________________
......नन्दनवनकल्पतरु: २......
-
-
"नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥"
एकदा सायङ्काले 'मित्रस्य गृहं गच्छामी'त्युक्त्वा गृहानिर्गतो नेमचन्दः । गतश्च साहसिक्यमवलम्ब्यैकमुष्ट्रवाहकं प्रसाद्य तदीयोष्ट्रमारुह्य भावनगरं गुरुभगवतः पार्श्वे । निवेदिता च गुरुभगवते स्वकीया भावना । सहसा तस्याऽऽगमनं दृष्ट्वा गुरुभगवताऽत्याश्चर्यमनुभूतम् । यदा च तेन स्वकीया भावना दर्शिता तदा गुरुभगवता कथितम् ‘उत्तमा तव भावना किन्तु न त्वत्पित्रोरनुमति विना तां पूरयितुमुत्सहेऽहम् ।' ____ आकण्र्यैतद् गुरुवचनं, ‘कृतमेतादृशमपि मे साहसं किं निष्फलं भविष्यति ?' इति चिन्तया स व्याकुलोऽभूत् । 'न कदापि करिष्यामीतो गृहं प्रति पुनर्गमनं, दीक्षामेव ग्रहीष्यामी' ति दृढसङ्कल्पः सोऽन्यद् विचारयितुं प्रवृत्तः।। ___ अत्र, प्रातःपर्यन्तं पुत्रमदृष्ट्वा सचिन्तौ पितरौ तस्य शुद्धयर्थं प्रवृत्तौ । अन्ततोगत्वा भावनगरगमनमेव तस्य सम्भाव्य तत्रैव पत्रं प्रेषितं तच्छुद्ध्यर्थम् । ततश्च प्रत्युत्तरं प्राप्तं यद् - "व्रतोत्सुकः स अत्राऽऽगतोऽस्ति । किन्तु, न भवदनुमति विना किञ्चिदपि भविष्यति । प्राप्यैतदुत्तरं मातापितरौ स्वजनाश्च स्वस्थाः चिन्ता-भाररहिताश्चाऽभवन् ।
इतो 'जलं विना मीन' इव स्थितिर्नेमचन्दस्य व्रतप्राप्तिं विना भूता । एकदा कस्यचिन्मुनिभगवतः सकाशात् साधुवेषं सम्पाद्य स्वयं धृतवेषः गुरुभगवत्समक्षं समुपस्थितः। रजोहरणं तु आसन्नं स्वर्गतस्य तपागणैक गगनमणे: श्रीमूलचन्दजीगुरुभगवतः (श्रीमुक्तिविजयजीगणिवरस्य) प्राप्तम् । आगामिनि काले तपागच्छस्य धुरीणत्वमस्यैतत्सूचयति । ____ गुरुभगवताऽपि मनोदाढ्यं तस्य समीक्ष्य दीक्षा प्रदत्ता । वैक्रमीये बाणवेद-निधि-विधु (१९४५) वर्षे ज्येष्ठशुक्लसप्तम्यां तिथौ चारित्रं गृहीतवान् सः । 'मुनि नेमविजय' इत्यभिधानं कृतं गुरुभगवता । एवं सङ्कल्पसिद्धेः चित्तं प्रसन्नमभूत्तस्य ।
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org