________________
३२
सर्वदाऽमोघायते स्म । तथाऽपि न कदापि तैः स्वीया प्रतिभा वैपरीत्येनोपयुक्ता । अत एव च तेषां ताद्दशं निर्दम्भव्यक्तित्वं सर्वमान्यं सर्वग्राह्यं सर्वप्रशस्यं च बभूव । तादृग्व्यक्तित्वं स्पष्टयन्तमेकमुदाहरणं पश्येम -
.नन्दनवनकल्पतरुः २....
राजनगरस्य कमिश्नरपदे स्थित आङ्ग्लाधिकारी 'कर्नल प्राट्' नामाऽऽसीत् । तेन च पूज्यपादानां ख्यातिः श्रुता । तैः सह मिलनार्थं च स उत्सुकोऽभूत् । तदर्थं च स निजाङ्गगतमार्गदर्शकौ वाडीलालकुसुमगर चीमनलालकुसुमगरेत्यभिधौ जैनश्रेष्ठिनावचीकथत् । तावपि पूज्यपादेभ्यो मिलनार्थं तस्य स्थाने गन्तुमनुरोधं चक्रतुः । किन्तु पूज्यपादैर्न स्वीकृतं तत्र गमनम् । अतस्ताभ्यां तस्य तत्राऽऽजिगमिषा प्रस्तुता, उक्तं च 'भवान् पीठे विराजतां सोऽपि च चतुष्पद्यामुपवेक्ष्यति । अस्ति किमत्र कोऽपि बाधः ? ' । पूज्या ऊचुः - 'अहं तु भूमावेव ममाऽऽसने उपविशामि, अपरं च सर्वेऽप्यागन्तुका अध एवाऽऽसनं गृह्णन्ति । श्रावकास्तु विवेकं दर्शयन्ति । अतो यदि तस्याऽऽगमने जिज्ञासा वर्त्तेत तर्ह्यागच्छतु ।'
I
व्यतीतेषु कियत्सु दिवसेषु पूज्यपादा हठीसिंहवाटिकायां विराजमाना आसन् । स तत्र विनैव पूर्वनिवेदनं सहसाऽऽगतः । शिरस्त्राणमुत्तार्य सोपानदेव प्रविष्टः स उपाश्रये । तद् दृष्ट्वा पूज्यचरणैः साराभाई श्रावकेण सूचितः स यद् - ' उपानहौ तत्रैव मुञ्चत । सोऽवदत् 'मया शिरस्त्राणमुत्तारितमतोऽनयोस्त्यजनं नाऽऽवश्यकम् ।' पूज्यैरुक्तम् - 'प्रत्येकं धर्मस्थानानां मर्यादा तु अवश्यं पालनीया । यदि भवदीये ख्रीस्तीधर्मस्थानेके कोऽपि सशिरस्त्राणः प्रविशेत् तर्हि किं स न निषिध्यते युष्माभिः ?।' तेनोक्तम्-‘न। अहं तु न निषेधामि ।' आकर्ण्यतद् शीघ्रमेव प्रत्युत्तरितं पूज्यपादैर्यद् भवतु । तथाऽप्यागन्तुको यदि भवेत् सभ्यस्तर्हि स न तद्धर्मस्थानकस्य मर्यादामुल्लङ्घेत ।' श्रवणमात्रेणैवैतस्य वचनस्य तेनोपानहौ त्यक्तौ ।
तत्काले देशे प्रवर्तमानं सत्याग्रहादिविषयमाश्रित्य स चर्चार्थमागत आसीत् । तत्रैवमभूवन्नालापा द्वयोर्मध्ये
अधिकारी - श्रुतमस्माभिर्यद् भवान् गान्धीमहोदयस्य विरोध्यस्ति ?
पूज्याः 'साधूनां न कल्पते कस्याऽप्यवर्णवाद' इत्यस्माकं सामान्यो धर्मः ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org