________________
.......नन्दनवनकल्पतरुः २......
-
-
-
चिन्ततेनाऽवशिष्टोऽपि नष्टः संसारमोहस्तस्य । तदैव निश्चितं तेन साधुत्वाऽङ्गीकारार्थम् । “सत्सङ्गतिः कथय किं न करोति पुंसाम्''।
एकदा गृहात् पत्रमागतम् यद् - 'नेमचन्दस्य पितामही पञ्चत्वं प्राप्ता।' तेन प्रत्युतरं प्रेषितं यद् - ‘साररहितोऽयं संसारः । सर्वमेवाऽत्राऽनित्यं वर्तते । न कोऽपि कस्यचिदस्ति । अतो धर्माचरणमेव सत्यम् ।' ___सहसैवैतादृशं प्रत्युत्तरं सम्प्राप्य पुत्रस्य च परिवर्तितचित्तवृतिं ज्ञात्वा पित्रा लक्ष्मीचन्द्रेण पश्चात् स्वस्वास्थ्यविकृतिं ज्ञापयित्वा नेमचन्द आकारितः । झटित्यागतो नेमचन्दः । किन्तु सर्वं तत्र व्यवस्थितं दृष्ट्वा स्वजनानां कपटचेष्टितं तेन ज्ञातम् । पुनरपि भावनगरं गन्तुं स उत्सुकोऽभूत् किन्तु न केनाऽप्यनुमितिः प्रदत्ता।
स्वयं स गृहे वसति किन्तु तन्मनस्तु गुरुचरणे एव विद्यते । समयेन सार्द्धं वैराग्यमपि तस्य दृढतरं भवति । परस्परं मित्रैः सह वार्तायामपि तस्यैक एव ध्वनिवर्तते यद्-"संयमः एव सत्यो मार्गः । अहं तु दीक्षा ग्रहीष्याम्येव । संसारे नास्ति कोऽपि सारः।" ___पिता लक्ष्मीचन्द्रोऽपि निजपुत्रस्येदृशी भावनां परिवर्तयितुं सततं प्रयतते । तस्य मित्रैरपि प्रयत्नाः कृताः किन्तु न केऽपि सफला अभवन् । अन्ततोगत्वाऽन्तिमोपायस्वरूपेण नेमचन्दं स्वमित्रन्यायाधीशस्य पुरः सोऽनयत् । तेनाऽपि यथाशक्यं कृतम् । तेन कथितम् -- यदि त्वं नंक्ष्यसि तहिं तव हस्तौ पादौ च बद्ध्वा कारायां क्षिपामि ।' इति श्रुत्वा निर्भीको नेमचन्दोऽवदत्-कामं बध्नन्तु क्षिपन्तु च । शृङ्खलया तु शरीरं मे बध्यते न त्वात्मा । अतो नास्ति मे कोऽपि भयावकाशः ।' दृढतरमेतत् प्रत्युतरं प्राप्य स न्यायाधीशोऽपि क्षणमवागिवाऽभूत् ।
एवं सर्वेषु प्रयत्नेषु निष्फलत्वं प्राप्तेषु पिता लक्ष्मीचन्द्रः सचिन्तोऽभवत् । तन्मनः चिन्ताग्रस्तमभूत् - यद् - 'नेमचन्दः पलायनं मा कुर्यात्' । ___ अत्र नेमचन्दोऽपि कमप्युपायं विचारयति। यतः -
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org