ते स्वकीयेऽवतरणपुस्तके स्वानुभवान् लिखन्ति स्म । ये जनास्तेषां विरोधिनो वर्तेरन् तेषां नामानि कार्याणि चैकस्मिन्पुस्तके लिखेयुः, ये च राज्योपयोगिनो जनास्तेषां नामानि कार्याणि चाऽन्यस्मिन् पुस्तकेऽवतरेयुः।
एकदा कपडवणजग्रामस्य शामलदासश्रेष्ठिनः सचिवो वल्लभदासभाई, यश्च गोसलियामहोदयस्य मित्रमासीत्, स तत्पार्श्वे गतः । प्रवर्त्तमाने वार्तालापे विचाले एव स गोसलियामहोदयः पप्रच्छ - 'युष्माकं जैनसमाजे एष नेमिसूरीश्वरः कोऽस्ति?' तेनोक्तम् - ‘स चाऽस्माकं जैनानां सर्वोच्चस्थानीयः परमप्रभावको धर्मगुरुरस्ति। किन्तु भवन्मनसि किमर्थमेतत्प्रश्न उद्भूतः?' सोऽचीकथत् - प्राट्महोदयेनैतस्मिन् श्वेतपुस्तके लिखितं यद् -'श्रीनेमिसूरीश्वरेण तुल्यं प्रचण्डमूर्जस्वि प्रभावशालि च व्यक्तित्वं न मया कदापि दृष्टमस्ति।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org