________________
......नन्दनवनकल्पतरु: २......
ल्लसितवदनाऽभवत् । ___ अथ च शुभेऽहनि जन्मराशिवृश्चिकानुसारेण 'नेमचन्द' इति नाम दत्तम् । मातापित्रोः स्वजनानां च स्नेहेन दिवसा व्यतियन्ति । सप्त वर्षाणि व्यतीतानि । मातापितृभ्यां स प्रेषितः शालायां पठनार्थम् । तीव्रमेधाशक्तिना स्वल्पेनैव कालेन तेनाऽभ्यासः पूर्णः कृतः।
व्यतीते कियति काले एकदा नेमचन्दः स्वपितरं प्रत्यवदत् - 'तात ! संस्कृतपठने धार्मिकाभ्यासे च वर्तते मे चिकीर्षा ।' श्रुत्वैतत् सहर्ष पिताऽजल्पत् - 'यदि वर्तते तवाऽभिलाषः पठने तर्हि तदर्थं तुं त्वया भावनगरं गन्तव्यम् । तत्र विराजते श्रीवृद्धिचन्द्रगुरुराजः । स एव त्वां पाठयिष्यति।' ___ 'रुच्यनुसारेण वैद्यकथन' मिव पितुरेतद्वचनमाकर्ण्य स हर्षभरान्वितचित्तोऽभूत् । झटिति च तद्वचने स्वीयस्वीकृति दर्शिता । पित्राऽपि गुरुभगवन्तं वृतान्त एष ज्ञापितः, अनुमतिरपि च प्राप्ता।
अथ च मातृपित्रोराशिषं संप्राप्य गतवान् स गुरुभगवतः पार्श्व भावनगरम् । तत्र स्थितः स सविनयं गुरुभगवतः पार्श्वे ज्ञानार्जने रतोऽभवत् । गुरुभगवतस्तत्रस्थानां च सर्वेषां साधुभगवतां सपर्याऽपि स नित्यं भक्त्या करोति।
एकदा रात्रौ सुप्तः सन्नपि गतनिद्रः स चिन्तयति - ‘शालायां मयाऽभ्यासः कृतः । अत्राऽपि च पठनार्थमेवाऽऽगतोऽस्मि । कालं प्राप्य गृहगमनम्, तत्राऽपि धनार्जनाय व्यापारकरणमित्यादि सर्वं भविष्यत्येव । किन्तु, एतस्यां सर्वस्यां प्रवृत्तौ मम किम् ? किं ममैतज्जन्मैवमेव पूर्णतामेष्यति ? स्वल्पमपि सत्कार्य विनैव यद्यैष मे भवो समाप्स्यति तदा मां को लाभो भविष्यति ? अहं किमेवं कुर्यां येन मम परेषां च श्रेयो भवेत् ? कोऽस्य मार्गः ?' एवं चिन्तयन् - 'साधुजीवनमेवोत्तमो मार्ग': इति विचारितं निश्चितं च।
सामान्यतोऽपि न संसारे रतिस्तस्याऽऽसीत् । अधुना त्वेतेन विवेकपूतेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org