________________
......नन्दनवनकल्पतरुः २....
-
भवताऽवधारणीयम्।"
एष आसीत्तेषां सर्वग्राही सर्वमान्यश्च प्रतिभावैभवः । यद्यपि प्रवर्त्तमानः स समयो भवभीतानां गुणग्राहिणां महापुरुषाणामासीत् । तत एव चैतादृशो गुणानुरागः प्रवर्त्तते स्म । स्वकीयं मन्तव्यं तु तत्र गौणत्वं बभाज शासनस्य च हितमेव मुख्यायते स्म । स्वपक्षीयं हितं तु न तत्र लक्ष्यं किन्तु सर्वपक्षीयमेव हितम् । वस्तुतस्तु त एव महापुरुषा ज्ञानिन आसन् । यत् सत्यमेव तेषां पक्ष आसीत् न तु पक्ष एव सत्यम् ।
श्रीसागरानन्दसूरिभगवन्तः शासनसम्राङ्गुरुभगवन्तश्च पांजरापोलसत्कोपाश्रये सहैव विरेजुः । पूज्यगुरुभगवद्भिरपि स्वकीयेनौदार्येण धैर्येण च साधुसमुदायान् पारस्परिक मतभेदमपास्यैक्यं स्थापितम् । येन च सर्वैः परमो हत्तोषोऽनुभूतः।
किन्तु 'शृगालैःक्षा अद्यपर्यन्तमम्ला एव मताः।' इति केचिदसहिष्णवो जनाः सङ्घस्यैतादृशमुत्कर्षमसहमानाः सम्मेलनस्य निष्फलतामेव वर्णयन्ति स्म । किन्तु सुज्ञाः प्राज्ञाश्च जनास्तान् तेषां प्रलापांश्चोपेक्षामासिरे। ___फाल्गुनकृष्णपञ्चम्यां सम्मेलनमारब्धम् । निर्विघ्नसमाप्त्यर्थं च प्रथमं स्नात्रमहोत्सवः कारितः । पञ्चाशदधिकचतुःशताऽऽचार्यादिसाधूनां सप्तशतसाध्वीनां नैकसहस्रश्रावकश्राविकाणां चोपस्थितौ स्नात्रमहोत्सवः सम्पन्नः । चतुस्त्रिंशदिवसपर्यन्तं प्रवृत्तमेतत्सम्मेलनम् । तस्मिंश्च दीक्षा-देवद्रव्य-सङ्घ-साधूनां पावित्र्य-तीर्थ-साधु समुदाये ज्ञानवृद्धि-देशना-श्रावकसङ्घोन्नति-पारस्परिकै क्य-धर्मोपरि असभ्याः पराक्षेपाः धर्मे राजप्रवेशादय इत्येकादश विषयाश्चर्चिताः । चर्चितविषयाश्च पूज्यनन्दनसूरि-महाराज-पं.रामविजय-मुनिपुण्यविजय-मुनिचन्द्रसागरमहाराजादिभिः सम्यग् निर्णीय नियमरूपेण प्रस्तुता गच्छाधिपानामग्रे। तत्पश्चाच्च सूरिसम्राजां नेतृत्वे सर्वैः पूज्यैः सम्यग्विचार्य तदनुरूपः पट्टकोऽपि रचितः । तत्पट्टे क च शासनसम्राट्सहितैर्नवभिः पूज्य हस्ताक्षराणि कृतानि । तत्पट्टकश्च सम्मेलने चैत्रकृष्णपञ्चम्यां सभामध्ये नगरश्रेष्ठिना वाचितः सकलश्रीसङ्घन च सहर्ष वर्धापितः । एवं साफल्येन मुनिसम्मेलनमपि सम्पन्नमभवत् ।
व्यक्तित्वमेव तेषामीदृशं निर्मलं प्रभावकं चाऽऽसीद् येन तेषां वचनं कार्यं वा
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org